________________
३१८
व्यवहार-छेदसूत्रम्-२-७/१८६ दोच्चंपिओग्गहे अणुन्नवेयव्वेसिया ।-तिबेमि। .
वृ-सेरजपरियट्टेसुइत्यादि सूत्रद्वयस्यसम्बन्धप्रतिपादनार्थमाह - [भा.३३५०] सागारियसाहम्मिय उग्गहगहणेणउत्तमामि ।
सत्तम अंतिमसुत्तंठवंति राउग्गहे थेरा ।। वृ- पूर्वसूत्रेभ्यः सागारिकावग्रहणमनुवर्तते ततोऽपि परतरेभ्यः साधर्मिकावग्रहग्रहणं तस्मिन् अनुवर्तमाने अवग्रहग्रहणप्रस्तावात् सप्तमोद्देशकस्यान्तिमं सूत्रद्वयं-राजावग्रहेस्थविराः सूत्रकर्तारः स्थापयन्ति । एषोऽधिकृतसूत्रद्वयसम्बन्धोऽनेन सम्बन्धेनायातस्यास्य व्याख्या-से तस्य भिक्षो राजपरावर्तेषु राजपरावर्तो नामागेतनो राजा कालगतो नवोऽभिषिक्तस्तेषु पुनः कथंभूतेषु इत्याहसंस्तृतेषु न कोऽपितत्राज्यं विलुम्पतीति भावः । तथा अव्याकृतेषु येषां दायादानां सामान्यं तद्राज्यं तैरविभक्तेषुअव्यवच्छिन्नेषुतस्मिन्वंशेअनुवर्तमानेषुअतएवापरगृहीतेषुसैवावग्रहस्यपूर्वानुज्ञापना तिष्ठति । या तस्यवंशस्यादावनुज्ञापना कृता कियन्तं कालं पुनः सैव पूर्वानुज्ञा तिष्ठति तत आह-यथा लन्दमप्यवग्रहः किमुक्तंभवति यावन्तंकालंस वंशोऽनुवर्ततेतावन्तमपि कालमवग्रहे राजावग्रहे सैव पूर्वानुज्ञापनावर्तते ।नपुनरस्मिनाज्ञिउपविष्टेसभूयोऽवग्रहमनुज्ञापयितव्यः । एष प्रथमसूत्रस्यार्थः, सम्प्रतिद्वितीयस्योच्यते-सेतस्य भिक्षोराज्यपरावर्तेषुअन्येषुराज्यप्रतिपन्नेषुअसंस्थितेषुतुटितपूर्वराज्य संस्थितिषुव्याकृतेषुअन्यवंशीयैर्दायादैर्वास विभज्य समीकृतेषुव्यवच्छिन्नेषुव्यवच्छिन्नपूर्ववंशेषुअत एव परपरिगृहितेषु भिक्षुभावस्यार्थाय भिक्षुभावो नाम ज्ञानदर्शनचारित्राणि तेषामेव भिक्षुशब्दप्रवृत्तिनिमित्तत्वादेतच्चप्रथमोद्देशकेसप्रपञ्चंभावितम् । तस्यायसभिक्षुभावः परिपूर्णोभूयादित्येवमर्थमित्यर्थः । अन्यथा सचित्तादीनामननुज्ञापने अदत्तादानं स्यात् द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः । एष द्वितीयस्यापि सूत्रस्यार्थः साम्प्रतमेनामेव व्याख्यांभाष्यकृदप्याह[भा.३३५१] संथडमोअविलुत्तंपडिवक्खोवा नविज्जती जस्स ।
अणहिठियन्नेणवअव्वोगडदाइसामन्नं ।। वृ- संस्तृतं नाम राज्यं यदविलुप्तं मो इति पादपूरणे । यस्य वा प्रतिपक्षो न विद्यते नाप्यन्येन केनाप्यधिष्ठितं अव्याकृतं नाम दायिनांसामान्यं नपुनस्तैर्विभक्तं । __ [भा.३३५२] अव्वोगडं अविगडंसंदिठं वाविजंहवेज्जाहि।
अव्वोच्छिन्नपरंपरमागयतस्सेव वंसस्स ।। वृ-अव्याकृतं नाम यदविकृतं केनापि विकारमनापादितं यदि वा यद्भवेत् पूर्वराजेन सन्दिष्टं यथा एतस्मै राज्यं देयमिति तदव्याकृतम् । अव्यवच्छिन्नं नामयत्तस्यैव वंशस्य परम्परयासमागतमिति । [भा.३३५३] पुव्वाणुन्नाजा पुव्वएहिराईहिं इह अनुन्नाया ।
लंदंतुहोइ कालो चिठइजावुग्गहोतेसिं ।। वृ-पूर्वानुज्ञाता मयापूर्वकंराजभिरनुज्ञाताजहालन्दमवीत्यत्र लन्दो नामभवतिकालस्ततोऽयमों यावन्तंकालं तेषामवग्रहस्तावन्तमपिकालंसैवावग्रहे पूर्वानुज्ञा तदेवं प्रथमसूत्रव्याख्या कृता । [भा.३३५४] जंपुन असंथडं वासगडंव तहवोगडं ववोच्छिन्नं ।
. नंदमुरियाणव जहा वोच्छिन्नो जत्थ वंसोउ ।। वृ- यत्पुनरसंस्तृतं शकटमिव विशरारूतया संतरीतुमशक्नुवन् यथा व्याकृतं दायादैरन्यवंशजैर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org