________________
उद्देशक : - ७, मूल - १८२, [भा. ३३३४]
३१५
हेठा उवरम्मिठिते सीसंमि पडालि ववहारो ।।
वृ- साधूनामवकाशं मुक्त्वा तेन पूर्वस्वामिना शय्यातरेण वक्रयो भाटकं गृहीतः । गृहीत्वा च प्रोषितस्तस्मिन् प्रोषितेऽधस्तात् कव्रयिकस्य भाण्डमुपरि माले साधवः । अथवा अधस्तात् शालायां स्थिताः साधव उपरिमाले वक्रयिकस्य दत्तं एतन्मिश्रमुच्यते । एवं मिश्रे रुपेमिश्रे स्थितानां यदा शालायां साधव उपरि माले वक्रयिकस्य भाण्डं तदा पडाली गलति भाण्डस्योपरीति न काचित्साधूनां क्षतिः । अथ वक्रयिकस्य भाण्डमधस्तात् शालायामुपरि माले तिष्ठन्ति साधवः । पडाली च गलति तदा वक्रयिकश्चिन्तयति । उपरिमाले पडाली गलति तत्र साधूनां कष्टं मम त भाण्डमधस्तात् शालायां ततो नविनश्यतीति एवं चिन्तयित्वा पडाली न च्छादयति । तत्रयद्यन्योऽपि कश्चित् न च्छादयति तदा व्यवहारः कर्तव्यः व्यवहारेण छादयितव्य इति । एतदेवाह
[भा. ३३३५ ]
हेट्ठाकयं वक्कइएण भंडं तस्सोवरिवावि वसंति साहू । भंडं न मेउल्लइ मालवद्धे नोतं छयंतंमि भवेविवाओ ।।
वृ- अधस्तात् शालायां कृतं वक्रयिकेण भाण्डं तस्य भाण्डस्योपरि माले वसन्ति साधवस्ततो नाम भाण्डमस्मिन् माले बद्धेनार्द्रयते न तिम्पते । इति विचिन्त्य नतां पडाली च्छादयति । भवेद्विवादो व्यवहारो जायते कथमित्याह[भा. ३३३६ ]
वक्कइय छएयव्वे ववहारकयंमि वक्कयं बेंति । अकयंमि य साहीणं वेतितरं दाइयं वावि ।।
वृ- यदि पूर्वमवक्रयकाले एवं वागन्तिको व्यवहारः कृतो यः वक्रयिकेण छादयितव्यमिति तदा वक्रयिकं साधवोऽनुकूलेन प्रतिकूलेन वा वचसा ब्रूवते । यथा त्वया छादयितव्या पडालीति अथ न कृतस्तथारुपो वागन्तिकव्यवहारस्तत्राह- अकृते यथोक्तरुपे वागन्तिकेव्यवहारे स्वाधीनं शय्यातरं ब्रुवते यथा च्छादयत पडालीमिति अथ स शय्यातरः क्वापि प्रोषितो भवेत् तदा तस्य शय्यातरस्य दायाहं वा गोत्रिणं ब्रुवते
[भा. ३३३७]
अच्छयंते च दाऊणं सयं सेज्जायरे घरं । अनुसट्ठाईहनिच्छं तं ववहारेण छावए ।।
वृ- अथ शय्यातरः प्रमाद्यति न च्छादयति, तदान्यः कश्चिदभ्यर्थ्यते ततो येन सा पडाली च्छादिता सोऽपि शय्यातरो भवति । अथान्यः कश्चनापि च्छादयिता न विद्यते तदा शय्यातरे स्वयं गृहं दत्वा प्रमादेनानाच्छादयति अनुशिष्टिरनुशासनं कियते । आदिशब्दात् धर्मकथा च तथापि च्छादयितुमनिच्छंतं व्यवहारेण येन गृहं दत्तं तेन च्छादनमपि कर्तव्यं । न च पूर्वमाच्छादनं विचारितं, न चास्माकमकिञ्जनानां किञ्चिदस्ति येन च्छादयाम इत्येवं राजकुलेऽपि गत्वा व्यवहारकरणेन च्छादयेत् । तदेवमवक्रयसूत्रं भावितमिदानीं क्रयिकसूत्रमति देशतो व्याख्यानयति
[भा. ३३३८]
एसोवकमो नियमा कइयंमि वि होइ आनुपुव्वीए ।
नवरं पुन नातं उच्चत्ता हती सोऊ ।।
वृ य एव क्रमोऽवक्रयिकेऽभिहितः स एव क्रमो नियमात् क्रयिके शय्यातरत्वचिन्ता कृता तथा तयैव रीत्या क्रयिकेऽपि कर्त्तव्येति नवरं पुनर्वक्रयकात् क्रयिकस्य नानात्वं इदं वक्रयिकः कियत्कालं. मूल्यप्रदानतो गृहीतः स तुक्रयिकः पुनरुच्चत्वेन गृह्णाति यावज्जीवं मूल्यप्रदानत आत्मसत्ताकी करोति ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International