________________
२८
व्यवहार-छेदसूत्रम्-२- ४/१०४ वृ-धर्मे श्रोतुमिच्छामि युष्माकं पार्थे । जे इति पादपूरणे । श्रुते धर्मे रुचिते प्रतिभासिते सति प्रव्रजिष्यामि । एवमुक्ते कथना धर्मस्य भवति, कः कथयतीति चेदत आह-यो लब्धितः कथनलब्धेरहीनः स प्रथमंसाधयति कथयति । अथान्येऽपि द्वित्रिप्रभृतयो लब्धितः समानास्तहि यो रत्नाधिकस्तेन कथयितव्यम् ।। [भा.१८३८] पुनोवि कहमिच्छते, तत्तुल्लंभासतेपरो ।
एवंतुकहिएजस्स, उवट्ठायति तस्ससो।। वृ- अहं पुनरपि धर्मकथां श्रोतुमिच्छामि ततः पुनरपि कथां धर्मकथां श्रोतुमिच्छामीति ब्रवीति, ततः पुनरपि कथां श्रोतुमिच्छति परोऽन्यो भाषते तत्तुल्यं तावन्मात्रमेवममपरवेलायामन्य । उक्तंच 'जारिसं पढमेण कहियं, तारिसं सेसेहिं वि कहियव्वमिति', एवं प्रदीपकथनसदृशतया सर्वैः कथिते यस्योपतिष्ठति तस्य सआभवति । अथान्ये विशेषेण विशेषतरेण कथयन्ति तर्हि तेतंन लभन्ते किन्तु योरत्नाधिकस्तेपां, तस्य सआभवति ।। [भा.१८३९] अनुवसंतेचसव्वेसिसलद्धि कहणा पुन ।
रावनियादि उवसंतोतस्स सोमायनासउ ।। वृ-अथयाशंप्रथमेनकथितंतादृशेऽन्यैरपिकथितेसनोपशाम्यति,नप्रव्रज्याभिमुखीभूतोभवति, ततस्तस्मिन्ननुपशान्तेपुनः कथनाधर्मस्य सर्वेषां रत्नाधिकप्रभृतीनांस्वलब्ध्यायथास्वशक्तितुलनया, एवं चकथने यस्य समीपेस उपशान्तस्तस्याभवति, कस्मादेवंकथनेतिचेदत आह-मासोऽनुपशान्तः सन् नश्यतु संसारं परिभ्रमत्विति कृत्वा ।। अथ सर्वे आचार्या एकत्र मिलितास्तिष्ठिन्ति, स च शैक्षक एवं कंचन पृच्छति, कोऽत्राचार्यः ? तत एवं कथनीयम्, सर्वे बहुश्रुताःसर्वेचाचार्याः सर्वेप्रधाना इति एवमुक्ते, यदिशैक्षिको ब्रते-यंजानीय यूयमाचार्यतंममदर्शयत, तत्राह[भा.१८४०] जंजाणहआयरियं तंदेह ममंतिएव भणियंमि ।
जहबहुया तेसीसादलंतिसव्वेसिमेक्केकं ।। वृ-यं जानीथ यूयमाचार्यं तं मम देहति दर्शयतेत्येवं भणिते यदि ते शिष्याः शिष्यत्वेनोपस्थिता बहवोभवन्ति, ततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिताः परस्परसम्मत्या ददतिप्रयच्छन्ति ।।
अथ एक एव शिष्यस्तत्र विधिमाह[भा.१८४१] रायनियाथेरासतिकुलगणसंघेदुगादिनोभेदो ।
एमेव वत्थपाए, तालायरसेवगा भणिया ।। वृ- यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रात्निको रत्नाधिकस्तस्य तं समर्पयन्ति, अथ सर्वे समरत्नाधिकास्ततो यस्तेषां वृद्धतरस्तस्य, अथ सर्वे वृद्धास्तर्हि यस्य शिष्या न सन्ति तस्य । अथ सर्वेषामपि शिष्या न विद्यन्ते तत इयं सामाचारी । सर्वेषां शिष्याणामसत्यभावे कुलत्ति यदि ते सर्वे समानकुलास्ततः कुलस्थविरस्य तं ददति, अथान्यकुलसत्का अपि तत्र वर्तन्ते; तत आह-गणत्ति गणस्थविरस्यसमर्पयन्ति, अथान्यगणसत्काअपतत्रविद्यन्ते, ततआह-संघेइतिसङ्घस्थविराय ददति, अथवा स एकःशिष्यः साधारणस्तावत क्रियते यावदन्ये उपतिष्ठन्ते, उपस्थितेषु च तेषु यदा सर्वेषां परिपूर्णा भवन्ति तदा विभज्यन्ते । एवं द्विकादयोऽपि भेदा वाच्याः । द्विप्रभृतीनामपि शिष्याणामुपस्थितानामेवं विभाषाकर्तव्या ।एवमेव अनेनैवच प्रकारेणवस्त्रपात्रादिलाभेऽपिद्रष्टव्यम् ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only