________________
३०६
व्यवहार-छेदसूत्रम् -२- ७/१८०
[भा. ३२८७]
असती निरच वा काउं ताहेव वच्चेज्जा ।। संविग्गइ तेच्चिय असतीए ताहे इत्थीवग्गेण । सिद्धीसाविग संजति किढि मज्झिमकायतुल्ला वा ।।
वृ-यदि तस्मिन्ग्रामे अन्येऽपिसंविग्ना असांभोगिकाः सन्ति तदा तैः सहपरिष्ठापयन्ति तेषामभावे असंविज्ञैः पार्श्वस्थादिभिः समं तेषामप्यभावे सारूपिकसिद्धपुत्रैस्तेषामप्यप्राप्तौ संज्ञिभिः श्रावकैः समं एवं पूर्वं स्वग्रामे मार्गणा कर्तव्या । तत्र स्वग्रामे संज्ञिनामप्यसति अभावे यदि परग्रामे स्वपक्षोऽस्ति तत्र कंचित् प्रेषयति अन्यस्य वा तथाविधस्य प्रेषणयोग्यस्याभावे अप्पाहेसेति अन्यं गच्छन्तं सन्दिशति । अन्यस्यापि गच्छतोऽसंभवे कालगतस्य पार्श्वे कंचित्स्थापयित्वा स्वयमन्यग्रामं गच्छति गत्वा स्वपक्षमन्यमानयति अथ स कोपिन विद्यते, यः कालगतस्य पार्श्वे स्थाप्यते तर्हि यत्र काकादिभिर्न भक्ष्यते तत्र निरत्यते निरपाये स्थाने कालगतं कृत्वा ततोऽन्यंग्रामं व्रजेत् । गत्वा संविग्नादीना नयति प्रथमतः संविग्नान् सांभोगिकानानीय तैः समंपरिष्ठापयति । तेषामलाभे असांभोगिकैरपि तेषामप्यभावे असंविग्नैः पार्श्वस्थादिभिः तेषामप्यसति सारूपिकसिद्धपुत्रैस्तेषामप्यप्राप्तौ श्रावकैः समं तेषामप्यभावे स्त्रीवर्गेण । तत्र क्रममाह-प्रथमतः सारूपिकीभिः सिद्धपुत्रिभिरतुल्यवयोभिस्तासामप्यलाभे श्राविकाभिर तुल्यवयोभिस्तासामप्यभावे वृद्धाभिः संयतीभिस्तासामप्यप्राप्तौ मध्यमवयोभिः संयतीभिस्तासामप्यलाभे तुल्याभिरपि तुल्यवयोभिरपि संयतीभिः ।
[भा. ३२८८ ]
गणभोइएवि जुंगिते संवरमादी मुहा अनिच्छंते । अनुसट्टिं अदसादी तेहिं समं तो विविंचेउ ।।
,
वृ- तुल्यवयसामपि संयतीनामभावे मल्लगणं वा हस्तिपालगणं वा कुंभकारगणं वा समुपतिष्ठति ततो यान् ते सहायान् ददति तैः समं परिष्ठापयति । गणानामभावे भोजिकं ग्राममहत्तरमुपतिष्ठते । ततो यान्सहायान् ददातितैः सह परिष्ठापयति । तत्रापि सहायानामलाभे ये जुङ्गिका हीनजातयो हीनकर्माणश्च सम्बरादयश्च सम्बराः कचवरोत्सारका आदिशब्दान्नखशोधकाः स्नानकारकक्षालप्रक्षालकादि परिग्रहस्तेषामनुशिष्टिं ददाति । ततस्तैः सहायैः परिष्ठापयति । अथ ते मुधानेच्छन्ति तदा येऽन्ये जातिजुङ्गिका वरुडादयस्तेषामनुशिष्टिं ददाति । अथ तेऽपि मुधानेच्छन्ति तदा तेषामदशानि वस्त्राणि मूल्यं दीयते । अदशानामनिच्छायां सदशान्यपि ततस्तैः समं विवेचयत् ।
[भा. ३२८९]
अथ रुंभिज्जदारट्टे मुल्लं दारुण दीनहा । अनुट्ठादितु तहियं अनो वा भणती जती ।।
वृ- तस्मिन् कालगते कदाचित् रात्रौ नीयमाने द्वारस्थो द्वारं न दद्यात् । यदि किञ्चित्प्रयच्छ ततो निष्काशं ददामि । क्वचिद्देशे पुनरयमाचारो दिवसेऽपि मृतं द्वारपालस्य किंचित् दत्वा निष्काश्यते । तस्य रुन्धतोऽनुशिष्टिः कर्तव्या । आदिशब्दात् धर्मकथापि । तत्र यदि नेच्छति ततो यद्यन्यः कोऽपि धर्मकथामनुशिष्टिं वा श्रुत्वा ब्रूते । किं ब्रूते इत्याह
[भा. ३२९० ]
मुंच दाहामहं मुल्लं उवेहं तत्थ कुव्वती । अदसादीनि वा देती असती साहारणं वदे ।। जइ लभामो अनेमो अलद्धे तं वियाणतो । सो वि लोगरवाभीतो मुंचते दारपालतो ।।
[भा. ३२९१]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org