________________
उद्देशक : - ७, मूल - १८०, [भा. ३२८० ]
३०५
अथोपकरणं वोढुं न शक्नुवन्ति तदा शय्यातरादीनां परिनिवेद्य द्वारं स्थगयित्वा परिष्ठापयन्ति । परिष्ठाप्य भूयो वसतौ प्रत्यागच्छन्ति । [भा. ३२८१]
अह गंतुमना चेव तो नयंति ततो च्चिय । उलोयणमकुव्वतो असढो तत्थ सुज्झए ।।
वृ- अथान्यं ग्रामं ते गन्तुमनसस्तत उपकरणं सह नयन्ति नीत्वा तत्कलेवरं परिष्ठाप्य तत एव परिष्ठापनप्रदेशात्परतोऽन्यं ग्रामं गच्छन्ति । तत्र यदुक्तमधस्तात्कल्पाध्ययने अवरज्जूयंमि अवलोयणा कायव्वा इति तदन्यग्रामगमनेना शठोऽकुर्वन शुध्यति न दोषभागू भवति ।
[ भा. ३२८२ ]
छड्डेउं जइ जंती नायमनायावनाए परलिंगं । इकुव्वती गुरुगा आणादीभिक्खु दिट्टंतो ।।
वृ- यदि कालगतं छर्दयित्वा अपरिष्ठाप्य गच्छन्ति तर्हि ते विचारणीयास्तेन ग्रामेण ते ज्ञाताऽज्ञाता वा तस्य परिचिता अपरिचिता वा इत्यर्थः । तत्र ज्ञाते ग्रामस्य परिचये सति यदि कालगतस्य परिलिङ्ग कुर्वन्ति कृत्वा वा परिष्ठाप्य गच्छन्ति । तदा प्रायश्चित्तं चत्वारो गुरुका आज्ञादयश्च दोषा अथाज्ञाते परलिङ्ग कृत्वा अपरिष्ठाप्य गच्छन्ति । तदा कालगतस्य परलिङ्ग दर्शनतो मिथ्यात्वगमनमत्र च श्रावकभिक्षु दृष्टान्तः । स चावश्यकटीकातो भावनीयः । तत्र ज्ञातेऽन्ये च दोषास्तानेवाहअचियत्तमादिवोच्छेयमादि दोसा उ होति परलिंगे ।
[भा. ३२८३]
अन्नाए उहि काले एकए गुरुगाय मिच्छत्तं ।।
वृ- ज्ञाते सति परलिङ्गे क्रियमाणेऽचियत्तादयोऽप्रीत्यादयो व्युच्छेदादयश्च दोषा भवन्ति तथाहि ग्रामेयकास्तत् परलिङ्ग कृतमितरांश्च साधून अप्रीतिं कुर्वन्ति । अहो इमे संयता निःशूका निर्लज्जामापरिष्ठाप्यो भूदिति परलिङ्गमारोप्यापरिष्ठाप्य त्यक्त्वा गताः । आदिग्रहणेनागाढमिथ्यादृष्टीनां प्रतिरूप जायते इति परिग्रहस्तत्र च व्युच्छेदादयो दोषास्तथाहि ते आगाढमिथ्यादृष्टयः प्रीतिं ब्रूवते । अहो सुन्दरमात्मनैव तैः प्रवचनस्य हीलना कृता मा एतेषामाहारादीनि प्रयच्छथ । आदिग्रहणान्मा अत्र कोऽपि प्रव्रज्यां प्रतिपद्येत मा सोऽप्येवं विधामवस्थां प्राप्नुयात् । एते ज्ञातानां दोषा अथाज्ञाता यतनां कृत्वा तत्कलेवरमरिष्ठाप्य व्रजन्ति । यदि क्षिप्रमेव गतास्ततः पश्चात्कालगतो देवलोके उत्पन्नो अवधिं प्रयुङ्कते ततः स एवं मन्येत । अहमेतेन लिङ्गेन देवोजात एवं (ममता) माननान्तरं मिथ्यात्वगमनं । अत्र काले कृते तेषां गमने प्रायश्चित्तं चत्वारो गुरुकाः । यस्मादेते दोषास्तस्माद्विधिना परिष्ठाप्यः सम्प्रतियः कथंचन एकाकी जातस्तस्य परिष्ठापना विधिमाह
।
[भा. ३२८४]
गानि तो जाहे न तरेज्ज विविचिउं तयं सोउ । ताय विमग्गेज्जा इमेण विहिणा सहाउ ।।
वृ- यदा स एकाकी त्यक्तकलेवरं विवेक्तुं न शक्नुयात् तदा अनेन वक्ष्यमाणेन विधिना सहायान् विमार्गयेत्, तमेव विधिमाह
[भा. ३२८५]
[भा. ३२८६ ]
22 20
Jain Education International
संविग्गमसंविग्गे सारुविय सिद्धपुत्त सन्नीय । सग्गामंमि य पुव्वं सग्गामे असती परग्गामे ।। अप्पाइ सयं वा विगच्छई तत्थं वा विया अन्नं । .
For Private & Personal Use Only
www.jainelibrary.org