________________
३०२
व्यवहार-छेदसूत्रम् -२- ७/१८०
लोपस्ततः प्रथमायामिति द्रष्टव्यम् । अष्टमीति अष्टम्यामिति । साम्प्रतमुक्तानुक्तद्वार संग्रहार्थमाहरत्तिदिसा थंडिल्ले सिल विंचा झामिए य उत्सन्ने । छेत्ता विभत्ती सीमा सीयाणा चैव ववहारो ।।
[भा. ३२६८ ]
वृ- प्रथमं रात्रिद्वारं । तच्च प्रागेव सप्रपञ्चमुक्तं । द्वितीयं दिग्द्वारं तच्च भण्यमानमास्ते । तृतीयं स्थण्डिलद्वारं त्रिधा शिलारुपं बिम्बादि वृक्षादीनामधो ध्यामितंच चतुर्थमुच्छन्नद्वारं । पञ्चमं क्षेत्रैर्विभक्ते भूमिभागे द्वयोर्ग्रामयोः सीमायां परिष्ठापनीयमित्येवं लक्षणं षष्टे श्मशाने इति द्वारं । तत्र च व्यवहारो वक्तव्यः । एष द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेव विवरीतुकामो रात्रिद्वारं किल प्रागेव सप्रपञ्चमुक्तमतो दिग्द्वारस्य वक्तव्यशेषमाह
[भा. ३२६९]
लब्भमाणे वा पढमाए असतीए वाघाते वा । ताहे अन्नाए विदिसाए पेहेज्ज जयणाए ।।
वृ- लभ्यमानायां गाथायां पुस्त्वं प्राकृतत्वात् । प्रथमाया अपरदक्षिणस्या अभावे व्याघाते वा सति ततस्तस्याः प्रथमाया दिशोऽन्यस्यां दिशि द्वितीयस्यां स्थण्डिलंयतनया प्रेक्षेत । तस्या अपि लभ्यमानाया अभावे व्याघाते वा सति तृतीयस्यामेवं यावच्चरमायामपि न प्रागुक्तो दोषः । तीर्थकराज्ञानुपालनपुरस्सरं यतनया प्रवृत्तेर्यदि पुनर्द्वितीयस्यां सत्यां तृतीयस्यां दोष उक्तः स प्रसजति चतुर्थ्या तृतीयोक्त एवमुत्तरोत्तरदिक्ष्वपि भावनीयं । गतं दिग्द्वारमधुना स्थण्डिलद्वारमाह
[भा. ३२७०]
सिलायलं पसत्थं तु जत्थत्थाविफासुयं । झामं थंडिलमादिच्च बिंबादीन समीवे वा ।।
वृ- शिलातलं शिलातलरूपं यत्प्रशस्तं स्थण्डिलं तत्र परिष्ठापयन्ति । अथवा यत्र गोकुलमजा वा उषिता आदिशब्दादन्यथा यत् प्रासुकं तत्र यदि वा ध्यामिते अग्निना दग्धे प्रदेशे आदिशब्दात्करीषादिप्रदेशरुपे वा स्थण्डिले यदि वा बिंम्बादीनां वृक्षाणां समीपे यत्र महान्सार्थ उषितस्तत्र परिष्ठापयति । गतं स्थण्डिलद्वारमधुना उत्सन्न उ द्वारमाह
[भा. ३२७१]
उस्सन्ना तिन्नि कप्पाउ होति खेत्तेसुकेसुई । अत्थंडिलादिसासुं वा तेवि जाणेज्ज पणवं ।।
वृ- केषुचित्क्षेत्रेषु उसणेन बाहुल्येन बहुकालाचीर्णाः कल्पा भवन्ति । किं विशिष्टा इत्याहअस्थण्डिलास्तथाहि केषुचित् ग्रामेषु नगरेषु वा एवं रुपा मर्यादा यथा एतावति प्रदेशे मृतकं त्यक्तव्यं नान्यत्र तत्र च स्थण्डिलाभावः । ततस्तत्र धर्मास्तिकायप्रदेशनिश्रामुपकल्प्य परिष्ठापयेत् । यत्रापि नदीपूरेण वर्षासु स्थण्डिलप्रदेश: प्लावितो अन्यासु विदिक्षु स्थण्डिलव्याघातः । तत्रापि धर्मास्तिकायप्रदेशनिश्रया परिष्ठापनं कुर्यात् । एतच्च प्रस्तावादुक्तमन्यथा नायमाचीर्णः कल्पः तथा केषुचित् क्षेत्रेषु दिक्षु बहुकालाचीर्णाः कल्पा भवन्ति । यथा आनन्दपुरे उत्तरस्यां दिशि संयताः परिष्ठापयन्ति । ततस्तत्र तथैव परिष्ठापनं कर्तव्यं नास्ति कश्चिद्दोषः । तानपि अस्थण्डिलान् दिक्षु वा अकल्पान् प्रज्ञावान् जानीयात् । ज्ञात्वा च तथैव समाचरेदिति । गतमुत्सन्नद्वारमिदानी क्षेत्रमाहखेत्ते विभत्ते गामे राय भए वा अदेतसीमाए । भोइयमादीपुच्छा रायपहे सीममज्झे वा ।।
[ भा. ३२७२]
वृ- क्वचित् ग्रामे कौटुम्बिकैः क्षेत्रभूमयः सर्वा अपि सीमाच्छेदेन विभक्तास्ततः समस्तं भूमण्डलं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International