________________
३००
व्यवहार-छेदसूत्रम् -२- ७/१८० वृ-ज्ञाते क्षेत्रे यत् पूर्व दृष्टं तदेव स्थण्डिलं भवति । अज्ञाते यदि वेलायां प्राप्तास्तदा संज्ञादिगताः स्थण्डिलंप्रेक्षन्ते। [भा.३२५६] अह पुन विकाले पत्ताइंताचेव उकरेंति उवओगं ।
अकरणे हवंतिलहुगा वेलं पत्ताणचउगुरुगा ।। वृ- अथ पुनर्विकाले विकालवेलायां प्राप्तास्तत आगच्छन्त एवं स्थण्डिलविषयमुपयोगं कुर्वन्ति अथप्रमादतोऽमङ्गलबुद्ध्या वानकुर्वन्तितदाउपयोगस्याकरणेचत्वारोलघुकाः प्रायश्चित्तं, वेलाप्राप्तानां. पुनः स्थण्डिलविषयोपयोगाकरणेप्रायश्चित्तं चत्वारो गुरुकाः ।। [भा.३२५७] आणादिणो यदोसा कालगते संभमादिसुंहुजा ।
अच्छंतमनच्छन्ना विनासगरिहंचपावेति ।। वृ-नकेवलंप्रायश्चित्तंकिन्त्वाज्ञादयश्चदोषास्तथातेषांमध्येकोऽपिरात्रौ कदाचित्कालं कुर्यात्तत्र स्थण्डिलंनप्रत्युपेक्षितमितिन परिष्ठापयन्ति । अपरिष्ठापयत्तांचवेतालोत्थानदोषः अथ परिष्ठापयन्ति तस्थिण्डिलदोषासंगः । तथाहि रात्रौ वह्नि संभवो वा स्तेन संभ्रमो वा परचक्रविभ्रमो वाजातः सोऽपि च व्रती कालगतः स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापितस्तत्र यदि अग्निसंभ्रमादिषु कथमनाथकलेवरमिति त्यक्त्वा व्रजामोमा प्रवचनस्योड्डाहो भूदिति विन्नित्य तिष्ठन्तितस्य समीपेतदा तेषामग्न्यादेविनाशं उपधिर्वास्तेनादिभिरपग्रहणं अथ न तिष्ठन्ति । किन्तु तत्त्यक्त्वा पलायन्ते तदा ते जनमध्ये गहाँ प्राप्नुवन्ति । अथवा स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिठापयन्ति । तदा मलिनैर्वस्त्रैस्तस्मिन्परित्यज्याने प्रवचनस्यापभ्राजनाअहो अमी वराका अदत्तदानामृता अपिशोभान लभंते, ।संभमादिसुहोज्जा इत्यादिकमेव व्याख्यानयति[भा.३२५८] तेनग्गिसंभमादिसुतप्पडिबंधेन दाहो हरणंवा ।
मइलेहिवच्छडुंती गरिहाय अथंडिलेवावि ।। वृ-स्तेनाग्निसंभ्रमादिष्वादि शब्दात्परचक्रसंभ्रमादि परिग्रहः तत्प्रतिबन्धेन कालगतप्रतिबन्धेन तिष्ठतामग्निदाहं स्तेनैहिरणं स्यात् । अथ स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिठापयन्ति । तदा मलिनैर्वस्त्रैरुपेतं छईयन्तीति गर्दा स्यात् । अथैतद्दोषभयाद्वा तद स्थण्डिलेऽपि परिष्ठापयन्ति तदा अस्थण्डिले परिस्थापनादोषः । [भा.३२५९] एएदोस अपेहिय अह पुन पुव्वं तुपेहितं होति ।
ताताहिच्चिय निभाएतेदोसान होताय ।। वृ-एते अनन्तरोदितादोषा अप्रेक्षितेस्थण्डिलेभवन्ति । अथपुनः पूर्वं प्रत्युपेक्षितमभविष्यत्त एते अनन्तरोदिता दोषानाभविष्यन् । [भा.३२६०] अहपेहिएविपुट्विं दियाव रातो व होज वाघातो ।
सावय तेन भयावा ढक्कि याताहे अत्थावि (तो)।। वृ- अथ पूर्व प्रेक्षितेऽपि स्थण्डिले दिवा वा रात्रौ वा भवेत् व्याघातः कथमित्याहस्वापदभयात् स्तेनभयाद्वा यदिवा रात्रौद्वाराणि ढक्कितानिपिहितानितदाआस्थापयन्तिधरन्तिनपरिष्ठापयन्तीत्यर्थः । तदा बन्धनच्छेदनजागरणादिका पूर्वोक्ता यतनापि, (वा) स्थाण्डिलस्य व्याघातः तर्हि यावत्स्तेनादि भयापगमो भवतिस्थण्डिलं वा किमपिकालोचित्तंप्राप्यते,तावत्सैव प्राक्तनी यतनाकर्तव्या ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org