________________
२९०
व्यवहार-छेदंसूत्रम्-२-७/१७६ वासासु अतारगाउचउरो छणेनिविठोवि ।। वृ-इदंगाथात्रयमपिव्याख्यातार्थत्वात्सुप्रतीतं । च्छन्नेनिविठोवीत्युक्तमतस्तदेवसविशेषंभावति[भा.३१९५] ठाणे सतिबिंदूसुवगेण्हइ चिट्ठोविपच्छिमंकालं ।
पडियरतिवावि एक्को एक्को अंतट्टितोगेण्हे ।। वृ- वर्षाकाले तथाविधस्यान्यस्य स्थानस्यासति अभावे बिन्दुस्वपि निपतत्सुउपर्यति नीचतया ऊर्ध्वस्थानासंभवे उपविष्टोऽपि पश्चिमं प्राभातिकं कालंगृह्णाति तथा स्थाना सतिएको दण्डधरो बहिः स्थितः कालं प्रतिचरति एकः पुनरन्तः स्थितः कालंगृह्णाति एष वर्षासुप्राभातिके काले विशेषो नाद्येषु त्रिषुकालेषु, ।अथ कतरेचत्वाराः कालाउच्यन्ते । प्रथमः प्रादोषिको, द्वितीयोऽर्धरात्रस्फिटितः तृतीयो वैरात्रिकश्चतुर्थः प्राभातिकः, ।अथ कः कालः प्रथमतः कस्यां दिशि गृह्यते । तत आह[भा.३१९६] पातोसिअद्धरते उत्तरदिसिपुव्वपेहएकालं ।
वेत्तियंमिभयणा पुव्वदिसा पच्छिमेकाले ।। वृ- प्रादोषिकमर्धरात्रमर्धरात्रस्फिटितं च पूर्वं प्रत्युपेक्षते गृह्णाति उत्तरस्यां दिशि, वैरात्रिके भजना विकल्पना उत्तरस्यां दिशि पूर्वं प्रत्युपेक्षते पूर्वस्यां वेति, पश्चिमे प्राभातिके काले प्रथमतः प्रत्युपेक्षणं पूर्वस्यादिशि, अथ कियन्तः काला जघन्यतकियन्त उत्कर्षतः साधूनांग्राह्यास्तत आह[भा.३१९७] कालचउक्कं उक्कोसएणजहन्नेन तिगंतुबोधव्वं ।
वेश्यपयंमि दुगंतूमाइट्ठाणे विमुक्काणं ।। वृ- मातृस्थानेन विमुक्तानामशठानां साधूनामुत्कर्षेण कालचतुष्कं ग्राह्यं भवति, जघन्येन त्रिकं कालत्रिकं ग्राह्यं बौद्धव्यं द्वितीयपदे अपवादपदे द्विकं कालद्विकं तु शब्दादेकोऽपि कालो बोद्धव्यः । कथमुत्कर्षतःकालचतुष्कमत आह[भा.३१९८] पातोसिएणसव्वे पढमंपोरिसि करेंतिसज्झायं ।
. ताहे उसूत्तइत्तासुवंतिजगंतिवसभाउ ।। वृ- प्रादोषिकेन कालेन सर्वे साधवः प्रथमपौरुषीं यावत्कालिकं स्वाध्यायं कुर्वन्ति, ततो द्वितीये यामसूत्रवन्तः साधवस्तेस्वपन्ति,वृषभाजाग्रति ।तेचजाग्रतस्तेनैष कालेनप्रज्ञापनादिकंपरावर्तयन्ति, तावत्यावत् कालवेला भवति । ततः कालवेलायांकालस्य प्रतिक्रभ्य । [भा.३१९९] फिडियंमि अद्धस्ते काले घेत्तुंसुवंति जागरिया ।
ताहेगुरुगणंतीचउत्थेसव्वे गुरूसुवती ।। वृ-स्फिटितेअर्धरात्रंकालंगृह्णन्तिकालंगृहीत्वातेआचार्यमुत्थापयन्तिततस्तेजागरिताःस्वपन्ति ततो गुरव उत्थिताः सन्त उद्घाटकालिकं प्रज्ञापनादि गुणयन्ति । ततश्चतुर्थ्यां पौरुष्यामेव गाढायां वैरात्रिकं कालं गृहीत्वा सर्वेऽपि कालिकं श्रुतं परावर्तयन्ति गुरुः स्वपिति, ततो बालवृद्धादीनां वाचनोपग्रहकारिकालग्रहणाय यावत्यांवेलायां नवानांकालानांग्रहणंभवति । तावती वेलांज्ञात्वा एकः कालग्राही न प्रतिक्रामति शेषाः प्रतिक्रामन्तियस्त्वप्रतिक्रान्तः स कालं प्राभातिकंगृह्णाति ।। [भा.३२००] एवंतुहोतिचउरो कहपुन होज्जाहि तिनिकालाओ।
पादोसियंमि पठिए गहियंमि अड्डरते य ।। [भा.३२०१] जइवेरत्तियसुज्झे ताहेतेनेव अद्धरतेण ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org