________________
२८८
व्यवहार-छेदसूत्रम् -२-७/१७६ गृह्णाति तदापिहतः कालः । [भा.३१८२] वासंच निवडइजती अहव असज्झाइयं वनिवेहेजा ।
एमादीहिंनसुज्झे,तच्चिरहमीभवेसुद्धो ।। वृ- यदि वर्षं निपतति अथवा किंचिदस्वाध्यायिकं निपतेत् तदा एवमादिभिरादिशब्दात् यदि कायोत्सर्गेण तिष्ठन् भूमिंन प्रमार्जयति, । च्छिन्नं वा मार्जारादिनापान्तरालं दण्डधरो वा कालग्राहिणो दुरव्यवस्थानस्थितो न युगान्तरमात्र इत्यादि परिग्रहः । कालो न शुद्धयति उपहन्यते काल इत्यर्थः । तद्विपरीते यथोक्तदोषाभावेभवतिशुद्धः कालः । [भा.३१८३] गहियंमी कालम्मीदंडधरो अस्थतीतहिंचेव ।
इयरोपुन आगच्छइजयणाए पुव्वभणियाए ।। वृ- गृहीते काले दण्डधरस्तत्रैव कालभूमौ तिष्ठत्ति इतरः पुनः कालग्राही यतनया पूर्वभणितया आवश्यकी कृत्वा सम्यगु पयुक्तो रजोहरणेन भूमिं प्रमार्जयन् गुरुसमीपागमने च नैषेधिकी कुर्वन् इत्यादिकयागच्छति। [भा.३१८४] जो गच्छंतमि विही आगच्छंतंमि होतिसव्वेव ।
जंएत्थंनाणत्तं तमहं वुच्छंसमासेणं ।। वृ-यो गच्छति विधिरुक्त आगच्छंत्यपि विधिः स एव भवति नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति[भा.३१८५] अकरणे निसीहियादीआवडणादीय होतिजोइक्खे।
अपमज्जियभीते छीए च्छिन्नेयकालवहो ।। वृ-अकरणेनैषेधिक्यादेरादिशब्दात्आवश्यिक्यानमस्कारादेश्चपरिग्रहः । यदिकालभूमेर्निर्गच्छन् आवश्यिकीन करोतिगुरुसमीपंगच्छन् नैषेधिकी गुरुसमपिमागतोनमःक्षमाश्रमणेभ्य इतिनमस्कार वा यदि न करोति नाप्यैर्यापथिकी प्रतिक्रामति नापि वन्दनकं ददाति तदा कालवध इति योगः, । तथा आपतनादौ आपतने प्रस्खलने च कालवधः । तथा जोइक्खो नाम दीपः । जोइक्खं तह छाइल्लयं च दीवं मुणेज्जाहि इतिवा तज़्योतिःस्पर्शने वा कालवधः अथाप्रमार्जितभूमेरप्रमार्जने तथा क्षुतेच्छिन्नेव मार्जारादिनापान्तराले मार्गे कालवधः । [भा.३१८३] इरियावहिया हत्थंतरेविमंगलनिवेयणा समयं ।
सव्वेहिं विपठविए पच्छाकरणं अकरणंवा ।। वृ-आगत्यहस्तशताभ्यन्तराप्यैर्यापथिक्या प्रतिक्रन्तव्यम् । मुखपोतिकाप्रतिलेखनान्तरंवन्दनकं दातव्यं । ततःशुद्धकाल इतिमङ्गलनिवेदनं कर्तव्यम् । ततोमङ्गलनिवेदनान्तरंसमकमेवसर्वैः स्वाध्याये प्रस्थापिते पश्चात्करणमकरणं वा कालदानस्य किमुक्तं भवति ? यः प्रस्थापनवेलायां नागतस्तस्य कालदानाकरणमितरेषांतुप्रस्थापनवेलागतानांकालदानकरणमिति एतदेवाह[भा.३१८७] सन्निहियाणवडारोपट्टविएपमादिनो दएकालं ।
वाहिठिए पडियरइपविसइताहे यदंडधरो ।। वृ-स्वाध्याये प्रस्थापितेयेस्वाध्यायप्रस्थापनवेलायांप्रमादिनोनागतास्तेषांकालंनदद्यात्, शेषाणां तुदद्यात् । तथाचात्रमरुकज्ञातं विजृम्भतेयः समवायेनागतस्तस्यवडारोभागोनदीयते, सन्निहितानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org