________________
व्यवहार - छेदसूत्रम् - २-४ / १०४ उज्ज्वाल्यमानेष्वधीयमानेषु वा, अथवा प्रकीर्णकश्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डलीभवति । तत्राप्याभाव्यमावलिकायामिव; अथ कथमावलिकायामिव मण्डल्यामपि द्रष्टव्यमिति चेत् । उच्यते, - एक एकस्य पार्श्वपूर्वाधीतं नष्टमावश्यकमुज्वालयति, आवश्यकवाचनाचार्यः पुनस्तस्य समीपे दशवैकालिकम्, दशवैकालिकवाचनाचार्यस्याभवति इत्यादि सर्व तथैव, तथा एकएकस्य पार्श्वे आवश्यकं नष्टमुज्वालयति, एषोऽप्यावश्यक वाचनाचार्योऽन्यस्य समीपे दशवैकालिकं, दशवैकालिकवाचनाचार्योप्यपरस्य दृष्टिवादमुज्वालयति, दृष्टिवादवाचनाचार्यस्याभवति, न शेषाणामाभवनस्योत्तरोत्तरं संक्रान्त्याऽन्तिमेऽवस्थानादेतच्चावलिकायामपि द्रष्टव्यम् । तथा यस्य पार्श्वे धर्मकथाशास्त्राणि वो (चो) ज्वालयत्यधीते वा तस्य पाठकस्याभवति न पाठ्यमानस्य, तथा बहुश्रुततरोऽपि यद्यन्यस्य समीपे प्रकीर्णक श्रुतमधीते तदा तस्य प्रकीर्णकश्रुतवाचनाचार्यस्याभवति न बहुश्रुततरस्य, किंबहुना, यो यस्य समीपे पठत्युज्वालयति वा तस्य सत्कमाभाव्यमितरो वाचनाचार्यो हरतीति ।। अथावलिकाया मण्डल्याश्च कः प्रतिविशेष इत्यत आहच्छिन्नाच्छिन्नविसेसो, आवलियाएउ अंतए ठाति । मंडलीए सङ्काणं, सचित्तादीसु संकमति ।।
[भा. १८२८ ]
२६
वृ-आवलिकामण्डल्योः परस्परं च्छिन्नाच्छिन्नरूपो विशेषः, आवलिका च्छिन्नाविविक्ता एकान्ते भवति । मण्डलिका त्वच्छिन्ना, “आवलिय तत्थ च्छिन्ना मंडलिया होइ अच्छिन्ना उ” इति वचनात् । एतदेव सुव्यक्तमाह-आवलिकायामुपाध्यायको (ध्यायो) ऽन्तर्मध्ये विविक्ते प्रदेशे तिष्ठति, मण्डल्यां पुनः स्वस्थानमाभवनं च पाठयितरि संक्रामति सचि तादिपु तत्क्षेत्रगतसचित्तादिविषियम् ।। अधुना घोटककण्डूयितमधिकृत्याह
[भा. १८२९]
दोहं तु संजयाणं, घोडगकंडूइयं करेंताणं ।
जो जाजं पुच्छ सो ताहे पडिच्छतो तस्स ।।
वृ- द्वयोः संयतयोर्थोटककण्डूयितमवि घोटकं कण्डूयितं परस्परं प्रच्छनमित्यर्थः तत् कुवतां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छंकः इतरः प्रतीच्छ्यः यावच्च यः प्रतीच्छ्यस्तावत्तस्याभवति, न शेषकालमिति । । उपसंहारमाह
[ भा. १८३०]
एवं तो असमत्ते कप्पे भणितो विहिउ जो एस । एत्तो समत्तकप्पे वृच्छामि विहिं समासेण ।।
वृ- एवं तावदसमाप्ते कल्पे यो विधिर्भवति, स एष भणितः । अत ऊर्ध्वं समासेन समाप्तकल्पे विधिं वक्ष्यामि । । प्रतिज्ञातमेव निर्वाहयति
[ भा. १८३१]
Jain Education International
गणिआयरियाणंतोखेत्तंमिठियाण दोसु गामेसु ।
वासासु होति खेत्तं निस्संचारेण बाहिरतो ।।
वृ- गणोऽस्यास्तीति गणी गणावच्छेदक आचार्यः प्रतीतस्तयोर्ग्रामयोः पृथक् पृथक् स्थितयोर्वर्षास्वाभवति क्षेत्रं ग्रामद्वयलक्षणम्, अन्तः - क्षेत्रं स्थितयोः क्षेत्रमध्यव्यवस्थितयोः न पुनः परस्परं गमनागमनतः, कुतः इत्याह बहिर्निःसंचारेण स्वस्वग्रामाद्बहिः पानीयहरिताद्याकुलतया संचाराभावतः ।।
[भा. १८३२]
वासासु समत्ताणं, उग्गहो एगदुगपिंडियाणं पि ।
For Private & Personal Use Only
www.jainelibrary.org