________________
उद्देशक : - ४, मूल - १०४, भा. १८२२]
वादगतानामष्टाशीतिं सूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः पुनरष्टाशीतिसूत्रार्थप्रतिप्रच्छकस्य समीपे च्छेदसूत्रार्थमधीते च्छेदसूत्रार्थवाचनाचार्यस्याभाव्यं तत् क्षेत्रम् । [भा. १८२३] एमेव मीसगंमि वि, सुत्ततो बलवगो पगासो उ । पुव्वगयं खलु बलियं, हेट्ठिलत्था किमु सुयातो ।।
वृ- एवमेवानेनैव प्रकारेण मिश्रकेऽपि सूत्रार्थरुपोभयस्मिन्नपि वक्तव्यम्, सर्वत्र सूत्राद् बलवान् प्रकाशोऽर्थस्य प्रकाशकः । तद्यथा- एक एकस्य पार्श्वे आवश्यकसूत्रमधीते, तस्य समीपे पुनः सुत्रवाचनाचार्य आवश्यकस्यार्थमधीते, आवश्यकार्थवाचनाचार्यस्याभवति तत्क्षेत्रम्, एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थवाचनाचार्यः । सर्वत्राधस्तात्सूत्रादर्थाद्वा पूर्वगतंबलीयस्तथा चाहपुव्वगयमित्यादि, यदि पूर्वगतं सूत्रं खलु अधस्तनादर्थाद्भवति बलवत् किमङ्गसूत्रात्, सुतरामधस्तनात्सूत्राद्बलीय इत्यर्थः । तद्यथा एक एकस्य पार्श्वे आवश्यकस्य सूत्रमर्थ तदुभयं वाधीते, तस्य समीपे पुनरावश्यकसूत्रार्थतदुभयवाचनाचार्यः पूर्वगतं सूत्रमधीते आवश्यकसूत्रादिप्रतीच्छकस्याभवति । एवं तावद्वाच्यं यावदष्टाशीति सूत्राणि पूर्वगतसूत्राच्च पूर्वगतार्थो बलीयान्, तत एक एकस्य पार्श्वे पूर्वगतसूत्रमधीते तस्य समीपे पूर्वगतसूत्रवाचनाचार्यः पूर्वगतमर्थ पूर्वगतसूत्रप्रतीच्छकस्याभवति ।। अथ किं कारणं शेषात् सूत्रादर्थात्पूर्वगतं सूत्रं बलीयस्तत आहपरिकम्मेहिय अत्था सुत्तेहिय जे य सूईया तेसिं ।
[ भा. १८२४]
होइ विभासा उवरिं पुव्वगयं तेन बलियं तु ।।
वृ- दृष्टिवादः पञ्चप्रस्थानः, तद्यथा - परिकर्माणि सूत्राणि पूर्वगतमनुयोगश्चूलिकाश्च । तत्र ये परिकर्मभिः सिद्धश्रेणिकाप्रभृतिभिः सूत्रैश्चाष्टाशीतिसंख्यैरर्थाः सूचितास्तेषां सर्वेषामप्यन्येषां च उपरि पूर्वेषु विभाषा भवति, अनेकप्रकारं ते तत्र भाष्यन्ते इत्यर्थः । तेन कारणेन पूर्वगतसूत्रं बलिकम् ।। सम्प्रति येन कारणेन सूत्रादर्थो बलीयान्, तदभिधित्सुराह
[भा. १८२५ ]
२५
तित्थगरत्थाणं खलु अत्थो, सुत्तं तु गणहरत्थाणं ।
अत्थेन य वंजिज्जइ सुत्तं तम्हाउ सो बलवं ।।
वृ- अर्थः खलु तीर्थकरस्थानं तस्य तेनाभिहितत्वात्, सूत्रं तु गणधरस्थानं तस्य तैर्द्दब्धत्वात्, अर्थेन च यस्मात्सूत्रं व्यज्यते प्रकटीक्रियते, तस्मात्सोऽर्थः सूत्राद् बलवान् ।।
अथ कस्मात् शेषार्थेभ्यः च्छेदसूत्रार्थो बलीयानित्यत आह[भा. १८२६ ]
जम्हा उ होइ सोही, च्छेयसुयत्थेण खलियचरणस्स । तम्हा च्छेयसुयत्थो बलवं मोत्तूण पुव्वगयं ।।
वृ- यस्मात् स्खलितचरणस्य स्खलितचारित्रस्य च्छेदश्रुतार्थेन शोधिर्मवति, तस्मात्पूर्वगतमर्थ मुक्त्वा शेषात्सर्वस्मादप्यर्थात् च्छेदश्रुतार्थो बलवान् ।।
तदेवमावलिकामधिकृत्योक्तम् अधुना मण्डलीमधिकृत्याह
[भा. १८२७ ] एमेव मंडलीए विपुव्वाहियनठ्ठ धम्मकहि वादि ।
अहवा पइन्नग सुए, अहिज्जमाणे बहुसुतेवि ।।
वृ- यथा अधस्तादावलिकायामुक्तम्, एवमेव मण्डल्यामपि द्रष्टव्यम् । सा मण्डली क भवतीतिचेदुच्यते-पूर्वाधीते नष्टे उज्ज्वाल्यमाने, धर्मकथायां धर्मकथाशास्त्रेषु, वादे वादशास्त्रेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org