SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ व्यवहार-छेदसूत्रम् - २४/१०४ सव्वेसिं तु तेसिं तं खेत्तं होइ साहरणं ।। वृ- अथवा द्वौ वा त्रयो वा गच्छाः साप्तकल्पिनः पृथक् पृथक् कल्पोपेताः समकं प्राप्ताः ततस्तेषां सर्वेषामपि तत्क्षेत्रमाभाव्यतया साधारणं भवति ।। [ भा. १८१९ ] अपुन्नकप्पो व दुवे तओवा, जं काल कुज्जा समणुन्नयं तु । तक्कालपत्तो य समत्तकप्पो, साहारणं तं पि हु तेसि खेत्तं ।। वृ- असमाप्तकल्पा अपूर्णकल्पा पूर्वम् द्वौ त्रयोवा गच्छाः स्थिता न च परस्परमुपसम्पद् गृहीताः । पश्चात् च्च सूत्रार्थादिनिमित्तमुपसम्पद् गृहीतुमारब्धाः । ते च यत्कालं यस्मिन् काले समनोज्ञतां परस्परमुपसम्पदं कुर्युः कुर्वन्ति तत्कालप्रास्तस्मिन् काले प्राप्तोऽन्यः समाप्तकल्पस्तेषामपि तत्क्षेत्रं भवति साधारणम्, परस्परोपसम्पद्ग्रहणवेलायामेव समाप्तकल्पस्यापिप्राप्तत्वात् ।। संप्रति परस्परोपसम्पन्नानां साधारणावग्रहावस्थितानां सूत्रमर्थं वाधिकृत्य य आभवनविशेषस्तमभिधित्सुराह [ भा. १८२० ] साहारणद्वियाणं जो भासति तस्स तं हवति खेत्तं । वारगतद्दिन पोरिसि मुहुत्त भासेउ जो ताहे ।। वृ- साधारणस्थितानां साधारणावग्रहावस्थितानां मध्ये यः सूत्रमर्थ वा भाषते तस्य तद्भवति क्षेत्रं न शेषाणाम् । अथ ते वारवारेण भाषन्ते ततः आह-यो यदा वारकेणं दिनं पौरुषां मुहूर्तं वा भाषते, तस्य तावन्तं कालमाभाव्यम्, न शेषकालम् । इयमत्र भावना-यो यति दिवसान् भाषते, तस्य तति दिवसानाभाव्यम्, अथवा प्रतिदिवसं यो यति पौरुषीर्भाषते तस्य तति पौरुषीरवग्रहो, यदि वा यो यति मुहूर्तान् भापते, तस्य तावत्कालमवग्रहो न शेषकालमपीति । । [ भा. १८२१ ] आवलिया मंडलिया, घोडगकंडूइयए वभासेज्जा । सुत्तं भासति सामाइयादि जा अट्ठसीतिं तु ।। - इह सूत्रस्यार्थस्य वा भाषणे त्रयः प्रकाराः, तद्यथा-आवलिकया मण्डल्या घोटककण्डूयितेन च, तत्र या विच्छिन्ना एकान्ते भवति मण्डली सा आवलिका, या पुनः स्वस्थान एव सा मण्डली, घोटककण्डूयितं नाम यद्वारंवारेण परस्परं प्रच्छनं तत् घोटकयोः परस्परं कण्डूयितमिव घोटककण्डूयितम्, ततः सूत्रमर्थ वा भाषते । आवलिकया मण्डलीकया घोटककण्डूयितेन वा । तत्र सूत्रं भाषते सामायिकादि तावत् यावत् दृष्टिवादगतानि अष्टाशीतिसूत्राणि । पूर्वेषु तु विशेषो वक्तव्य इति तदनुपादानम् । सम्प्रति यथोक्तप्रमाणमावश्यकमधीते, आवश्यकवाचनाचार्यः पुनरावश्यक प्रतिप्रच्छकस्य समीपे दशवैकालिकमधीते दशवैकानिकवाचनार्यस्याभवति क्षेत्रम्, तथा एकस्य पार्श्वे दशवैकालिकमधीते दशवैकालिकवाचनाचार्यः पुनर्दशवैकालिकप्रतिप्रच्छकस्य पार्श्वे उत्तराध्ययनान्यधीते, उत्तराध्ययनवाचनाचार्यस्याभाव्यं क्षेत्रम् । एवं यथोत्तरं तावद्भावनीयं यावदष्टाशीतिसूत्राणि ।। [भा. १८२२ ] सुत्ते जुहत्तरं खलु, बलिया जा होति दिट्टिवातोत्ति । अत्थे वि होइ एवं छेअसुअत्थं नवरिमुत्तुं ।। बृ-यथासूत्रेयथोत्तरं बलिष्ठतोक्ता, एवमर्थेऽपिभावनीया, तद्यथा-एक एकस्य पार्श्वे आवश्यकार्थमधीते, आवश्यकार्थवाचनाचार्यः पुनरावश्यकार्थप्रतिप्रच्छकस्य समीपे दशवैकालिकार्थमधीते दशवैकालिकार्थवाचनाचार्य स्यामाभाव्यं तत् क्षेत्रम्, एवं तावद्वाच्यं यावदष्टाशीतिसूत्रार्थः । नवरं च्छेदसूत्रार्थ मुक्त्वा । अर्थाचार्याणामुपरिच्छेदसूत्रार्थाचार्यो वक्तव्यः । तद्यथा एक एकस्य पार्श्वेदृष्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy