________________
२८३
उद्देशकः-७, मूल - १७६, [भा. ३१५२] द्वादशभूयस्तिस्त्रो भूमयः कालस्य तद्यथा-आसन्ने दूरे मध्ये एताश्चोपाश्रयपरिघस्यान्तर्वेदितव्याः । सर्वसंख्यया चतुर्विशतिभूमीः प्रत्युपेक्षते । एतदेवाह[भा.३१५३] अहियासिया यअंतो आसन्नेचेवदूरेमज्से य ।
तिनेव अनहियासी अंतो छ छच्चबाहिरतो ।। [भा.३१५४] एमेवय पासवणा बारस चउवीसतिंतुपेहित्ता ।
कालस्स य तिणिनभवे अहसूरो अस्थमुवयाति ।। वृ-अध्यास्या अध्यासनीया उपाश्रयपरिधस्यान्तस्तिस्त्रोभूमयस्तद्यथा-आसन्नेदुरमध्येचएवमेव तिस्त्रो मध्येऽनध्यास्या अध्यासितुमशक्याः सर्वसंख्याया अन्तरुच्चारस्य भुमयः षट् एवमेव षट् परिधावहिरपि सर्वसंकलनया द्वादशोच्चारभूमय एव प्रश्रवणेऽपि द्वादशभूमयः सर्वमीलने चतुर्विशतिं भूमीः प्रत्युपेक्षते । तदनन्तरंकालस्य तिस्त्रोभूमयः जधन्येन हस्तान्तरिताः प्रत्युपेक्ष्यभवन्ति ।तासुच प्रत्युपेक्षितास्तथानन्तरं सूर्योऽस्तुमुपयाति । [भा.३१५५] जइ पुन निव्वाघातो आवस्संतो करेंतिसव्वेवि ।
सड्ढादिकहणवाधाय याएपच्छा गुरुठंति ।। वृ-सूर्यास्तमयसमये यदिनियाघातंव्याघातस्याभावोगाथायां पुंस्त्वंप्राकृतत्वात् । ततः सर्वेऽपि गुरुप्रभृतय आवश्यकं प्रतिक्रमणं कुर्वन्ति । अथ श्राद्धानां श्रावकांणामादिशद्वादश्राद्धानां वा धर्मो गुरुणांकथयितव्योऽस्ति । ततःश्राद्धादीनांधर्मकथनेनव्याघातनायामावश्यकव्याघातेसतिपश्चाद्रवो निषद्याधरसहिता आवश्यके तिष्ठन्ते । इयमत्र भावना-श्राद्धादीनां धर्मः कथयितव्यो भवति । तत आचार्यो धर्मं कथयति । निषद्याधरश्च पार्श्वे तिष्ठति । शेषाः पुनरावश्यकभूमौ सूत्रार्थस्मरण निमित्तमाचार्यमापृच्छय आत्मीये स्थाने पश्चादागच्छतामवकाशपथमरुद्धाबलं वीर्यं चागूहयन्तो यथाशक्तिचारित्रकायोत्सर्गेणतिष्ठन्ति, स्थित्वाचसूत्रार्थान्तावदनुप्रेक्षन्ते,यावदचार्यः कायोत्सर्गेण स्थितो भवति, । तस्मिन् स्थिते दैवसिकमतीचारं चिन्तयन्ति । एतदेवाह- [भा.३१५६] सेसाउजहासत्ति आपुच्छित्ताणठंतिसट्ठाणे ।
सुत्तत्थज्झरणहेउंआयरियठियंमि देवसियं ।। वृ- गुरुणा श्राद्धादीनां पुरतो धर्मकथने प्राब्धे शेषाः साधवो गुरुमापृच्छय सूत्रार्थस्मरणहेतोः स्वसमिन् स्वस्मिन् स्थाने यथाशक्ति कायोत्सर्गेण स्थिता भवन्ति । आचार्ये कायोत्सर्गेण स्थिते दैवसिकमतीचारं चिन्तयन्ति । अत्रैवापवादमाह[भा.३१५७] जो होज उअसमत्थोबालो वुढोवरोगितो वावि। .
सो आवस्सगजुत्तोअत्थेज्जा निजरापेही ।। वृ- यो बालो वृद्धो रोगितो वा सञ्जातरोगः कायोत्सर्गेण स्थातुमसमर्थः स निर्जरापेक्षी आवश्यकयुक्तोऽवश्यकर्तव्यव्यापारयुक्त उपविष्टस्तिष्ठेत् । [भा.३१५८] . आवस्सयंकाऊणं जिनोवइठं गुरुवएसेण ।
तिन्निथुतिपडिलेहा कालस्स विही इमो तत्थ ।। वृ-आवश्यकं जिनोपदिष्टंगुरुपदेशेन कृत्वा पर्यन्तेतिस्त्रःस्तुतयः प्रवर्धमान वक्तव्याः । तद्यथाप्रथमाएकश्लोकिका, द्वितीया द्विश्लोकिका,तृतीया त्रिश्लोकिकातदनन्तरंकालस्यप्रत्युपेक्षाकर्त्तव्या ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org