________________
२७०
व्यवहार-छेदसूत्रम् - २- ७ /१७४ 'वृ- अथ सूत्रस्य दाता विद्यते नार्थस्य, साधवश्चार्थवन्तोपि अर्थार्थिनोऽपि सन्ति, ततः प्रथमपौरुष्यां संयतीनां वाचना प्रदानाय गच्छति । द्वितीयस्यां तु पौरुष्या मागत्य संयतानामार्थं ददाति । अथ संयतानां सूत्रस्य वा प्रदाता अन्यो न विद्यते, तदान्यस्यासत्यभावे द्वयानामपि संयतानां संयतीनां चात्मनउपाश्रये एकस्मिन् तेन वाचना देया । तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना । अत्र मण्डलीयतनाद्वारमापतितं तदेवाह
[भा. ३०८९]
कडिनंतरितो वादीसंति जनेन दोविजह वग्गा । बंधति मंडलं ते उ एक्कतो वावि एक्कतो ।।
"
वृ- ते संयताः संयत्यश्च मण्डलींबन्धन्ति । तद्यथा - एकतः संयतमण्डली एकतः संयतीमण्डली, । अपान्तराले च संयतीनां व्यवधानाय कटो दीयते । तत्रापि प्रच्छन्ने प्रदेशे स्थिताः संयतीर्न वाचयति । अन्यथा ये शून्यगृहादिषु वाचयतः शङ्कादयो दोषा उक्तास्तेऽत्रापि स्युस्तत आह-यत्र द्वावपि वर्गी संयतसंयती समुदायरुपावुपविष्ठौ जनेन दृश्येते, तत्र स्थितः कटेनान्तरितो वाचयति । एवं सति योगुणस्तमाह
[भा. ३०९० ]
लोगेवि पच्चतो खलु वंदनमादीसु होंति वीसत्था । दुग्गूढादी दोसा विगार दोसा य नो एवं ।।
- एवं क्रियमाणे सति लोकेऽपि शुद्धशीलसमाचारविषयः प्रत्यय उपजायते । येऽपिच वन्दनादिषु समागच्छन्ति तेऽपि द्वावपि वर्गों तथोपविष्टौ दृष्ट्रा विश्वस्ता भवन्ति । एवं च सति ये दुर्गूढादयः प्रच्छन्नप्रदेशादि भाविता दोषाः ये च परस्परं संयतसंयतीनां विकारदोषास्ते न भवन्ति । अथ कटो न विद्यते तदा वस्त्रेण चिलिमिलि क्रियते । तथा चाह
[ भा. ३०९१]
चिलिमिलि च्छेदे वायइ जह पासइ दोण्हवी पवायंती | दिट्टी संबंधादी इमेय तहियं न वाएज्जा ।।
वृ- प्रवाचयन् गणधरश्चिलिमिल्या उपलक्षणमेतत् कटस्य च च्छेदे पर्यन्ते तिष्ठति, यथा द्वावपि संयतसंयतीवर्गों (स) पश्यति । तत्र ये संघताः संयतीनां दष्टिर्दृष्ठ्यात्मौयया संबध्नन्ति, तेद्दष्टिसम्बन्ध उच्यं (च्य) ते । आदिशब्दान्मैथुनकादि परिग्रहस्तानिमान् वक्ष्यमाणान्न वाचयेत् ।
[भा. ३०९२]
सविकारा मेहणादी य जे या वि धिइदुब्बला ।
अनेन वायएतेउ निसिं वा पडिपुच्छणं ।।
वृ- ये दृष्ट्या सविकारा ये च मैथुनिकादयो मैथुनिको भर्ता आदि शब्दात्पुराणादि परिग्रहः, ये चापि धृत्या दुर्बलास्तान् अन्येनोपाध्यायादिना वाचयेत्, निशि रात्रौ वा तेषां सन्दिग्धस्थानं प्रतिप्रच्छनं ।। [भा. ३०९३] असयणे पवायंते पढंति सव्वे तेहिं अदोसिल्ला ।
निसन्नथेरिसहिया थेरसहाओ पवायं तो ।।
वृ- अथान्य उपाध्यायादि प्रवाचयन् न विद्यते तदान्यस्मिन्नसति वाचयति सर्वे तत्र पठन्ति ततऽ दोषवन्तस्तत्रापि संयत्यः पठन्त्यनिषन्ना अनुपविष्टा स्थिता इत्यर्थः । येन परस्परं दृष्टिसम्बन्धो न भवति तथा स्थविराः सहिताः प्रवाचयन्नपि स्थविरसहायः प्रवाचयति, येन तत्सहायः सर्वानपि निभालयति, संयत्योऽनिषन्नाः संयत्योऽनिषन्नाः पठन्तीत्युक्तं तत्रापवादमाह
[भा. ३०९४] जादुब्बला होज्ज चिरं व सज्झातो ताहे निसणा न य उच्चसद्दा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org