SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5:-७, मूल- १७४, [भा. ३०६७ ] [भा. ३०६७ ] २६७ 'तह चेव हत्थिसाला घोडगसालाण चेव आसन्ने । जति तह जंतसाला काहीयत्तं च कुव्वति ।। वृ तथा चैव हतिशालानां घोटकशालानां चासन्ने प्रदेशे हिण्डन्ति यदि वा तासां प्रत्यासन्ने उपाश्रये वसन्ति, । तथा इक्ष्वादियन्त्रशालां गच्छन्ति, तत्समीपे वा वसन्ति । व्रजद्वारं सुगमत्वान्नविवृतं, काथिकत्वं या कुर्वन्ति । सम्प्रति स्थलीघोटद्वारे दोषमाह [भा. ३०६८ ] थलि घोटादिनिरुद्धा पसज्जगहणं करेज तरुणीणं । संकाइ होइ तहियं गोयरे किमु पाडिवेसेहिं । । वृ-स्थली घोटादयोऽनेकप्रकारा देवडिंगरानिरुद्धाः कृतसन्तस्तरुणीनां प्रसह्य बलात्कारेण ग्रहणं कुर्युस्ततो गोचरेऽपि तत्र गतानां शङ्का भवति, किं पुनस्तैः प्रातिवेश्मिकैः तेषु प्रातिवेश्मिकेषु सुतरां शङ्का; एवं हस्तिशालादिष्वपि दोषविभाषा यथायोगं कर्तव्या । कथिकद्वारमेव सविस्तरं गृहनिषद्याबाधनद्वार चाह [भा. ३०६९] सज्झायमुक्कजोगा धम्मकहाविकह पेसणगिहीणं । गिहि निसिज्जं च वाहंती संथवं वा करेंति उ ।। बृ- स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगास्तथाभूताः सत्यो गृहीणां धर्मकथानामाख्याने विकथानां च स्त्रीकथादीनां करणे प्रेरणेच नानारूपे गृहिणामुद्युक्तः तथा गृहनिषद्यां बाधन्ते गृहनिषद्यामुपवसन्तीत्यर्थः । संस्तवं वा परिचयं वा गृहस्यैः सह कुर्वन्ति, । उपलक्षणमेतत् । वस्त्राण्यन्नपानं वा गृहस्थानां ताः संयत्यो ददति । अविरतीश्च मण्डयन्ति, मण्डनोपदेशं वा तासां प्रयच्छन्ति । मण्डनकानि वा ददतीति । | [ भा. ३०७० ] एवं तु ताहि सिट्टे निक्खिवियव्वा उता उ कहियं तु । दोसु वि संविग्गेसु निखिवियव्वा भवे ताउ ।। बृ- एवमुक्तेन प्रकारेण ताभिः संयतीभिः शिष्टे कथिते ता क्व निक्षेप्तव्याः । सूरिराह-द्वयोरपि संयत संयतीवर्गयोः संविग्नयोस्ता भवन्ति निक्षेप्तव्याः । अत्र संयतसंयतीवर्गयोः संविग्नासंविग्नभेदतश्चत्वारो भङ्गास्तद्यथासंयताः सीदन्ति संयत्योऽपि सीदन्ति प्रथमो भङ्गः, संयताः सीदन्तिन संयत्यः इति द्वितीयः, संयता न सीदन्ति किन्तु संयत्यः सीदन्ति इति तृतीयः । न संयताः सीदन्तिनापि संयत्य इति चतुर्थः, । तत्र दोसु संविग्नेसु इति चतुर्थो भङ्गो गृहीतः । शेषेषु भङ्गेषु निक्षेपणं प्रतिषिद्धं । तथा च तत्र प्रायश्चित्त[भा. ३०७१ ] • संजयसंजतिवग्गे संविग्गेक्वेक्के अहव दोसं तु । निक्खवणा होंति गुरुगा अहपुनसुद्धे चेमेदोसा ।। , वृ- संयतवर्गे संयतीवर्गे वा एकैकस्मिन्नसंविग्ने एतेन द्वितीयतृतीयभङ्गौ गृहीतौ । अथवा द्वयोरपि संयतसंयतीवर्गयोरसंविग्नयोरनेन प्रथम भङ्गो गृहीतः । निक्षेपणे प्रायश्चित्तं चत्वारो गुरुका भवन्ति, । नवरंतपःकालविशेषता प्रथमभङ्गे द्वाभ्यामपि विशेषिता । अथपुनः शुद्धेऽपि चतुर्थे भङ्गे इमे वक्ष्यमाणा दोषास्तर्हि तत्रापि क्षेपणे चत्वारो गुरुकाः, सम्प्रति तानेव दोषानाह [भा. ३०७२] तरुणा सिद्धपुत्तादी पविसंति नियल्लगाण निस्साए । महयरियन वारेती, जे विय पडिसेवे तहिं किंच ।। वृ- तरुणाः सिद्धपुत्रादयो निजकानामात्मीयानां आर्यिकाणां निश्रयावन्दनव्याजेन प्रविशन्ति । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy