SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ७, मूल - १७४, [भा. ३०५४ ] २६५ वृ- अन्या स्वगच्छे यदि प्रवाचिका न विद्यते, ततोऽन्यगच्छन्मनोज्ञां सांभोगिकी तत्रार्थिकां वसतावानयन्ति । [भा. ३०५५ ] सा तत्थ निम्मवे एवं तारिसीए असंभवें । उग्गहधरणाकुसलं ताहे य नयंति अन्नत्थ ।। वृ - सा मनोज्ञा समानीता सती तत्र एकामार्यिका निर्मापयति । अथ तादृशी मनोज्ञा न विद्यते, तत आह-ताशाभावे ततोऽवग्रहधारणाकुशलामन्यत्रासांभोगिक गच्छान्तरे नयति तत्र संयतीनां संयतानां च परीक्षा कर्तव्या । तथा चाह [भा. ३०५६ ] संविग्ग असंविग्गा परिच्छियव्वा य दोविग्गाओ । अपारिच्छणमि गुरुगा परिच्छ इमेहिं ठाणेहिं । । वृ- द्वावपि संयतसंयतीरुपौ वर्गों संविग्नावसंविग्नाविति वा परीक्षितव्यौ यदि साचपरीक्षा एभिर्वक्ष्यमाणैः स्थानैः कर्त्तव्या तानेवाह [भा. ३०५७ ] वच्चंतितावएंती, भत्तं गेण्हंति तावदेति । कदंप्पतरुणा बउसं, अकालभीयायसच्छंदा ।। वृ- न परीक्ष्यन्ते ततो द्वयोर्वर्गयोरपरीक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, । सयंताः संयतीनामुपाश्रये निष्कारणं व्रजन्ति, ता अपि वा संयत्यः संयतनामुपाश्रयं निष्कारणमागच्छन्ति । तथा भक्तं पानं वा संयतानां पार्श्वे संयत्यो यथा कथंचन गृह्णन्ति ता वा संयत्यः संयतानां प्रयच्छन्ति । तथा परस्परं तरुणास्तरुण्यश्च कन्दर्पकथां कथयन्ति तथा संयताः संयत्यश्च बकुशं भावं बिभ्रति । तथा द्वावपि वर्गावकाले चरतस्तथा संयता आचार्यस्य न बिभ्यति, । आर्यिकाः प्रवर्तिन्याः, तथा संयताः संयत्यश्च स्वच्छन्दा आत्मन् इच्छयायान्त्यायान्ति वा इत्यर्थः । [ भा. ३०५८ ] अठ्ठमी पक्खिए मोत्तुं वायणाकालमेवय । पुव्वुत्ते कारणे वावि गमनं होइ अकारणे ।। वृ- अष्टमीं पाक्षिकं तथा वाचनाकालं तथा पूर्वोक्ता निग्गम्मंती कारणजाए इत्यादिना ग्रन्थेन यानि कल्पे अभिहितानि तानि मुक्त्वा शेषकालं यद्भवति गमनं, तदकारणं निष्कारणमित्यर्थः । एतेन ता वा संयत्यो निष्कारणमायान्तीति व्याख्यातम् । [भा. ३०५९] थेरा सामायारिं अज्जा पुच्छंति ता परिकहेंति । आलोयणसच्छंदं वेटल गेलन्न पाहुणिया ।। - स्थविरा आचार्या आत्मीया आर्यिका वास्तव्यानामार्यिकाणां समाचारी पृच्छन्ति । यथा कीदृशविस्तव्यानामार्यिकाणां सामाचारीति । एवं पृष्टाः सत्यस्ताः परिकथयन्ति । या यत्र गता सा ततः प्रत्यागता नालोचयति नापि दैवसिकं रात्रिकं पाक्षिकं वातीचारमालोचयन्ति, यथा स्वच्छन्दं वर्तते, नाचार्योपाध्यायप्रवर्तिनीनां च वश्यायत्ता, तथा वेटलानि प्रयुञ्जन्ति न च ग्लानायाः प्रति तर्पयन्ति नापि प्राघूर्णकानां वात्सल्यं विदधति । [भा. ३०६०] चित्तलए सविकारा बहुसो उच्छोलणं च कप्पठ्ठे । थलि घोड वेससाला, जंत व एकाहिय निसज्जा ।। वृ तथा चित्रलानि वस्त्राणि परिदधति, तथा सविकारा गता वुल्लापे च विकारसहिताः तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy