SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-७, मूल - १७३, [भा. ३०३९] २६३ दोष आज्ञाभङ्गादिलक्षणोनसंजायते । तत्रयतनामाह[भा.३०४०] कालगयंमुत्तूणइमो अनुप्पेहदुव्वलेजयणा । ___ अन्नवसहिं अगीते असतीतत्थेवणुच्चेणं ।। वृ-कालगतं मुक्त्वा शेषेषु कारणेष्वनुप्रेक्षादुर्बले इयंचवक्ष्यमाणयतना अन्यस्यां वसतौ गत्वा रहस्यश्रुतंपरावर्तयन्ति ।माअगीते अगीतार्थस्य श्रुतश्रुवणंभूयादितिहेतोरन्यथान्य उपाश्रयोन विद्यते ततोऽन्यस्या वसतेरभावे तत्रैव तस्यामेव वसतावनुच्चेन शब्देन परावर्तयन्ति ।कालगतेऽपिवसत्यन्तरे न यान्ति किन्तु तत्रैव जागरणनिमित्तं अनुच्चशब्देन गुणयन्ति संयत्योऽप्यपवादपदेन संयतानां समीपे पठेयुः परावर्तयेयुर्वान कश्चिद्दोषः मू. (१७४) कप्पति निगंथीणं वितिगिढेकाले सज्झायंकरेत्तएनिणंथनिस्साए ।। वृ-कल्पते निर्ग्रन्थीनां निर्ग्रन्थनिश्रया व्यतिकृष्टेऽपिकाले स्वाध्यायं कर्तुमिति सूत्रार्थः । अधुना भाष्यप्रपञ्चः । तत्रप्रथमतः पूर्वपक्षस्वावकाशं दर्शयति[भा.३०४१] कप्पइ जइ निस्साए वितिगिठे संजतीणसज्झाओ । इति सुत्तेणुद्दारेकयंमि उकमागतंभणइ ।। वृ- कल्पते यति निश्रया व्यतिकृष्टे काले संयतीनां स्वाध्याय इति सूत्रेण द्वारे कृते परः क्रमागतं परिपाट्यागतमिदंभणति किंतदित्याह[भा.३०४२] पुव्वं वन्नेऊणंसंजोगविसंचजायरुवंच । आरोवणंच गुरुइंनहुलब्भावायणंदाउं ।। वृ- पूर्वसंयोगविषयजातरुपंच विषं सहजविषं चेत्यर्थः । आरोपणं प्रायश्चित्तं चतुर्थी (गुरुकं) वर्णयित्वायत्सम्प्रतिवाचनांददतअन्तर्भूतण्यर्थत्वाद्दापयततांदापयितुंनहुनैवलभ्यं । एवंपरेणपूर्वपक्षे कृते सूरिराह[भा.३०४३] कारणियं खलुसुत्तं असति पवायंतीयाएवाएजा । पाढेण विना तासिंहानी चरणस्स हुजाहि ।। वृ-इदंखलुसूत्रंकारणिकं कारणेन निवृत्तं । तदेव कारणमाह-असत्यभावेप्रवाचयन्त्याः प्रवर्तिन्या वाचयेत् संयतीरन्यथा पाठेन विनातासांचरणस्य हानिर्भवेत् । यदि भवतिततः को दोष इत्यत आह[भा.३०४४] जातो पव्वइयातोसगंमुक्खंचमग्गमानीतो । . जइनत्थिनाणचरणं दिक्खाहु निरत्थिगा तासि ।। वृ-याः स्वर्ग मोक्षंचमृगयमाणाः प्रव्राजितास्तासांयदिज्ञानंचरणंच नास्तिततोहुनिश्चितंदीक्षा निरर्थका, । कथं निरर्थिकत्यत आह[भा.३०४५] सव्वजगुज्जोयकरं नाणंनाणेण नजएचरणं । नाणंभी असंतंमी अज्जा किहनाहिति विसोहिं ।। वृ-सर्वस्यापि जगत उद्योतकरं ज्ञानं ज्ञानेन च ज्ञायते चरणं, । ततो ज्ञाने असत्यार्यिका विशोधिं कथं ज्ञास्यन्ति, नैवज्ञास्यन्तीतिभावः, । ततो विशुद्ध्यभावाच्चरणाभावस्तथा चाह[भा.३०४६] नाणंमि असंतमीचरितं विन विजए । ___ चरितंमि असंतंमी तित्थे नोसचरितया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy