________________
२६२
व्यवहार-छेदसूत्रम् -२-७/१७३ मंगलत्वात्तथाहि अन्येषां परमश्रद्धाजननं, यथैकोऽमुकस्याङ्गस्यश्रुतस्कन्धस्य च पारगत आचार्येण चैवंसकलजनसमक्षपूजितस्तस्माद्वयमपिगाढतरमुत्साहं कुर्म इति, तथा अध्ययनानांवाव्यवच्छेदोऽन्यथा नानुज्ञातमन्येषां दीयते इतितेषांव्यवच्छेदःस्यात् । अत्रैवापवादमाह[भा.३०३५] बिइयपयं आयरिए अंगसुयक्खंधमुसितंमि ।
मंगलसद्धाभयगोरवे य तह निठिएचेव ।। वृ-सपक्षे उद्देशः कर्तव्योन परपक्षेइत्युत्सर्गः । अत्र द्वितीयपदमपवादपदंयदिप्रवर्तिन्यास्तत्श्रुतं न विद्यतेततआचार्यः परपक्षेऽपिसंयतीरुपेअङ्गश्रुतस्कन्धंवा उपलक्षणमेतदध्ययनादिकंचोदिशति । अथवासत्यपितस्मिन्प्रवर्तिन्याः श्रुतेआचार्येसंयत्वाअङ्गं श्रुतस्कन्धंवाउदिशतिमङ्गलादीनिभवन्ति ततः स एवोदिशति । स परमं ज्ञानपात्रामिति मङ्गलबुद्धिरुपजायते तथा यस्मादाचार्येणोद्दिष्टमिदमत आदरेण पठनीयमिति तत्पाठविषया महती श्रद्धा भवति । तथा यदि पाठे प्रमादं करिष्यामि ततो न पठितमित्याचार्यारुष्येयुरितिभयंतथा ममेदमाचार्येणगौरवेणोद्दिष्टंतस्मादादरेणपठित्वाशीधं समाप्ति नयामि । तह निट्ठिए चेवात्ति तदा निष्ठिते अङ्गे श्रुतस्कन्धे वा समाप्ति नीते यथासंभवमेतैरेव कारणैरङ्गं श्रुतस्कन्धंवाचार्योऽनुजानीयात् । [भा.३०३६] एमेव संयतीवा उद्दिसंतीसंजयाण बिइयपदे ।
असतीए संजयाणंअज्झयणाणंचवोच्छेदो ।। वृ- तत् विवक्षितं श्रुतं संयतानां न विद्यते अध्ययनानां चान्यथा व्यवच्छेदः स्यात् ततो द्वितीयपदेनापवादपदेन गाथायांसप्तमी तृतीयार्थे संयत्यपि संयतानामुदिशति । [भा.३०३७] एवं ताउद्देसो अज्झाओवी न कप्पइविगिठे ।
दोहंपिहुंतिलहुगा विराधनाासेवपुव्वुत्ता ।। वृ-एवमुक्तेनप्रकारेणतावदुद्देशोऽभिहितो यथाव्यतिकृष्टेकालेसन क्रियते अध्यायोऽप्यध्येयमात्मविराधनाच । तत्रज्ञानविराधना ज्ञानाचारहननादात्मविराधनाप्रान्तदेवताच्छलनात् । [भा.३०३८] बितियविगिठेसागारियाएकालगय असतिवुच्छेदो ।
एवं कप्पइतहियं किं ते दोसा नसंतीओ ।। वृ-कदाचित्साधवः कारणेन सागारिकायांवसतौ स्थितास्तत्रपरिचारणाशब्दं श्रुत्वा यस्ययत्पराजितं स तत्परावर्तयति । आदि शब्दात् स्तेनकादिष्यपि समापतत्सु यस्य यत्पराजितं स तत् गुणयति परिग्रहस्तथा कालगतः संयतो यदि कारणेन प्रतीक्षापयितव्यो भवति । तदा रात्रौ जागरणनिमित्तं यस्य यत्पराजितंस तत्परावर्तयति । तथा यस्य सकाशे तत् श्रुतमधीतं कालगतोऽन्यत्रच तत् श्रुतं नास्ति। ततःसम्प्रतिपठितंमाविस्मृतियायात्अनुपेश्रायांचसोऽकुशलस्ततएवमेतैःकारणैर्द्वितीयपदमधिकृत्य व्यतिकृष्टेऽपिकालेऽध्यायः कल्पते । अत्रपर आह-तत्रापवादपदेन व्यतिकृष्टेऽपिकाले पठति किं ते दोषाः आज्ञाभङ्गादयो न सन्तिन भवन्ति । अत्रोत्तरमाह[भा.३०३९] भणइजेणजिनेहिं अनुणायाइकारणेताई।
तो दोसोनसंजायइजयणाएतहिं करेंतस्स ।। वृ-भण्यतेऽत्रोत्तरंदीयते-येन कारणेन जिनैः कारणे सागारिकादिलक्षणेतानि पठनान्यनुज्ञातानि तस्मात्कारणात्रहस्य श्रुतस्यापिच यतनया वक्ष्यमाण लक्षणया ।तत्रसागारिकवसत्यादौ पाठं कुर्वतो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org