________________
२६०
व्यवहार- छेदसूत्रम् - २- ७ / १७३ तेन कारणेन तासु च चतसृष्वपि सन्ध्यासु न श्रुतमुद्दिश्यते, पठ्यते वा मा भूत् च्छलनादोष इति कृत्वा आह, -यदि सन्ध्यासु गुह्यकाश्चरन्ति ततः कथमावश्यकं सन्ध्यायां क्रियते, तत आह
[भा. ३०२२]
जाव होमादि कज्रेसु उभओ संज्झओ सुरा । लोगेन भासिया तेन संझावासगदेसणा ।।
वृ- यावत् होमादिकार्येषु उभयोः सन्ध्ययोः सुरा गुह्यका लोकेन भाषितास्तिष्ठंति, तावद्वयमावस्यकं कुर्मस्तेषां तत्रव्यापृतत्वादावश्यकस्यापि च सन्ध्याकृत्यरुपत्वात्तेन सन्ध्यायामावश्यकदेशना । एते उपक्खं मी दोसा आणादयो समक्खाया । परपक्खंमि विराधन दुविधेन विसेण दिठतो ।।
[भा. ३०२३]
वृ- एते प्रवचनवेदिनामतीव सिद्धाः सपक्षे उद्देशत आज्ञादयो दोषाः समाख्याताः, । तद्यथा आज्ञा तीर्थकराणां भग्ना भवति, अनवस्था तं दृष्ट्वा अन्येषामपि तथा करणात् । मिथ्यात्वं तीर्थकराज्ञाभङ्गात्; विराधना द्विविधा संयमविराधना आत्मविराधना च । तत्र संयमविराधना ज्ञानाचारविराधना दात्मविराधनादेवताच्छलनात्; । परपक्षेऽपिएते दोषाः । केवलंया संयमविराधना सा ज्ञानाचारविघातास्मिका, ब्रह्मघातात्मिकाच ज्ञातव्या । तत्र द्विविधेन विषेण द्रव्यविषेण भावविषेण च दृष्टान्तः - दव्वविसं खलु दुविहं सहजं संजोइयं च तं बहुहा ।
[भा. ३०२४]
एमेव भावविसं, सचेयणा चेयणं बहुहा ।।
वृ द्रव्यविषं खुल द्विविधं, तद्यथा-सहजं संयोगिमं च संयोजनं संयोगस्तेन निवृत्तं संयोगिमं भावादिमइतीमप्रत्ययस्त च्च सह संयोगिमं च बहुधा अनेनैव प्रकारेण खलु द्विविधं भावविषयं तद्यथासहजं संयोगिमंच । तच्च प्रत्येकं सचेतनमचेतनं च बहुधा बहुप्रकारं ।
[भा. ३०२५]
सहजं सिगियमादी संजोइमधयमहुंच समभागं । दव्वविसं नेगविहं एत्तो भावमि वृच्छामि ।।
वृ- सहजं द्रव्यविषं शृङ्गिकादि । संयोगिमं धृतं मधु च समभागं । एतच्चैकैकमपि द्रव्यविष मनेकविधं द्रष्टव्यमत ऊध्वभावे भावविषं वक्ष्यामि, । प्रतिज्ञातमेव निर्वाहयति
[भा. ३०२६]
पुरिसस्स निसग्गवीसं इत्थी एवं पुमंपि इत्थीए ।
संजोइमो सपक्खो दुहवि परपक्ख नेवत्थो । ।
7
वृ- पुरुषस्य निसर्गविषं स्त्रीनेपथ्योपेता एवं स्त्रिया अपिसहजं विषंपुमान् नेपथ्योपेतः । संयोगिमविषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः । स्वपक्षः परपक्षनेपथ्यः । तद्यथा संयतस्य पुरुष स्त्रीनेपथ्योपेतो निर्गन्ध्याः स्त्री पुरुषनेपथ्योपेता । [भा. ३०२७]
घाणरसफासतो वा दव्वविसं वा सइति वाएइ । सव्वविसयानुसारी भावविसं दुज्जई असई ।।
वृ- द्रव्यविषं भ्राणतो रसतः स्पर्शतो वा सकृदेकवारतो अतिपातयति । वा विभाषायां तेऽपि सकृदतिपातवैकल्पिकं भवति । तथाहि द्रव्यविषं जीवितान्न च्यावयेदिति । भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु संप्रापकत्वात्तथा दुर्जयमल्पसत्वेन जेतुमशक्यत्वान्नियमाच्चासकृदनेकवारमतिपातयति, विनाशयति । भावविषमूर्च्छितानामनेकमरणभावात् । उपसंहारमाह-. [भा. ३०२८ ] जम्हा एए दोसा तम्हा उ सपक्खसमणसमणीहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org