________________
उद्देशक : - ७, मूल - १७२, [भा. ३००३]
[भा. ३००३]
[भा. ३००४]
वृ- निर्ग्रन्थीनां प्राभृतं वितोषयितव्यमुपशमयितव्यं भवति, व्यतिकृष्टं क्षेत्रं विकृष्टं शिष्यः प्राहकथं केन प्रकारेण पुनस्तासामधिकरणमुत्पन्नं स्यात । सूरिराह- काश्चन्नार्यिका श्चैत्यवन्दनाथ चैत्यगृहं गतास्तस्मिंश्च चैत्यगृहे बहिर्मुखमण्डपादिकं न समस्ति । ततः चैत्यगृहमध्यस्थिताश्चैत्यानि वन्दन्ते, तासांच वन्दमानानां प्रथमस्तुतेरारभ्य अन्याः काचन संयत्यः समागतास्ताश्चमध्येऽवकाशो नास्तीति बहिरुष्णे स्थितास्ततो विस्तरणैः चैत्यस्तुतीनां भणने ता बहिःस्थिता उष्णेन परिताप्यमाना वदन्ति । युष्माभिः कोकिलाशद्वाभिर्धणियमतिशयेन वयं परितापितास्तथा
[भा. ३००५]
निग्गंथीणं पाहुडवितोसवियव्व होइ वितिगिठं । किह पुन होज्जुप्पणं चेइयघरवंदमाणीणं ।। इय थुतीणभणतो उन्हे अन्नातो वाहि अच्छंति । परितावियामो धणियं कोइलसद्दाहि तुब्भाहिं । ।
२५७
नग्धंति नडे नाई कलंपि कलभाणिणीण तुज्झाणं । विप्पगते भवतीणं, जायतं भयं नरवतीतो ।।
वृ- युष्माकं कलभाननानां तु स्वरमनोज्ञाननानां पुरतः कलामपि मनागपि नाटकानि नार्धन्ति । ततो भवतीनां विप्रकृते कारणेन जातं नोऽस्माकं भयं नरपतेर्नुनं नरपतिना यूयं नाटके प्रक्षेपि स्यध्वे । [भा. ३००६ ] इति असहणउन्नुयय मज्झत्यातो समंति तत्थेव ।
असुणाम सव्वगण भंडेण व गुरुसिट्टिमा मेरा ।।
वृ- इत्येकमुपदर्शितेन प्रकारेणासहनाभिर्या उत्तेजिता कोपं ग्राहितानां मध्यस्थाः संयत्यस्तत्रैव शमयन्ति, । नच तास्तत्भण्डनं कस्यापि श्रावितवत्यः । अथ मध्यस्थानां संयतीनामभावतो क्लेवशाद्वा सर्वगणस्य भण्डनमभूत्तर्हि सर्वगणभण्डने स्वस्वगुरुशिष्टं कर्तव्यम् । ततस्तावुपशमयतो अथ लञ्जातो भयतो वा न स्वस्वगुरोर्निवेदितं, तर्हि तत्रेयं मर्यादा । एतदेवाह
[ भा. ३००७ ]
गणहरगणहरगमनं एगायरियस्स दोन्नि वा वग्गा ।
आसन्नागमदूरे य पेसणं तं च बितियपयं ।।
वृ- समस्तस्यापि गणस्य भण्डने जाते आत्मीयस्यात्मीयस्य समीपे गमनमथवा एकस्याचार्यस्य सम्बन्धिनौ तौ द्वावपि संयतीवर्गौ । ततः एकर्स्य समीपे गच्छतस्ततः स एकस्तौ वा द्वौ गणधरौ तदधिकरणं यत्र चैत्यगृहेऽन्यत्र चोत्पन्नं तत्र द्वावपि वर्गों नीत्वा उपशमयतोऽथ लज्जादिना स्वस्वगुरोर्न निवेदितमेकतरश्च पक्षी निर्गतस्तत आह-आसन्नेत्यादि यद्यासन्नं गतोऽपान्तराले च निर्भयं ततः स आनाय्यते । अथ सापायां (यं) तर्हि तासां गणधर आगच्छति आगत्य क्षमणंकरोति । अथ दूरे गताः, तर्हि वृषभाणां प्रेषणं कर्तव्यं, ततो वृक्षभाः समेत्य ताः सयंतीः क्षमयन्ति, । अथ द्वितीयपक्षो नोपशान्तस्ततः पु· रार्वत्तौ जातायां पूर्वोक्तकारणैस्तदेवं प्रागुक्तं द्वितीयं पदमवसातव्यं । यत्र मिलन्तितत्रैव क्षमयन्ति । अमिलने गुरुणामन्तिके इति एतदेवमूलतः सविस्तरं विभावयिषुरिदमाह
[ भा. ३००८]
चेइयघरन्नेइत्ता जत्थुप्पन्नं च तत्थ विज्झवणं ।
लज्जभयाव असिट्टे दवेगतरनिगमइमंतु ।।
- स्वस्वगुरुनिवेदने कृते तौ द्वावपि गुरु संयतीवर्गद्वयमपि चैत्यगृहं नीत्वा अथवा यत्रान्यत्रोत्पन्न
22 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org