________________
२५४
[भा. २९८४]
इभाइ गणमज्झे अवप्पयोगा तत्थगंतूणा । अवितोसविएसा गतोत्ति ते चेव ते दोसा ।।
वृ- यः प्रेषितो यद्वा अव प्रयोगात् अन्येन कार्येण तत्र गत्वा गणमध्ये सकलगणसमक्षं यदि भाषते यथा एषोऽधिकरणं कृत्वा येन सहाधिकरणमभूत्तस्मिन्नतोषितेऽत्रागत इति ते इति तस्यापि त एव प्रागुक्ता दोषाः ।
[भा. २९८५ ]
व्यवहार - छेदसूत्रम् - २- ७ /१७१
जहा एए दोसा अविही पेसणे य कहणे य । तम्हा इमेण विहिणा पेसणकहणं तु कायव्वं ।।
वृ- यस्मादविधिना प्रेषणे कथने च एते अनन्तरोदिता दोषास्तस्मादनेन वक्ष्यमाणेन विधिना प्रेषणं कथने तु कर्त्तव्यम् । तमेव विधिमाह
[भा. २९८६ ]
गणिणो अत्थि निब्भेयं रहितो किच्चपेसितो । गमेति तं रहे चेव नेच्छे सहासहं खुत्तो ।।
वृ- अन्येन प्रयोजनेन प्रेषितः स तु रहिते विविक्ते प्रदेशेऽथ निर्भेदं तदधिकरणरहस्यं गणिन आचार्यस्य गमयति कथयति क्रमेणाचार्यस्तं कृताधिकरणं रहस्येव गमयति । यथा त्वमित्थमधिकरणं कृत्वाऽत्र समागतो न च स उपशमित इति एवमुक्ते यदि स नेच्छेत् । तथाहं नाधिकरणं कृत्वा समागतो यस्त्विदं ब्रूते तेन सहाहं धु[ब्रु] वेषु[खु] निश्रितमिति ।
[भा. २९८७ ]
गुरुसमक्खं गमितो तहावि जइ नेच्छइ ।
ताहे गणमज्झमि भासते नातिनिठुरं । ।
वृ- एवं तस्यानिच्छायां स प्रयोजनान्तरव्याजेन प्रेषितो रहसि गुरुसमक्षमधिकरणं गमयति, तथा कथञ्चनापि तच्चित्तमनुप्रविश्य कथयति यथारोपं न विदधाति, तथा गमितोऽपि यदि नेच्छति । ततः प्रहरदिवसाद्यतिक्रमेण प्रस्तावान्तरमारचय्या गणमध्ये तं भाषते, परं नातिनिष्ठुरं, कथं तं भाषते इत्याहगणस्स गनिनो चेव तुमंसी मग्गतं तया । अद्धिती महती आसि सोविपक्खो य तज्जितो ।।
[भा. २९८८ ]
वृ- तदा तस्मिन् काले त्वयि अधिकरणं कृत्वा निर्गते समस्तस्यापि गणस्य गणिनश्चाचार्यस्य महती अधृतिः आसीत्, येन च सह तवाधिकरणमभूत्, सोऽपि विपक्षो गणिना गणेन च तर्जितः । [ भा. २९८९ ] गणेन गणिना चेव सारिजत मज्झपिए ।
ताहे अन्नावदेसेण विविगो से विहिज्जइ ।।
वृ- एवमुक्तानन्तरं तत्रत्येन गणिना च सम्यक् सारणीयः शिक्षणीयो येन स्वदोषं प्रतिपद्य तत्र गत्वा विपक्षं क्षमयति, । अथ स तथा सार्यमाणो झंपितो नोपशमन्नीतो दुःस्वभावत्वात्ततोऽन्यापदेशेन स तस्य विवेकः परित्यागो विधीयते, केनापदेशेनेत्याह
[भा. २९९० ]
Jain Education International
महाजनो इमो अहं खेतंपि न पहुप्पति । वसही सन्निरुद्धा वा वत्थपत्तावि नत्थिनो ।।
वृ- अयं साधुसाध्वीलक्षणो महान् जनोऽस्माकमेतावतां स चैतत् क्षेत्रं न प्रभवति संकीर्णत्वात्, यदि वा वसतिः संनिरुद्धा संकटा वर्तते, तत एतावन्तः साधवोऽत्रन नान्ति । अथवा वस्त्रपात्राण्यस्माकं सम्प्रतिनसन्ति,अपिशब्दान्नचात्र तथाविधपाठोऽप्यस्ति, साधवोऽप्येतेतीवासहनास्तस्मात् यूयमन्यत्र
For Private & Personal Use Only
www.jainelibrary.org