________________
उद्देशक :- ७, मूल - १७०, [भा. २९६३ ] माप्नुयादित्यर्थः । सम्प्रति भवविकृष्टे दोषानाह[भा. २९६४ ]
गौरवभयममकारा अविदूरत्थे वि होइ जीवत्ते । कोदानि समज्जा तस्स, कुणइ नय तेन जं किच्चं ।। वृ- अपिदूरस्थेऽपि जीवति सति तद्विषया गौरवभयममीकारा भवन्ति भूयस्तन्मिलनादि प्रत्याशासंभवात् । इदानीं पुनस्तस्य समुद्घातस्य को गौरवं भयं ममीकारं वा करोति न च नैव कश्चित् यत् यस्मात् न च नैव तेन कृत्यं प्रयोजनं मृतत्वेन सर्वप्रयोजनातीतत्वात् । कोसलवजा ते च्चिय दोसा सविसेस भवविगिठंमि ।
[भा. २९६५ ]
दुविहंपि वितिगिठं तम्हा उन उद्देसिज्जाहि ।।
वृ य एव दोषा मिथ्यात्वगमनादयः । क्षेत्र विकृष्टेऽभिहितास्त एव सविशेषा भवविकृष्टेऽपि ज्ञातव्याः केवलं कोशलवर्णाः । कोशलदोषा हि भवविकृष्टेन भवन्ति मृतत्वेनासंभवात्तस्माद्विविधमपि व्यतिकुष्टं क्षेत्रविकृष्टं भवविकृष्टं च नोद्दिशेत् अत्रैवापवादमाह
[भा. २९६६ ]
२५१
बितियं तिव्वनुरागा संबंधी वा न तेय सीयंति । इत्तरदिसाउनयनं अप्पाह एव दुरंमि
वृ- द्वितीयपदमपवादमधिकृत्य क्षेत्रविकृष्टमपि उद्दिशेत् । यदि साधर्मग्राहिण्याचार्ये तीव्रानुरागा भवेत् । स वा आचार्यस्तस्याः सम्बन्धी स्वजनो न च ते आचार्याः संयमयोगेषु सीदन्ति उद्यतविहारिण इत्यर्थः । केवलं तस्या इत्वरादिशोऽनुबन्धयित्वा यावत्ते स्वक आचार्यो न मिलति तावद्वयमाचार्या एते उपाध्याया इयं प्रवर्तिनीति ततः स्वाचार्यसमीपे विधिना नयनमथतं च दूरे ते आचार्यास्ततः सन्देशं कथयन्ति । यथा युष्मदयिधर्मशैष्याऽस्माकं पार्श्वे प्रतिपन्नदीक्षाका वर्तते सा प्रतिग्राह्या । भवविगिट्टे वि एमेव समुज्जातोत्ति वा नवा ।
[भा. २९६७ ]
तत्थ आसंकिए बंधो निस्संके उन बज्झति ।।
भवविकृष्टेऽप्येवमेव । द्वितीयपदमवगन्तव्यमितिभावः । कथमित्याह किंसमुद्घातः कालगतः किं वा नेत्येवं तस्मिन् भवविकृष्टे तस्याबन्धः क्रियते । निशङ्किते तु भवविकृष्टे सा न बध्यते । अहवा तस्स सीसं तु, जति साउ समुद्दिसे ।
[भा. २९६८ ]
विप्पकठ्ठे तहिं खेत्ते जयणा जाउ साभवे । !
वृ- अथवा यदि सा तस्य शिष्यं समुद्दिशति कथयति मम त एव आचार्या अहंतु तच्छिष्यसमीपे स्थास्यामीति, तदा भवविकृष्टेऽपि तस्याबन्धः क्रियते । तत्र या विकृष्टे क्षेत्रे यतनोक्ता साऽत्रापि भवति ज्ञातव्या । तदेवं निर्ग्रन्थसुत्रव्याख्यानार्थमाह
[भा. २९६९]
Jain Education International
निधाण विगठ्ठे दोसा ते चेव मुत्तु कोसलयं । सुत्तनिवातोभिगए संविग्गे सेस इत्तरिए ||
बृ-निर्ग्रन्थानामपि विकृष्टे उद्दिश्यमाने य एव निर्ग्रन्थानां दोषा मिथ्यात्वादय उक्तास्त एव कोशलकमेकं दोषं मुक्त्वा शेषा सर्वे निरवशेषा द्रष्टव्याः । यद्येवं तर्हि सूत्रमनर्थकमविषयत्वात्तदत आहसूत्रनिपातो अभिगते संविग्ने च शेष इत्वरिकः । इयमत्र भावना-अभिगतो ज्ञाततत्वः श्राद्धः पुराणो वा संविग्नः स्वयं योऽपि धर्मदेशकस्तस्य आचार्यस्सोपि संविग्नस्तस्मिन् सूत्रनिपातो यस्तु शेषः स्वयं न सम्यक् ज्ञाततत्वस्तस्य पथिं व्रजतो मिथ्यात्वादयो दोषाः । तस्य दीक्षामाधाय इत्वरिको दिगबन्धः क्रियते
For Private & Personal Use Only
www.jainelibrary.org