________________
२५०
व्यवहार-छेदसूत्रम् - २७/१७०
न्योन्यस्मिन् परस्परस्मिन् यत् ममत्वं तत् व्यग्राणामपि व्यग्रचित्तानामपि न तु नैव भवति । किन्त्वेकचित्तानामुपजायते । सा चैकचित्तता अत्र नाति । तथा चाह
[भा. २९५८ ]
सुचिरपि सारिय गच्छइति ममयानया गच्छस्स । सीयंतचोयणासु य परिभूयामित्ति मन्नेज्जा ।।
वृ- सुचिरमपि कालं सारिता शिक्षिता सती गमिष्यतीति मन्यमानस्य गच्छस्य न तस्या विषये ममता ममत्वमायाति सीदन्त्याः संयमयोगेषु शिथिलीभवन्त्यो याश्चोदनाशिक्षास्तासु दीयमानासु सान्यत्र गन्तुमनाः परिभूतास्मीति मन्यते ततस्तस्या अपि न गच्छस्योपरि ममता । किंच
[भा. २९५९]
गमस्सुएण चित्तेन सिक्खातो वि न गेण्हई ।
वारिजंतीवि गच्छेज्जा पंथदोसे इमे लभे ।।
वृ- गमनोत्सुकेन चित्तेन शिक्षा अपि नाना प्रकारा ग्रहणशिक्षा आसेवनाशिक्षाश्च न गृह्णाति तथा वार्यमाणापि तस्य क्षेत्रविकृष्टस्यान्यस्याचार्यस्य समीपं गच्छेत् । तत्र च पथि दोषानिमान् वक्ष्यमाणान् लभते । अत्रयदुक्तं प्राक् एतैर्वक्ष्यमाणैर्दोषैस्तानपि नोद्दिशेदिति तद्वयाख्यानावसरः । तानेव दोषानाह[भा. २९६०] मिच्छत्तसोहि सागारियादि पासंडतेन सच्छंदा । खेत्तविगिठे स दोसा अमंगलं भवविगिट्ठमि ।।
वृ- मिथ्यात्वं मिथ्यात्वगमनं शोधेरभावस्तथा सागारिके अगारसहिते आदिशब्दादनागारे एकाकिन्या उपाश्रये दोषाः, । तथा पाषण्डैर्विपरिणामनं स्तेनैरपहारस्तथा स्वच्छन्दा स्यात् । न गच्छाधीना तथा च सति भूयांसो दोषा एते क्षेत्रविकृष्टे उद्दिश्यमाने दोषा भवविकृष्टे उद्दिश्यमाने अमङ्गलं तेन संयमजीविताद्भवजीविताद्वाभ्रश्येत्तस्माद्भवविकृष्टोऽपि नोद्देष्टव्यः एष द्वारगाथासंक्षेपार्थः साम्प्रतम् विवरणमाहउवदेसो न सिं अत्थि जेनेगागीए हिंडए ।
[भा. २९६१]
इति मिच्छं जनो गच्छे कत्थ सोहि च कुव्वउ ।।
1
वृ- उपदेशः सिं तासामेकाकिनीनां नास्ति येन स तादृशः स्त्रीजन एकाकी हिण्डते । तत इति अस्मात्कारणात् । उपदेशाभावलक्षणात् जनः स्त्रीजनो मिथ्यात्वं गच्छेत् । गतं मिथ्यात्वद्वारं । शोधद्विरमाहकुत्र प्रायश्चित्तमापन्ना सती शोधिं कुर्यात् । नैवकुत्रापीति भावः । एकाकिनीत्वान्न च प्रायश्चित्तस्थानमप्रायश्चित्तस्थानं वा सा जानाति । तत इतोऽपि शोध्यभावः सागारिकाद्वारं पाखण्डद्वारं चाहसागारमसागारे एकी उवस्सए भवे दोसा । चरिगादिविपरिणामण सपक्ख परपक्ख निण्हादी ।।
[भा. २९६२]
वृ- सागारे अगारसहिते असागारे अगाररहिते उपाश्रये एकस्या एकाकिन्या दोषा भवन्ति । तत्र सागारे दीपस्पर्शनादयोऽनाकारे कुलटाजारादिप्रवेशतो, गतं सागारिकादिद्वारं, । पाषण्डद्वारमाह इत्यादि स्वपक्षे च विपरिणमनं तत्र स्वपक्षे निन्हवादिभिरादिशब्दात् पार्श्वस्थादि परिग्रहः परपक्षे चरकादिभिः, स्तेन द्वारं स्वच्छंदद्वार चाह
[भा. २९६३ ]
तेनेहिवा विहिज्जइ सच्छन्दुत्थाणगमणमादीय । दोसा भवंति एए, किं च न पावेज सच्छंदा ।।
वृ- स्तेनैर्वा शरीरापहारिभिर्वा सा पथि गच्छन्ती ह्रियेत, तथा स्वच्छन्दमुत्थानं स्वच्छन्दगमनमित्यादयश्चैते दोषा एकाकिन्या भवन्ति । किं वा स्वच्छन्दा सती सा न प्राप्नुयात् । सर्वं दुःखस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org