________________
२२
व्यवहार - छेदसूत्रम् - २-४ / १०४
एमेव देसरज्जे गामेसु व पुच्छकहणं तु ।।
वृ- इह कोऽपि तस्मिन् ग्रामे नगरे देशे राज्ये वा न प्रव्रजति, किं कारणमिति चेदुच्यते, निजकानां स्वज्ञातीयानां भयात्, मा निजका उत्प्रव्राजयेयुः, प्रव्रजन्तं वा मा रुन्ध्युरिति । यदि वा तेषां निजकानां समक्षं लज्जते, ततो हीनो, वाऽथवाऽसंयमाधिकारः असंयमाधिकारणं तद् ग्रामादि अप्कायादिप्रचुरत्वात् । ततोऽन्यद् ग्रामादिकं गन्तुमनास्तथैव विचारादिगतं पृच्छेत्, यथा कस्मिन् ग्रामे नगरे देशे राज्ये वा साधव एवमन्यस्मिन् देशे राज्ये ग्रामेषु वा पृच्छायामेवं पूर्वोक्तेनैव प्रकारेण यथाभावं कथनं कर्तव्यं । किमुक्तं भवति यथा त्रिविधेषूपाश्रयेषु आसन्नदूरतपस्विबहुश्रुतानां पृच्छायां व्याकरणमनाभाव्यमाभाव्यं चवर्णितं तथात्रापिद्रष्टव्यम् । तद्यथा यद्यथा ग्रामादिकं पृष्टंततया कथनीयं वितथाख्याने तस्य प्रायश्चितंमासलवु । तत्र च गतो येषां समीपमुपगच्छति स तेषामाभवति ।। अहवा वि अन्नदेसं संपट्टियगं तगं मुणेऊण । माया- नियडि पहाणो, विप्परिणामो इमेहिं तु ।।
[भा. १८०७]
वृ- अथेति प्रकारान्तरे । तच्च प्रकारान्तरं विपरिणामविषमं वृक्ष्यमाणरीत्या द्रष्टव्यं विचारादिविनिर्गतं साधुं दृष्ट्रा कोऽपि परेण आदरेण वन्दते, तं च तथा वन्दमानं पृच्छति कुतस्त्वं ? कुत्र वा सम्प्रस्थित इति स प्राह-अमुकं देशं सम्प्रस्थितस्तत्र गत्वा प्रव्रजिष्यामि । तत एवमन्यदेशं सम्प्रस्थितं तं ज्ञात्वा, माया परवञ्चनाभिपायो निकृतिराकारवचनाच्छादनं यथा कूटाख्यातृत्वेन नंक्ष्यते, मायानिकृती प्रधाने वस्य स तथा एभिर्वक्ष्यमाणैश्चैत्यादिभिर्विपरिणामयति । । तान्येव विपरिणामस्थानानि चैत्यादीनि दर्शयतिचेइय साहू वसही, वेज्जा व न संति तम्मि देसम्मि । पडिनीय सन्निसाणी, वियारक्खेत्ता अहिगमग्गो ||
[भा. १८०८ ]
वृ- यत्र त्वया गन्तव्यं तस्मिन् देशे चैत्यानि, यदि वा साधवो, ऽथवा वसतषो, यदा वैद्या । न सन्ति; तथा बहवस्तत्र प्रत्यनीकाः, न च दानादिप्रधानानि संज्ञिकुलानि, श्वानः प्रभूता, न च तत्र विचारभूमिः, सर्वत्र पानीयाकुलत्वात्, नापि तत्र विहारयोग्यानि क्षेत्राणि, अधिकश्च भूयान्मार्गः पन्था, एतैः प्रकारैर्विपरिणामयति । । तत्र प्रथमतश्चैत्यमधिकृत्याह
[भा. १८०९]
वंदन पुच्छाकहणं अभुगं देसं वयामि पव्वइउं ।
नत्थि तहिं चेइयाइं दंसणसोही जतो होइ ।।
वृ- परया भक्त्या विचारादिनिर्गतस्य सार्धोवन्दनं ततः पृच्छा कुत्र गन्तव्यम् । तदनन्तरं तस्य कथनममुकंदेशं व्रजामिप्रव्रजितुमिति । एवमुक्ते स प्राह-न सन्तितत्र चैत्यानि । यतोयेम्यो दर्शनशोधिः सम्यग्दर्शननिर्मलता भवति ।। कथं तेभ्यो दर्शनशोधिरित्यत आह
[भा. १८१०]
पूयाउ दडुं जगबंधवाणं साहू विचित्ता समुवेंति तत्थ । चागं च दट्टूण उवासगाणं, सेहस्स वि थिरइ धम्मसद्धा ।
वृ- जगद्बान्धवानां पूजां द्रष्टुं तत्र तेषु चैत्येषु साधवो विचित्रा भव्या भव्यतराः समुपयन्ति, मूर्तिं दृष्ट्रा देशनां वा समाकर्ण्य तथा उपासकानां स्नानविलेपनादिषु त्यागं च वित्तत्यागं दृष्ट्वा आस्तामन्येषां शुभ परिणामोल्लासः शैक्षस्यापि धर्मश्रद्धा स्थिरति स्थिरीभवतीत्यर्थः । चैत्यानि तु तत्र न विद्यन्ते ततः ततः किं तत्र गत्वा त्वया कार्यमिति । । साधुद्वारमाह
[ भा. १८११] न संति साहू तहियं विवित्ता, उसन्नकिन्नो खलु सो कुदेसो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org