________________
उद्देशक : - ४, मूल - १०४, [भा. १८०१ ]
गामाइवानमंतरमहे य उज्जानमादीसु ।। इंदक्कील मनोग्गाहो जत्थ राया जहिं व पंच इमे । अच्च पुरोहित सेठी सेनावइ सत्थवाहोय ।।
२१
[भा. १८०२ ]
वृ- स्नानर्हतः प्रतिमानां तन्निमित्तमेकत्रमिलितानां, अनुयानं रथयात्रा तन्निमित्तं मिलितानां, अथवा अध्यशीर्षकं यतः परं समुदायेन सार्थेन सहगन्तव्यं सम्यग् मार्गावहनात् तत्र मिलितानां, कुलत्ति कुलसमवायमिलितानां, गणत्ति गणसमवायमिलितानां चतुष्कं सङ्घः तत्समवायमिलितानां, गामाइ इत्यादि ग्राममहेवा, आदिशब्दान्नगरादिमहेवा, वानमन्तरमहेवा उद्यानमहेवा आदिशब्दात्तडागादिमहेषु वा, इन्द्रकीलकमहे वा, यत्र च सकलजनमनोग्राहो राजा, यत्र वा इमे अमात्यपुरोहितश्रेष्ठिसेनापतिसार्थवाहाः पञ्च गता वर्तन्ते । तत्र कथमपि गताः समकं स्थिताः तर्हि साधारणवसतिः, | अथ विषमं स्थितास्तर्हि ये पूर्वं स्थितास्तेषां वसतिराभवति नेतरेषां पश्चादागतानां । तस्यांच वसतौयः शिष्यः शिष्यतया उपतिष्ठति तं वसतिस्वामिनो लभन्ते नेतरे ।। 'पुच्छमाणे दूरावलिय मासो' इत्यस्य व्याख्यानार्थमाह[भा. १८०३]
पुप्फावकिन्न मंडलियावलिय उवस्सया भवे तिविहा । जो अभासे तस्स उ दूरे कहंतो न लभे मासो ।।
वृ- क्वचिद् ग्रामे नगरे वा साधवः पृथग् उपाक्षये स्थिताः ते चोपाश्रयाः त्रिविधा भवेयुःपुष्पावकीर्णकाः, मण्डलिकावद्धा आवलिकास्थिता वा स्थापना एतेषामुपाश्रयाणां मध्ये कुतश्चिदेकतरस्मादुपाश्रयाद्विचारादिनिमित्तं कोऽपि निर्गतस्तं दृष्ट्वा कोऽपि प्रव्रजिषुः पृच्छेत् । यथा कृत्र साधूनां वसतिरिति । स ब्रूते - किं कारणं त्वं पृच्छसि ? । शिष्यः प्राह प्रव्रजिष्यामीति । तत्र यदि स एवं पृष्टः सन् 'दूरे कहन्तो न लभे मासो' इति आत्मयिमुपाश्रयं दूरमासन्नं वा कथयति तर्हि तस्य प्रायश्चित्तं लघुको मासो, न च तं शिष्यं लभते, कस्य पुनः स आभवतीति चेत् तत आह-योऽभ्यासे तस्य, किमुक्तं भवति तस्मादवकाशात् यस्य प्रत्यासन्नतर उपाश्रयस्तस्याभवति ।।
[ भा. १८०४ ] किह पुन साहेयव्वा उद्दिसियव्वा जहक्कमं सव्वे । अह पुच्छइ संविग्गे तत्थ व सव्वे व अद्धावा ।।
वृ- कथं पुनः कथयितव्या उपाश्रयाः । सूरिराह- उद्देष्टव्या यथाक्रमं सर्वे यथा अमुकस्यामुकपदेशे । एवं कथिते यत्र व्रजति तस्य स आभवति । अथ स पृच्छति संविग्नान् बहुश्रुततरान् तपस्वितरांश्चेत्यर्थः । तत्र यथाभावमाख्यातव्यं, वितथाख्याने मासलघु, न च स तं लभते । किन्तुये तपस्वितरा बहुश्रुततराश्च तेषां स भवति । अथ सर्वे अर्धा वा संविग्नास्ततस्तथैवाख्याने यत्र स व्रजति तस्य स आभवति, न शेषस्येति । एतदेव सविशेषमाह[ भा. १८०५]
मुत्तू असंविग्गे जे जहियं ते साहती सव्वे ।
सिट्टम्मि जेसि पासं, गच्छति तेसिं न अन्नेसिं ।।
वृ- इह ये पार्श्वस्थादयोऽसंविग्नास्ते यदि पृच्छ्यन्ते, तदा तेन कथनीयास्तान् मुक्त्वा शेषेषु पृष्टेषु ये यत्र विद्यन्ते तात् तत्र सर्वान् कथयति । शिष्टे च कथिते च सति येषां पार्श्व गच्छति तेषामाभवति नान्येषाम् ।।
[ भा. १८०६ ]
Jain Education International
नियल्लगाणं व भया हिरिवत्ति यसंजमाहिगारे वा ।
For Private & Personal Use Only
www.jainelibrary.org