________________
व्यवहार - छेदसूत्रम् - २- ४ / १०४
परस्परमनिश्रितत्वात् बहुका अपिसन्तो हु निश्चितं न लभन्ते क्षेत्रं, समाप्तकल्पानामेव क्षेत्रस्याभावना, तथापूर्वाचार्यकृतस्थितिः ।।
२०
[भा. १७९७ ] जइ पुन समत्तकप्पो दुहा ठितो तत्थ होज चउरन्ने । चउरो वि अप्पभूते लभंति, दो ते इतरनिस्सा ।।
"
वृ- यदि पुनः समाप्तकल्पः पञ्चजनात्मको वसतेः सङ्कटतादोषेणैकस्मिन् क्षेत्रे द्विधास्थितः, एकस्यां वसतौ द्वौ जनावपरस्यां त्रयस्तथास्मिन् क्षेत्रेऽन्यस्यां वसतावन्ये चत्वारो जनाः स्थिता भवेयुः, तथापि चत्वारोऽपि तस्य क्षेत्रस्याप्रभवो न तेषां तत् क्षेत्रमाभाव्यं भवति । यौ पुनद्वती तत्क्षेत्रं लभेते । । कुत इत्याह- इतरनिश्रौ, अत्रापि हेतौ प्रयमा, यतस्तावितरत्रयनिश्रावंतः समाप्तकल्पत्वाल्लभते । । अथ कस्मादसमाप्तकल्पानामेकाकिनां चाभाव्यं क्षेत्रं न भवति, तत आहगागिस्स उ दोसा असमत्ताणं च तेन थेरेहिं । एस ठविया उ मेरा इति विहुमा होजएगागी ।।
[ भा. १७९८ ]
- यत एकाकिनः सतोऽसमाप्तानां चासमाप्तकल्पानां च दोषा भूयांसस्तेन कारणेन स्थविरैरेषा मर्यादा स्थापिता इत्यापि खलु कारणात् क्षेत्रानाभवनलक्षणात् एकानिऽसमाप्तकल्पा वा मा भूवन्निति । सम्प्रति साहरणपतेगे इत्यादि व्याख्यानयति[भा. १७९९]
दोमादि ठिया साहारणम्मि सुत्तत्थकारणा एक्के । जति तं उवसंपजे, पुव्वठिया वि संकंतं ।
वृ- द्वयादयो द्विप्रभृतयो गच्छाः समाप्तकल्पाः समकमेकस्मिन् क्षेत्रे स्थितास्तेषां तत् क्षेत्रमाभाव्यतया साधारणम्, तस्मिन् साधारणे क्षेत्रे स्थिताः सन्तो यदि तमेकं गच्छमन्ये सूत्रार्थकारणादुपसम्पद्यंते, अथवा ये पूर्व समाप्तकल्पतया स्थितास्तेषामाभवति तत्क्षेत्रं, न पश्चादागतानां समाप्तकल्पानामपि, परं ते पूर्वस्थिता अपि यदि पश्चादागतं गच्छं सूत्रार्थकारणादुपसम्पद्यन्ते, तर्हि यस्य समीपमुपसम्पद्यन्ते तस्य तत्क्षेत्रं संक्रान्तं तस्य तदा भवति, नान्येषामिति भावः । ते हि तस्य प्रतीच्छकीभूताः तेन तेषां क्षेत्रमितरस्य संक्रामतीति ।।
"
अथ नोपसम्पद्यते किन्तुं सूत्रमर्थ वा पृच्छन्ति, तत्राह
[भा. १८०० ]
पुच्छाहि तीहि दिवसं, सत्तहि पुच्छाहि मासियं हरति । अवखेत्तुवस्सए पुच्छमाणे दूरावलिय मासो ।।
वृ-तिस्मृभिः पृच्छामिः कृताभिः पृच्छ्यमानः परिपूर्ण दिवसं यावत्क्षेत्रगतं सचित्तादि हरति गृह्णाति, त्रिपृच्छादानतस्तस्य क्षेत्रस्यैकं दिवसं यावत्तदाभवनात्, सप्तभिः पृच्छाभिर्मासिकं हरति, किमुक्तं भवति ? सप्तपृच्छासु कृतासु पृच्छ्यमानः परिपूर्णमासं यावत्तत् क्षेत्रगणंसचितादि लभतेमासं यावत्तस्य क्षेत्रस्य तदाभवनादिति । 'अवखेत्तुवस्सए' इति अक्षेत्रे स्थितानामुपाश्रये उपाश्रयविशेषा मार्गणा कर्तव्या, सा चाग्रे करिष्यते । तथा यदि पृच्छ्यमान आत्मीयमुपाश्रयं, दुरमुपलक्षणमेतत् आसन्नं वा, आवलिकाप्रविष्णुपलक्षणमेतत् मण्डलिकंवा पुष्पावकीर्ण वा कथयति, तदातस्मिन् प्रायश्चित्तं मासो लघुकस्तं च पृच्छन्तं न लभंत एष संक्षेपार्थो व्यासार्थोऽग्रे कथयिष्यते ।।
अक्षेत्रे उपाश्रयस्य मार्गणा कर्तव्येत्युक्तं तत्र तावदक्षेत्रमाहहाणानुजाण अद्धाणसीसए कुलगणे चउक्के य ।
[भा. १८०१ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org