SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5:-४, मूल - १०४, [भा. १७९२] १९ द्विकपिण्डिताः तेषामेकद्विकपिण्डितानामापिशब्दात्त्रिवर्गपिण्डितानां चतुर्वर्गपिण्डितानामपि । तत्र त्रिवर्गपिण्डिता द्वावेकाकिनावेकस्त्रिवर्गः, चतुर्वर्गपिण्डितास्त्रय एकाकिन एको द्विवर्गः, अवग्रह आभवति न शेषाणामसमाप्कल्पस्थितानाम् । यदि पुनद्व गच्छौ समाप्तकल्पावेकत्र क्षेत्रे समकं स्थिती स्याताम्, तदा तत्क्षेत्रमाभवतिद्वयोरपि द्वयोः साधारणम् । तच्च साधारणं क्षेत्रं तेषांसमाप्तकल्पतया प्रत्येकं स्थितानां मध्ये ये सूत्रार्थनिमित्तं यानुपसम्पद्यंते तत उत्तीर्य तेषामुपसम्पद्विषयाणामाभाव्यतया संक्रामति, तथा चाह- साधारणं क्षेत्रंप्रत्येकं व्यवस्थितमपिप्रतीच्छके प्रतीच्छकादुत्तीर्य तेषां संक्रामति । तेहि प्रतीच्छक स्तन्निश्रामुपपन्नास्ततस्तेषां क्षेत्रमितरेषां सङ्क्रामति । अथ प्रतीच्छका नोपसम्पद्यन्ते, केवलं 'पुच्छत्ति' पृच्छामात्रं सूत्रार्थविषयः क्रियते । तदा 'पुच्छाहिति' इत्यादिना मार्गणा कर्तव्या ।। अत्रैव विशेषमाह [भा. १७९३] अप्प बितियप्पतईय द्वियाण खेत्तेसु दोसु दोन्हं तु । उबद्धे होइ खेत्तं गमनागमनं जतो अत्थि ।। 7 वृ- एकस्मिन् क्षेत्रे एक आचार्य उपाध्यायो वा आत्मद्वितीयः स्थितोऽपरस्मिन् क्षेत्रेऽपर आचार्य उपाध्यायो गणावच्छेदको वा (वात्म) तृतीयस्थितः, केवलं परस्परमुपसंपदा, ततस्तयोर्द्वयोः क्षेत्रयोरात्मद्वितीयात्मतृतीयस्थितयोऋतुबद्धे काले तदुभयमपि क्षेत्रमाभाव्यं भवति कुत इत्याहगमनागमनं यतःपरस्परमस्ति परस्परोपससम्पन्नत्वादतः समाप्तकल्पतया भवत्याभाव्यमिति ।। सम्प्रतियैः कारणैरुपसम्पद्यते तान्याह[भा. १७९४] खेत्तनिमित्तं सुहदुक्खतो व सुत्तत्थकारमे वावि । असमत्ते उवसंपद्म संमत्ते सुहदुक्खयं मोत्तुं ।। वृ- असमाप्तस्यासमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सुखदुःखहेतोर्वा सूत्रार्थकारणाद्वा । किमुक्त भवति । अन्यत् तादृशं क्षेत्रं न विद्यते, यदिवा असमाप्तकल्पतया विहरतां दुःखं, समाप्तकल्पस्य पुनरुपसंपदि, सुखदुःखतां मुक्त्वा, शेषाणि कारणानि दृष्टव्यानि, समाप्तकल्पा अन्यक्षेत्रं तादृशं नास्तीति क्षेत्रनिमित्तं सूत्रनिमित्तं तदुभयनिमित्तं वान्यत् गच्छान्तरमुपसंपद्यंते, न सुखदुःखहेतोः, समाप्तकल्पतया तेषां विहरणेदुःखाभावादिति भावः । । अथ ते कथमेकाकिनोऽसमाप्ता वा जाता इत्यत आहपडिभोसुमएस व असिवादीकारणेसु फिडिया वा । [भा. १७९५ ] एएण तुगामी असमत्ता वा भवेथेरा ।। वृ- शेषेषु साधुषु व्रतात्प्रतिभप्नेषु मृतेषु वा, अथवा, अशिवादिभिः कारणैः स्फिटिताः परस्परं वित्रुटिताः, एतेन स्थविरा एकाकिनोऽसमाप्ता वा भवेयुः ।। साम्प्रतमेगदुगपिंडियाणं पि, इत्यस्य व्याख्यानार्थमाह[भा. १७९६ ] एगदुगपिंडिया विहुलभंति अन्नोन्ननिस्सिया खेत्तं । असमत्ता बहुयावि हुन लभंति अनिस्सिया खेत्तं ।। बू - एककाः पिण्डिता एकपिण्डिताः, द्विकेन वर्गद्वयेन पिण्डिताः, अपिशब्दात्रिकपिण्डिताश्चतुष्क पिण्डिताश्च । अमीषां भावना प्रागेवोक्ता, हु निश्चितम्, अन्योन्यनिश्रिताः परस्परमुपसम्पन्ना लभन्ते क्षेत्रं, ये पुनः असमाप्ताः परस्परोपसम्पद्ग्रहणाभावतोऽसमाप्तकल्पास्तिष्ठन्ति, ते परस्परमनिश्रिताः, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति न्यायादत्र हेतौ प्रथमा । ततोऽयमर्थः । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy