________________
२४४ .
व्यवहार-छेदसूत्रम्-२-७/१६६ अर्थाय ते एतस्या उपग्रहं करिष्यन्तीत्यादि अभिप्रायेणशेषं सुगमम् । अत्रभाष्यकारः प्राह[भा.२९२६] अन्नट्ठमप्पणा वापव्वावणे चउगुरुंचआणादी ।
मिच्छत्ता तेन संकठ्ठ मेहुणेगहणे जंच ।।। वृ-शिष्यस्य मेसर्वकार्येषु सहायिनीभविष्यतिइत्येवमन्यार्थमेवमात्मनोवार्थाय यदिप्रव्राजयति निर्ग्रन्थी तदा तस्यप्रायश्चित्तं चतुर्गुरुआज्ञादयश्चदोषास्तथा मिथ्यात्वंतीर्थकरवचनातिक्रमात् । तथा स्तैन्यार्थं शङ्कायां किमयं प्रव्राज्य (ज्य) हरिष्यति उतधर्मश्रद्धया प्रव्राजयतीत्येवं रूपायां यत्प्रयश्चित्तं चतुर्लघु उपलक्षणमेतत् । निःशङ्कितमेषप्रव्राज्य हरिष्यतीतिनिश्चयेऽपयत्प्रायश्चित्तंचत्वारोगुरुकाः । तथामैथुनेशङ्कितेशङ्कितेयथाकिंमैथुनार्थमेवप्रव्राजयितउत्धर्मश्रद्धयातियत्प्रायश्चित्तं चतुर्गुरुकम् । नूनमेषमैथुनार्थंप्रव्राजयतीत्येवं निःशङ्कितेयन्मूलंप्रायश्चित्तम्, । यच्चग्रहणेकञ्चकादिसंघाटप्रावरणोपदेशदाने कक्षान्तरादिदृष्ट्रा परोभयसमुत्थदोषैर्ब्रह्मचर्यविराधनंतन्निमित्तमपि प्रायश्चित्तमापद्यते ।। [भा.२९२७] तेनट्ठमेहुणे वाहरइअयं संकसंकिएसोही।
___ कक्खादभिक्खदंसण मथथक्कातोभये दोसा ।। वृ-अयं प्रव्राजनाव्याजेन हरतीत्येवं शङ्कायामशङ्किते वा स्तैन्यस्यार्थे तथा मैथुनशङ्खायमशङ्किते वामैथुनेयाशोधिः प्रायश्चित्तंतदापद्यते । तथाकक्षादीनामथक्रमप्रस्तावमभीक्ष्णदर्शने आत्मोभयदोषा उपलक्षणमेतत् । परदोषाश्चय तानपिप्राप्नोतिएतदेव सविशेषमाह[भा.२९२८] हरतिती संकाए लहुगा गुरुगाय होतिनीसंको ।
मेहुणसंकेगुरुगा निस्संकिए होइमूलंतु ।। वृ-अथ प्रव्रज्यादानव्याजेन हरतीत्येव शङ्कायां प्रायश्चित्तं चत्वारो लघुकाः । निशङ्के हरणे नूनमेष निश्चितंहरिष्यतीत्येवं निश्चये भवन्तिचत्वारो गुरुकाः । तथा मैथुनाशङ्कायां चत्वारो गुरुका निःशङ्किते मैथुने वा भवतिमूलं अमुमेवार्थंसूत्रकृताङ्गालापकेन संवादयति[भा.२९२९] अविधूवगादिवासो पडिसिद्धो तहयवाससतिहिगा ।
वीसत्थादीदोसा विजट्ठा एवं तुवुत्ता ।। वृ- पूर्वसूत्रकृताङ्गे एवोक्ता अभिहिताः पूर्वोक्ताः ।। [भा.२९३०] पव्वावणेसपक्खे परिच्छिए दोसविवज्जिए ।
दिक्खाएवं सुत्तंसफलं सुत्तनिवातोउकारणिउ ।। वृ- यस्मादेते दोषाः सपक्षे प्रव्राजना कर्तव्या । तद्यथा-पुरुषाः संयतैः प्रव्राजनीयाः, स्त्रियः संयतीभिः,संयतिरनुज्ञाताभिःसाचदीक्षापरिपृच्छय किंप्रव्रजसिइतिपृष्टायद्यभ्युपगच्छतितदादातव्या परंदोषवर्जितेअठारसपुरिषेष्वेवमादिदोषरहिते।अत्रपरआह-यद्येतत्तत्वंतर्हिसूत्रमफलंसूत्रेपरपक्षेऽपि दीक्षाया अभ्यनुज्ञानात्तस्याश्चासम्भवात् । आचार्यः प्राहसूत्रनिपातः कारणिकःकारणमपेक्ष्येदं सूत्रं प्रवृत्तमितिभावः । किंतत्कारणमत आह- . [भा.२९३१] कारणमेगमडंवेखंतियमादीसुमेलणा होइ ।
पव्वज्जमब्भुवगए अप्पाणेच उव्विहातुलना ।। वृ-कारणमशिवादिलक्षणमधिकृत्य कोऽपिसाधुरेकाकी जातः कथमप्येकमण्डवेगतः एकमण्डवं नामयस्य निवेशस्य सर्वासुदिक्षुचनास्तिकोऽप्यन्योग्रामोनगरंवातस्मिन्नेवमण्डवे गतस्तत्रच संयत्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org