________________
उद्देशकः-७, मूल - १६६, [भा.२९३१]
...२४५ न विद्यन्तेअथचतस्मिन्नेकमण्डवेतस्यसाधोर्माताभगिनीअन्यावाकाचननालसम्बधास्वजनास्ति, कोऽप्यन्यो ग्रामनगरंवातासांमात्रादीनांमेलनंमेलापकः साधोर्भवति ।सच मात्रादिकः स्त्रीजनोधर्मे कथितेऽकथितेवा प्रव्रज्यांप्रतिपत्तुमभ्युपगतो यथा वयं प्रव्रज्यांप्रतिपद्यामहे ।एवं प्रव्रज्यामभ्युपगते मात्रादावशङ्कनीये स्त्रीवर्गे यतना कर्तव्या । सा चेयं-तेन साधुना चतुर्विधया तुलनया तोलयितव्यस्तद्यथा-द्रव्यतःक्षेत्रतः कालतोभावतश्च ।तत्रद्रव्यतोयदिसमर्थहारमुपधिभैषजादिकंचोत्पादयितुं समर्थः, तथाकस्याप्येवंस्भावतोभवति । यथानशक्नोतिस्थातुंप्रथमालिकांविना चतुर्थरसिकादिकं वापानकंन शक्नोतिपातुं । ततस्तद्योग्यं पानकंप्रथमालिकां वा नेतुंसमर्थः; । क्षेत्रतो यदि शक्नोति पथि पादाभ्यां गन्तुमध्वनि वा यदि शक्नोति आहारादिकमुत्पादयितुम् । कालतो ग्रीष्मकाले पानकं शीतकाले तत्कालप्रायोग्यमाहारादिकं तदुत्पादयितुंसमर्थः । रात्रौ मध्याह्ने वा यदिगन्तुंप्रभुः, भावतो यदिक्रोधादीनां जयं कर्तुं क्षमो ज्ञानदर्शनचारित्राणि सामाचारी च ग्राहयितुमीशस्ततो यावदाचार्याणां प्रवर्तिन्या वा मूलं न प्राप्नोति, तावदनया चतुर्विधया तुलनयात्मानं तुलयित्वा यदि समर्थो जातस्ततः प्रव्राजयति । एतदेवाह[भा.२९३२] असिवादिकारणगतो वोच्छिन्नमडंबसंजती रहितो ।
कहियाकहियउवठिय असंकइत्थी समाजयणा ।। वृ-अशिवादिभिः कारणैरेकाकीव्यवच्छिन्ना ग्रामनगरादयोदिक्षुविदिक्षुचयस्मात्तस्मिन्व्यवच्छिन्ने संयतीरहितेमडवे गतस्तत्रचधर्मेकथितेअकथितेवामात्रादयोव्रतग्रहणार्थमुपस्थितास्तासुअशङ्कासु अशङ्कनीयास्वियंवक्ष्यमाणा यतनातामेवाह.. [भा.२९३३] आहारा दुप्पायणेदव्वे समुइंचजाणतेतीसे ।
जइतरइगंतुखेत्तेआहारादीनिअद्धाणे ।। वृ-द्रव्ये द्रव्यतो यद्याहारादीनामादिशब्दादुपध्यादिपरिग्रहः उत्पादनेसमर्थः ।समुइनामस्वभावः भावं तस्याजानाति यथाप्रथमालिकां विना न शक्नोतिचतुर्थरसिकादिकंचपानीयं पातुंन शक्नोति, ततस्तद्योग्यं पानं प्रथमालिकांचोत्पादयितुंक्षमः । तथा क्षेत्रतो यदि पथि पादाभ्यां गन्तुंतरति अध्वनि वाहारादिकमुत्पादयितुम् । [भा.२९३४] गिम्हातिकाले पानग निसिगमनातिसुवा विजइसत्तो ।
भावेकोहाइजओगाहणनाणेय चरणेय ।। वृ-काले ग्रीष्मादौ यदि पानकमुत्पादयितुमीश उपलक्षणमेतत् । शीतकाले वर्षाकाले च प्रायोग्यं तत्सम्पादयितुं शक्तो भावे यदि क्रोधादिजयः कर्तुं शक्यते ज्ञाने चरणे च तस्या ग्रहणे समर्थस्तदा यावदाचार्यमूलंप्रवर्तिनी मूलंचनप्राप्नोति ।तावदेतयाचतुर्विधायात्मानंतोलयित्वायद्यात्मनःसमर्थता गम्यते तदा प्रव्राजयति यावत्कथा समर्थो वा प्रव्राजयति । अत्रेयं मार्गणा यो यावत्कथं परिपालयितुं समर्थः स नियमात् प्रव्राजयति, इतरस्मिंस्तुभजना । तथाहि-यो यावत्कथं परिपालयितुंसमर्थः तस्य यद्याचार्यः सलब्धिकः परिपालने समर्थोऽन्यो वा स्वगणशक्तः परिपालयितुंक्षमः, ततः प्रव्राज्य तस्य समर्पयति ।अथाचार्योऽन्यो वास्वगणाशक्तस्तांपरिपालयितुसमर्थस्तदानप्रव्राजयति । इयमितरस्मिन् भजना ।।
[भा.२९३५] अब्भुज मेगयरंपडिवजिउ कामोजोउपव्वावे ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org