________________
२४२
व्यवहार-छेदसूत्रम्-२-७/१६४ द्वे फलके एकत्र कृते फलक सम्पुट इत्युच्यते । एवं निर्ग्रन्थसूत्रात् द्वितीयं निर्ग्रन्थी सूत्रं सम्पुटसदृशं भवति तत उक्तं द्वयोरपि सूत्रयोः सम्पुटक इति निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तं भवति । विशेषोपलंभो वाइतिये निर्ग्रन्थीसूत्रंपठ्यते । ततः शिष्याणां विशेषोपलम्भोभवति । दूरव्यवधानेतु न स्यात् ततो भवति विशेषोपलंभ इति कृत्वा निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तमेघमनेन सम्बन्धेनायातस्यास्य व्याख्या-या निर्ग्रन्थ्यो वा सांभोगिकाः स्युस्तेषां न कल्पते प्रत्यक्षं प्रत्येकं सांभोगिकी सांभोगां कर्तुं कल्पते परोक्षं प्रत्येकं सांभोगिकं विसांभोगीकर्यु यत्रैववा तानि निर्ग्रन्र्थ्य आत्मीयान् आचार्योपाध्यायान्पश्यन्तितत्रैव एवंवदन्ति ।अथ नमितिवाक्यालङ्कारे ।भदन्तअमुकया सहास्मिन् कारणेसमापतितेपरोक्षप्रत्यक्षप्रत्येकंसंभोगविसंभोगंकरोमि ।साचसेतस्याः प्रवर्तिन्याः प्रति तपति मिथ्यादुष्कृतप्रदानेनानुतपति असद्धातदाख्यानमिति प्रत्यायपयति । एवं सतिन कल्पते परोक्षप्रत्येकंसांभोगं विसंभोगकर्तुमतसा तस्याः प्रागुक्तप्रकारेणनानुतपितास्वतएवं सतिसेतस्याः । कल्पते परोक्षप्रत्येकंसंभोगं कर्तुमितिसूत्राक्षरार्थः । ।सम्प्रतिभाष्यकारः प्राह[भा.२९१८] एसोवगमो नियमा निगंथीणं पिहोइनायव्यो ।
जंएत्थंनाणतंतमहं वुच्छंसमासेणं ।। वृ-यो निग्रन्थसूत्रस्य व्याख्यागम उक्त एष एव गमो निर्गन्थीनामपि सूत्रेभवति ज्ञातव्यः केवलं यदत्रनानात्वंतदहंसमासेन वक्ष्ये ।तदेव विवक्षुः प्रथमतः प्रश्नमुत्थापयति[भा.२९१९] किं कारणंपरोक्खं संभोगा तासुकीरइवीसुं ।
पाएणताहि तुच्छा पच्चक्खंभंडणंकुज्जा ।। वृ- किं कारणं केन कारणेन तासु संयतीसु परोक्षं संभोगो विष्वक् क्रियते । आचार्य आह-हि यस्मात्प्रायेणताःसंयत्पस्तुच्छाः । ततः प्रत्यक्षं विसंभोगकरणेभण्डनं कुर्युः ।। [भा.२९२०] दोन्नि विससंजतीया गणीणो एक्कस्स वा दुवे वग्गा ।
वीसुकरणंभि तेच्चिय कवोयमादी उदाहरणा ।। वृ-द्वौगणिनावाचार्योससंयतीकौ परस्परंसांभगिकावथवा एकस्यद्वौवर्गौसंयतवर्गःसंयतीवर्गश्च । अपरस्य त्वेक एव संयतवर्गः । तौ यां विसंभोगां कुरुतस्तां तैरेव चटकगृहिककपोतप्रविशनादिरुपादुदाहरणात्प्रागुक्तप्रकारेण विसंभोगंकुरुत इत्यर्थः । कथमित्याह[भा.२९२१] पडिसेवितंतुनाउंसाहती अप्पणा गुरुणंतु। .
तेविय वा हरिऊणंपुच्छंती दोविसब्भावं ।। वृ- काश्चित्संयत्यः कासांचित् संयतीनां प्राधूर्णिका गतास्ताभिश्च पूर्वप्रकारेण प्रथमालिका कृता जाताशय्यातरपिण्डाशङ्का ।अथवा हरितोपलिप्तायां वसतौ स्थिता यदिवासदीपायांततस्ताभिरागत्य निजप्रवर्तिन्याकथितंयथा-एताः शय्यातरपिण्डमासेवन्ते । प्रतिदिवसंहरितोपलिप्तायांवसतौवसन्ति सदीपायांवेतिसापिप्रवर्तिनी तन्मुखात्प्रतिसेवितमितिज्ञात्वा ताभिः सहगत्वात्मनोगुरुणां कथयति । तेऽपिचगुरवोव्याहृत्य आकार्यद्वावपिसंयतीवर्गौसद्भावं पृच्छन्ति । केवलं यदिताएकगुरुप्रतिबद्धा अन्यथा दोषस्तथा चाह[भा.२९२२] जइताउएगमेगंअहवावी परगुरुंवइजाहि ।
अहवावी परगुरुतो परवत्तिणी तीसुवीगुरुगा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org