SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ७, मूल - १६३, [भा. २८९१] २३७ वृ- अस्मिन् सप्तमे व्यवहारे व्यवहारस्योद्देशके अपराधेन विभावितः परिभावितो यः साधुः स यदि प्रत्यावर्तते, तदा तस्यापराध विभावितस्य साधोरावृत्तस्य विसंभोगो न क्रियते प्रायश्चित्तं पुनर्दीयते । अथ नावर्तते ततो वास्त्रयं भण्यते आवर्तस्य महानुभाव एवमुक्तोऽपि यदि नावर्तते तदा तस्मिन्ननावृत्ते प्रत्यक्षेण प्रत्यक्षतवा विसंभोगः क्रियते ।। [भा. २८९२] संभोगेभिसंबंधेन आगति केरिसेन सह नेओ । रिसएण विभागो भइ मुणसु समासेणं ।। वृ- एवमभिसम्बन्धेन संभोगआगते शिष्यः पृच्छति-कीद्दशेन सह संभोगो ज्ञेयः । कीदृशेन सह विसंभोगः ? । सूरिराहभण्यते एतत्समासेन तत्वं भण्यमानं श्रुणु । प्रतिज्ञातमेव निर्वाहयतिपडिसेहे पडिसेहो असंविग्गे दानमादितिक्खुत्तो । [भा. २८९३] अविसुद्धे चउ गुरुया दूरे साहारणं काउं ।। वृ- प्रतिषिध्यते पार्श्वस्थादिकंन कल्पते इति निवार्यते इति प्रतिपेधोऽसंविग्नः पार्श्वस्थादि भण्यते । तस्मिन्प्रतिषेधेऽसंविग्ने दानादेर्दानर्गहणसंसग्यदिः प्रतिषेधः त्रिः कृत्व इति यदि कथमपि दानादि करोति तदा एक द्वौ त्रीन् वारान् वार्यते । एकैकस्मिंश्च वारे प्रायश्चित्तं मासलघु वास्त्रयवारणेऽपि यदि भूयस्तैः सह दानादि करोति । तदा सोऽविशुद्ध इति विसंभोगः क्रियते । विसांभोगिकमपि सांभोगिकं करोति । तस्य प्रायश्चित्तं चत्वारो गुरुकाः । दूरे गतानां यदि केऽपि पृच्छन्ति यथा सन्त्यस्माकं केचित्संभोगिकास्तत्र देशे इति तदा साधारणं कृत्वा वक्तव्यम् । यथा तदा सांभोगिकाः अभवन् । इदानीं पुनर्न जानीमः किमनुपालयन्ति सांभोगिकत्वं वा नेति एष निर्युस्ति गाथा समासार्थः । [भा. २८९४] पासत्थादि कुसीले पडिसिद्धे जाउ तेसिं संसग्गी । पडिसिज्झइ एसो खलु पडिसेहे होइ पडिसेहो ।। वृ- पार्श्वस्थादिके कुसीले स्थाने प्रतिषेधे यातेषां पार्श्वस्थादि स्थानवर्तिनां संसर्गिः प्रतिषिध्यते । साच संसर्गिर्दानग्रहणाभ्यामवसातव्या एष भवति प्रतिषेधे प्रतिषेधः न चैषप्रतिषेधे प्रतिषेधोनानर्थोसूयगडंगे एवं धम्मज्झयणे निकाचितं । [भा. २८९५ ] अकुसीले सया भिक्खु नो य संसग्गियं वदे (ये) ।। वृ-सूत्रकृते द्वितीय अङ्गे धम्मज्झयणे एवं निकाचितंनिश्चयपूर्वकं भणितं । यथा सदा भिक्षुरकुशीलो भवेत् । न च कुशीलैः सह संसर्गिकां व्रजेत् ।। [भा. २८९६] दानादि संसग्गी सयं कते पडिसिद्धे लहुतो । आउट्टे असुद्धे गुरुत्तो उ तेन परं । । वृ- दानादिभिः संसर्गिदानादि संसर्गिस्तस्यां सकृत् कृतायां संप्रतिनिषिध्यते । आर्य कस्मात्पार्श्वस्थादिभिः समं संसर्गिकरोषि । एवं प्रतिषिद्धे यदि स आवर्तते तदा स सांभोगिक एव । केवलं तस्मिन्नावृत्ते प्रायश्चित्तं लघुकोमासः द्वितीयमपि वारं यदि करोति ततोपिमासलघु अथ तृतीयमपि वारं करोति आवर्त्तते चऽतदापिमासलघु सद्भावतस्त्रिकृत्वा आवृत्ते लघुको मासस्तेनपरभिति ततस्तृतीयात् वारात् चतुर्थं वारं संसर्ग करोति तदासोऽशुद्ध इति तस्यप्रायश्चित्तं गुरुको मासः एतदेव स्पष्टतरमाहतिक्खुत्तो मासलहु आउट्टे गुरुगो मासो तेन परं । अविसुद्धे तं वीसुं करेंति जो भुंजति गुरुगा ।। [भा. २८९७ ] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy