SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ व्यवहार-छंदसूत्रम् -२- ७ / १६१ वृ- चोदकः प्राह-प्रवर्तिन्यास्तुच्छेऽपराधे गुरुको दण्डो दत्तः । आचार्यः प्राह- अपराधोऽपि तासां गरीयान् यतव्याहृताः (अभिहिताः) सत्यो निष्ठुरंभाषते । अन्यच्चताएव स शिष्यमाणा अनापृच्छ्योपधिं गृह्णत्यश्चरिकासिद्धपुत्रीभ्यां प्रक्षेपकमुपचारविषयनिमित्तहरणार्थतया न ज्ञास्यन्ति । नापि कयाचित् सिद्धपुत्रिकया स्तैन्यकरणाय प्रव्रजितया एतत् उत्कृष्टवस्त्रादिकं स्नेनितं न ज्ञास्यंति तस्मादेतिच्छिष्यापननिमित्तमेष गुरुको दण्डः । एतदेव सप्रपञ्चमाह [भा. २८४३] अवराहो वि गुरूतासिं सच्छंदेनोवहिं तुजाघेत्तुं । न कहंती भिन्न वा जं निठ्ठरमुत्तरं बेंति ।। वृ- अपराधोऽपि तासां संयतीनां गुरुरेव यत् स्वच्छन्दसा उपधिं गृहीत्वा न कथयन्ति भिन्ना वा ज्ञाता वा सत्यो यन्निष्ठुरमुत्तरं ब्रुवते । अन्यच्च अनापृच्छया गृह्णत्यो विषयहरणार्थतया चरिकासिद्धपुत्रीभिः प्रक्षेपकं न ज्ञास्यन्ति । एतदेव भावयति [भा. २८४४ ] अचियत्ता निक्खता निरोहलावन्नलंकियं दिस्सा । विरहालंभे चरिया आराधना दिक्खलक्खेण ।। वृ- कापि महेला कुटुम्बिनो अवियत्ता अप्रीतिमती अहमिति प्रव्रजिता । नवरं संयतीत्वे निरोधेन कुतोऽपि कर्मकरणादीनामर्थाय निर्गमनं ततः शरीरस्य लावण्यमद्भुतां लावण्यालंकृतां भिक्षामटती स भर्त्ता दृष्ट्वा लोभं गतः । सा चात्मतृतीया भिक्षामटती विरहो न विद्यते यत्र तामालापयति । ततः स चरिकां दानसन्मानाभ्यामाराधयति । ततश्चरिका ब्रूते सन्दिश यन् मया कर्तव्यं । स प्राह-एतां संयतीं तथा कुरुत यथा प्रतिभज्यते । ततः सा दीक्षालक्षेण दीक्षाव्याजेनाहं प्रव्रजिष्यामीत्येवं रूपेण तां संयतीमुपागता ।। [भा. २८४५ ] अहवावि अनो कोई रूवगुणुम्माइतो सुविहियाए । चरियाए पक्खेवं करेज च्छिद्दं अविंदंतो ।। वृ- अथ च कोऽप्यन्योऽविरतः सुविहितायाः संयत्या रूपगुणेनोन्मादित उन्मादं ग्राहितच्छिद्रमविन्दन् अलभमानश्चरिकय दानसन्मानाभ्यामाराधितया प्रक्षेमुपचारं कुर्यात् ।। [भा. २८४६ ] सिद्धीवि कावि एवं अहवा उक्कोसनंतगा भिन्ना । होहं वीसं भेउं अगहियगहिए य लिंगंमि ।। वृ- अथवा चरिकया अभावे चरिकया प्रयोजनासिद्धौ कापि सिद्धयपि सिद्धपुत्रिकापि एवं दानसन्मानाभ्यां गृहीत्वा प्रयुज्येत, ततोऽनापृच्छया ग्रहणेऽजानत्यस्ता स्तमप्युपचारं गृह्णीयुस्तथा च सति महान् दोषः । अथवा सा सिद्धपुत्रिका तासां संयतीनामुत्कृष्टान्ययन्तकानि वस्त्राणि दृष्ट्रा भिन्ना वस्त्रग्रहणलोभेन चित्त (वि) भक्तमुपागता भविष्याम्यहं प्रव्रजितेति विश्रम्य गृहीत अगृहीते च लिङ्गे उत्कृष्टवस्त्राणां स्तैन्यं कुयात् । पर आह [ भा. २८४७ ] वीसिज्जिय नासिहिती दिट्टंतो तत्थ घंटलोहेण । तम्हा पवित्तिनीए सारणजयणाए कायव्वा ।। वृ- चोदकः प्राह- नन्वेवं विसर्जितास्ता नंक्ष्यन्ति तस्मान्मा क्रियतामी दृशो गुरुको दण्डः । आचार्यः प्राह-दृष्टान्तस्तत्र घण्टालोहेन । किमुक्तं भवति ? यस्मिन्नेव दिने यत्र लोहे घण्टा कृता तल्लोहं तस्मिन्नेव दिने विनष्टं । एवं यत्र दिवसे ताः स्वच्छन्दतो वस्त्राणि गृहीतवत्यः प्रव्रज्यां वा दत्तवत्य स्तस्मिन्नेव दिने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy