________________
उद्देशक :- ७, मूल - १६१, [भा. २८४७ ]
ता विनष्टा यत एते दोषास्तस्मात् प्रवर्तिन्या सारणा यतनया कर्तव्या । तामेवाहधम्मं जइ काउ समुट्ठियासि अप्पोवदुग्गं तुकुमं सएहिं । तदानि वच्चामो गुरूण पासं भव्वं अभव्वं च विदंति तेऊ ।।
[ भा. २८४८ ]
२२९
वृ- सा परिव्राजिका सिद्धपुत्रिका यदि संयतीनामुत्तिष्ठति ततः सा प्रवर्तिन्या वक्तव्या यदि धर्मं कर्तुं समुत्थितासि तर्हिसम्प्रति व्रजामो गुरूणां पाश्वयतो भव्यमभव्यं वा ते विदन्ति । वयं तुकिंजानीमः । गुरुवः कथं जानन्तीति चेदत आह
[ भा. २८४९ ]
जो जेन अभिप्पाएण एति तं भे गुरूवियाणंति । पारगमपारगति य लक्खणतो दिस्स जाणंति ।।
बृ-यो येनाभिप्रायेण समागच्छति तत्भो गुखो विजानन्ति तथा प्रव्रज्यां गृहीतुकामां दृष्ट्वा लक्षणत एव जानन्ति यथा एष प्रव्रज्यायाः पारगो भविष्यत्येषोऽपारग इति तथापत्ता पोरिसिमादी च्छाया उव्वाय वुत्थ साहंति ।
[भा. २८५० ]
चोदेति पुव्वदोसे रक्खंती नाउ से भावं ।।
वृ-प्राप्ता पौरुष्यादिकं प्रथमपौरुष्यादकिंगुरवे निवेदनीया । तथा च्छाता बुभुक्षिता उद्धाता परिश्रान्ता तथा उषिता तदपि संयत्यो गुरूणां कथयन्ति गुरुश्च पूर्वदोषान् चोदयति कथयति । तथा से तस्या दीक्षिताया भावमभिप्रायं द्रष्टुं ज्ञात्वा गुरवो रक्षयन्ति । एष द्वारगाथा संक्षेपार्थः ।
[भा. २८५१ ]
जा जीए होति पत्ता नयंति तं तीए पोरिसीए । उछो उवाय निमित्तं बितियाए ततियाए चरिमाए । ।
।
वृ- या यस्यां पौरुष्यां संयतीनां पार्श्वे प्राप्ता भवति तस्यां पौरुष्यां संयत्यो गुरुसमीपं नयन्ति । अथ सा च्छाता उद्वाता वा तर्हि तन्निमित्तं तेन कारणेन तस्या द्वितीयस्यां तृतीयस्यां चरमायां वा गुरु समीपं नीयते । नीत्वा च च्छातादिकं सर्वं कथ्यते । एतेन च्छातोद्वातेति व्याख्यातम् । । साम्प्रतमुषिता[भा. २८५२] चरमाए जा दिज्जइ भत्तं विस्सामयंतिणं जावं ।
ता होइ ति सा दूरं च अंतरं तेन वुच्छंमि ।।
वृ- चरमायां पौरुष्यां सा समागता सा च्छाता ततो यावत्तस्यां चरमायां पौरुष्यां भक्तं दीयते । भक्तानन्तरं च संयत्यस्तां विश्रामयन्ति तावन्निशा भवति । दूरंतरं चा गुरुणामुपाश्रयात् तेन सा तत्रैव संयतीनामुपाश्रये उषिता प्रभाते च गुरुसमीपे नेष्यते ।।
[भा. २८५३ ]
नाहिंति ममंते तू काइना सेज्ज अप्प संकाए ।
जाउन नासेज तहिं तं तू गयंबेंति आयरिया ।।
वृ-प्रभातेऽहं गुरुसमीपे नेष्यते तु गुरुवो मां ज्ञास्यन्ति इति विचिन्त्य काचिदात्मशङ्कया नश्येत् । या तु नश्यति तां तत्र गुरुपाश्रये गतामाचार्याणां संयत्यः कथयन्ति । यथैषास्माकमुपाश्रयेऽनेन कारणेनोषिता एतेन वृत्थसाहंतीति व्याख्यातम् । । एवं कथिते आचार्यास्तां ब्रुवते किमित्याह
[भा. २८५४ ] न हु कप्पइ दूती वा चोरा अम्हका इ इतिवृत्ते । गुरुणानायामि अहं वएज नाहंति वा बूया ।।
वृ- न हु नैव कल्पते दूती चौरी चास्माकं काचित् दीक्षयितुं कल्पते इति गुरुणोक्ते ज्ञाताहमिति विचिन्त्य व्रजेत् । यदि ब्रूयात्नाहं तादृशीति एतेन पूर्वदोषात् चोदयतीतिव्याख्यातम् । । सम्प्रति क्खति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org