________________
२२४
व्यवहार- छेदसूत्रम् - २-६/१५८ स्ततस्तदादिकं वृषभादिक्रमे प्रवर्धमानं तावदवसेयं यायत्पर्यन्ते चरमं पाराञ्चितमितीयमक्षरयोजना भावार्थस्त्वयम् संयत्या प्रेषणे प्रवर्तिन्या विसर्जितायामविसर्जितायां वा यद्युपाध्यायो न विसर्जयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकास्ततोऽन्येन साधुना गीतार्थेन स उपाध्यायो भण्यते । तथाप्यमुत्कलने चतुर्गरु ततो यः साधुरुपाध्यायस्थानं प्राप्तस्तेन स प्रज्ञास्तेन स प्रज्ञाप्यते तथाप्य विसर्जने षड्लघु तदनन्तरमाचार्यस्थानं प्राप्तः साधुः प्रेष्यते तेनाप्यविसर्जने षड्गुरु कुलेन ततः कुलस्थविरेण वा भावनीयस्तत्राविसर्जने च्छेदः । गणेन गणस्थविरेण वा भणनेऽप्यविसर्जने मूलं सङ्खेन स्थविरेण वा प्रज्ञापनायामप्यमुत्कलनेऽनवस्थाप्यं तथा संयत्याभणने प्रवर्तिन्या विसर्जितायामविसर्जितायां वा यदि आचार्यो न विसर्जयति तदा तस्य प्रायश्चित्तं चतुर्गुरुकम् तदनन्तरं तस्य समीपे वृषभः प्रेष्यते तस्याप्पमुत्कलने षट्लघु । तत उपाध्यायस्थानप्राप्तेन साधुना भणनेऽप्यविर्सजने षट् गुरु । तदनन्तरमाचार्यस्थानप्राप्तः साधुः प्रेषणीयः । तस्याप्यमुत्कलने च्छेदः । कुलेन कुलस्थविरेण भणितेऽप्यविसर्जने मूलं गणेन गणस्थविरेण वाऽनवस्थाप्यं सङ्केन सङ्घस्थविरेण वा पाराञ्चितं संघातिक्रमे तस्या गणादपहरणं सङ्खेन । तथा चाह
[भा. २८२५]
साहत्थमुंडियं गच्छवासिणं बंधवेविभग्गंती । अन्नस्स देइ संघो नाणचरणरक्खणा जत्थ ।।
वृ- पार्श्वस्थादिभिः स्वहस्तमुण्डितां गच्छ्वासिनीं पार्श्वस्थादि गच्छ्वासिनीं वा बान्धवा उद्यतविहारिणो ये संसारान्निस्तारयन्ति तान् विमार्गयन्ती अन्यस्याचार्यस्योपाध्यायस्यान्यस्याश्च प्रवर्तिन्याः सङ्घो ददाति । यत्र तस्या ज्ञानचरणरक्षणा भवति किमित्वेवमत आह
[भा. २८२६ ] नाणे चरणस्स पव्वज्जाकारणं नाणचरणतो सिद्धी । हि नाणचरणवुड्डी अज्जाठाणं तहिं वृत्तं ।।
वृ- प्रव्रज्याकारणं ज्ञानस्य चरणस्य च ज्ञानचरणनिमित्तं प्रव्रज्या प्रतिपद्यते इति भावः । यतो ज्ञानचरणतः सिद्धिर्नान्यस्मात्ततो यत्र ज्ञानचरणरवृद्धिस्तत्रार्याणामार्यिकाणां स्थानप्रवस्थानमुक्तं तीर्थकरगणधरैः । पार्श्वस्थादीनां सकाशे ज्ञानचरणेन ततस्तेभ्यस्तामपहृत्य सङ्घो अन्यस्य ददाति । । [भा. २८२७] मोत्तूण इत्थ चरिमं इत्तिरितो होइ ऊ दिसाबंधो ।
उसन्नदिक्खियाए आवकहाए दिसाबंधो ।।
वृ- अत्र एतेषु चतसृषु मध्ये चरमां चउत्थी पुन मग्गए सिक्खमित्येवंरूपां मुक्त्वा शेषाणां तिसृणामध्वनिर्गतादिकादीनां दिग्बन्ध इत्वरो भवति । चरमायाः पुनरवसन्नदीक्षिताया यावत्कथिको दिग्बन्धः ।
मू. (१५९) कप्पइ निग्गंथाण वा निग्गंधीण वा निग्गंथं अन्नगणाओ आगयं खुयायारं जाव तरस ठाणस्स आलोयावेता पडिक्कमावेत्ता निन्दावेत्ता गरहावेत्ता विउट्टावेत्ता विसोहावेत्ता अकरणाए अभुट्ठावेत्ता अहारिहं पायच्छितं पडिवज्जावेत्ता उवट्ठावेत्तए वा धारेत्तए वा ।।
[ भा. २८२८ ]
बृ- अस्याक्षरगमनिका भाष्यविस्तरश्च प्राग्वत् द्रष्टव्यस्तथा चाहसेव गमो नियमा निग्गंथाणंपि होइ नायव्वो । नवरं पुन नाणत्तं अनवट्टप्पो य पारंची ।।
वृ- एष एवानन्तरोदितो गमः प्रकारो निर्ग्रन्थानामपेत्य गणादागच्छतां भवति नियमात् ज्ञातव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org