________________
२१८
व्यवहार - छेदसूत्रम् - २६ / १५४
लेपमट्टकं वापनीय उष्णोदकादिभिः प्रक्षाल्यान्यमयमिव कृत्वा पुनः लिम्पेत् ततः परिभुञ्जीत ।। अगलंतमत्तसेवी असती कप्पे काउ भुंजंति । एसा जयणा उभवे सव्वेसिं तेसिं नायव्वा ।।
[भा. २७९८ ]
वृ- यदि कायिकीभूमिर्न विद्यते बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन् अस्पन्दमानत्वगदोषवान् सेवते किमुक्तं भवति कायिकी तस्मिन् मात्रके व्युत्सृजति ततः कृतेकल्पेऽरोगाः तस्मिन् व्युत्सृजन्ति यदि पुनरकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चित्तं चतुर्गुरुकं । एषा यतना सर्वेषां गलत्त्वग्दोषिणामन्येषां च क्षयव्याध्याद्युपेतानां ज्ञातव्या ।
मू. (१५५) जत्थ एए बहवे इत्थीओ य पुरिसा य पणहावेति, तत्थ से समणे निग्गंधे अन्नयरंसि अचित्तंसि सोयंसि सुक्कपोग्गले निग्घाममाणे हत्थकम्मपडिसेवणपत्ते आवज्जइ मासियं परिहारट्ठाण अनुग्घाइयं ।
[भा. २७९९ ]
एगानियस्स दोसा के त्तिय भवसो उ सुत्तसंबंधो। कारणनिवासिनो वा दुविहा सेविस्स पच्छित्तं ।।
वृ- एकाकिनो दोषा के इति शिष्यस्य प्रश्नावकाशमाशङ्कयाधिकृतसूत्रस्योपनिपात । एष भवति सूत्रस्य सम्बन्धः, । अथवा कारणनिवासिनो द्विविधासेविनः सचित्तासेवनिऽचित्तासेविनश्च किं प्रायश्चित्तमिति परप्रश्नमुपजीव्य प्रायश्चित्तप्रतिपादनाय सूत्रद्वयमाहेति सम्बन्धः, अनेन सम्बन्धेनायातस्यास्य व्याख्या-यत्न यस्मिन् प्रदेशे प्रत्यक्षत उपलभ्यमानाः स्त्रियः पुरुषाश्च प्रश्नुवन्ति मैथुनकर्म प्रारम्भन्ते तत्र तस्मिन् प्रदेशे प्रदेशे मैथुनकर्म दृष्ट्रा कश्चिदुदीर्णमोहः स श्रमणो निर्ग्रन्थोऽन्यतरस्मिन्नर्चिते हस्तकर्माद्युचिते युगच्छिद्रनलिकादौ श्रोत्रवति शुक्रपुद्गलान् निघातयन् शुक्र पुद्गलनिर्घाताय हस्तकर्मप्रवेशना प्रसक्तो भवति । सच तथा प्रसक्त आपद्यते अनुद्घातितं गुरुकं मासिकं परिहारस्थानं प्रायश्चित्तस्थानं । तथा यत्रैते बहवः स्त्रियः पुरुषाश्च प्रश्नुवन्ति मैथुनकर्मप्रारम्भे तत्र तत् दृष्ट्वा कश्चित् सश्रमणो निर्ग्रन्थोऽन्यतरस्मिन्नर्चिते प्रतिमादौ श्रोत्रवति शुक्रपुद्गलान् निर्घातयन् मैथुनप्रतिसेवनाप्रसक्तो भवति । स च तथा प्रसक्त पद्यते चातुर्मासिकमनुद्घातितं परिहारस्थानमित्येष सूत्रसंक्षेपार्थः । [भा. २८०० ] बाहिं वक्खारट्ठिए महिलादागम अवारणे गुरुगा ।
वारण पेसे पेल्लणमुदए पडिसेवणा भणिया ।।
- बहिर्वक्षस्कारे अपवरके स्थिते त्वग्दोषवति तत्र निवेशनादी वा कृतसङ्केता स्त्री सस्त्रीको वा पुरुषः समागच्छेत् । स चागच्छन् वारयितव्योऽवारणेप्रायश्चित्तं चत्वारो गुरुकाः । वारणेत्यादि तत्र यथा वारणं तथा वक्तव्यम् । अथ बहिर्वर्षं गाढं पतित उपलक्षणमेतत् । स्तेनाः स्वापदानि वा बहिर्विद्यन्ते तेन तेन निर्गच्छन्ति । तदा तेष्वनिर्गच्छत्स्वधिकृतसूत्रस्यावकाशः तथा साधोः स्त्रिया प्रेरणा क्रियते । तथा प्रेरणायां तथा उदये वेदोदये सूत्रे प्रतिषेवणा भणिता । किमुक्तं भवति । प्रेरणायामुदये चाधिकृतसूत्रस्योपनिपातस्तत्र वारणप्रतिपादनार्थमाह
[ भा. २८०१ ]
पडिसेहो पुव्युत्तो, उज्जु अनुज्जुमिहुणे चउत्थंमि । उ निग्गममनिग्गमे विजहिं च सुत्तस्स पारंभो ।।
वृ- वारणं प्रतिषेधः । स च कल्पाध्ययने चतुर्थोद्देशके पूर्वमुक्तस्तथा तस्मिन् मिथुनमृजु किंवा अनृजुइत्याद्यपि यद्वक्तव्यम् । ततस्तत्रैवाभिहितंतथा सस्त्रीकस्य पुरुषस्य यथाच सति निर्गमो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org