________________
२१६
व्यवहार-छेदसूत्रम् -२-६/१५४ अभावे एकस्याएव कायिक्या भूमेस्तस्य योग्यं पृथक् अवकाशंभूत्या लक्षयति वृषभो यथा साधवस्तं परिहरन्ति, । तथा चाह-मा कोऽपि त्वग्दोषव्याधितस्य दूषितं मोकं प्रश्रवणं पादैराक्रमेत् । आक्रमेण को दोष इत्यतआह-आक्रान्ते तस्य प्रश्रवणेचरणतलेषुपादतलेषुत्वगदोषव्याधिः संक्रामति, तथा तस्य त्वग्दोषव्याधितस्य येनावकाशेन निष्क्रमणं प्रवेशो वा तमवकाशं भूत्या लक्षयति, । येन साधवस्तमपिपरिहरन्ति, अपरिहरणेऽनन्तरोदित एव दोषः ।।। [भा.२७८६] निंती वसो काउतली कमेसुंसंथारतोदूर अदंसणेवी।
माफासदोसेण कमेजतेसिंतत्थिक्कवत्थादिवि परिहरंति ।। वृ- सस्पन्दमानत्वग्दोषी क्रमयोः पादयोस्तलके उपानही कृत्वा निर्गच्छति प्रविशति वा । योऽप्यस्पन्दमानत्वग्दोषी तस्यापि कायिकी भूमिर्विष्वक् क्रियते न पुनः पृथग् भूमिनिर्गमप्रवेशस्थानम् ।।सम्प्रतिस्पन्दमानस्यास्पन्दमानस्यचस्पर्शविषयांसाधारणांयतनामाह-अस्पन्दनेऽपि त्वगदोषे आस्तां स्पन्दमाने इत्यापि शब्दार्थः । संस्तरको दूरे क्रियते मा स्पर्शदोषेण तेषां शेपसाधूनां व्याधिः संक्रमेदितिहेतोस्तथा न केवलं दूरे संस्तारकः क्रियते । किन्तुतेन त्वग्दोषवता यत्स्पृष्टं वस्त्रादि तत्परिहरन्ति । पूर्वोक्तादेव दोषात्तदेवंप्रश्रवणयतनास्पर्शयतना चसप्रपञ्चोक्ता ।। [भा.२७८७] नयभुंजतेगट्ठालालादोसेणसंकमतिवाही।
सेओ से वन्निज्जइजलपडलंतरप्पोय ।। वृ-नच एकार्थे एकस्मिन्पात्रेतेन त्वग्दोषवता सह साधवोभुंजते । कुत इत्याह यतो लालादोषेण संक्रामति व्याधिः । तथा स तस्य त्वग्दोषवत स्वेदप्रस्वेदो वय॑ते । तथा जल्लः शरीरमल्लस्तथा तत्सत्कानिपात्रपटलानि तथा आन्तरकल्पश्च परिहियतेव्याधिसंक्रमभयात्तथा चाह[भा.२७८८] एएहिंकमइवाही एत्थंखलु सेउएणदिठंतो।
कुट्ठय कच्छुयसिवंनयनामय कामलादीया ।। वृ-एतैर्जल्लादिभिर्व्याधिस्त्वग्दोषव्याधिःसंक्रामति । अत्रदृष्टान्तः खलुसेतुकेन (सिद्धकेन) तत एतानि परिहियन्ते, । किं नाम त्वग्दोष एव उतान्यस्मिन्नपि रोगे तत आह-कृष्टे क्षयव्याधौ कच्छां पामायामशिवे शीतलिकायां नयनाऽमये नयनदोषे कामलादावेषा अनन्तरोदिता प्रश्रवणादिविषया यतनादृष्टव्या ।। [भा.२७८९] एसा जयणाबहुस्सुए अबहुस्सुन कीरतेतुवक्खारो ।
ठावेंति एगपासे अपरिभोगंभिउजतीणं ।। वृ-एषाअनन्तरोदितायतनाबहुश्रुतेदृष्टव्या । अबहुश्रुतेऽप्येवं, नवरंससम्बद्धगृहापवरकेस्थाप्यते, भिन्नस्तु वक्षारोऽपवरको न क्रियते, । सम्बद्धगृहापवरकाभावे च वसतेरेकस्मिन् यतीनामपरिभोग्ये तं स्थापयन्ति, ।अपान्तराले कटो दीयते, । कटाभावे भूत्या अन्तरं क्रियते । अथ किं कारणमबहुश्रुतो बहिर्न र्कियते? तत आह[भा.२७९०] विवज्जतो उट्ठविवजएहिमा बाहिभावं अबहुस्सुतो उ ।
रुट्टाएभूतीव तिरो करेंति,मा एक्कमेक्कं सहसा फुसेज्जा ।। वृ- उट्ठविवज्जकैरहं विवर्जित परिहत इत्येवमबहुश्रुतो मा बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते किन्तु वसतेरेकस्मिन् प्रदेशे, तत्रापि काष्टादिना फलकादिरूपेण तदभावात् भूत्या वा अन्तरं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org