________________
उद्देशक : - ६, मूल - १५३, [भा. २७६८ ]
२१३
द्वारगाथायामादिशब्दस्य व्याख्यानं तत्रैव कृतं तथा असहायस्य से तस्य ग्लानत्वे सति कः कृत्यं करिष्यति ।। खद्धप्रत्यनीकप्रेरणद्वाराण्याह[भा. २७६९ ]
मंदग्गी भुंजए खद्धं ऊसढंति निरंकुसो । एगोपरूढगम्मो य पेल्लेउभामया वनं ।।
वृ- एकाकी निवारकामभावान्निरंकुशं ऊसढंति उत्कृष्टमितिकृत्वा मन्दाग्निः प्रचुरं भुङ्क्ते ततो ग्लानत्वादिदोषसंभ‘शअथथा एकोऽसहायः प्ररुष्टस्य प्रत्यनीकस्य गम्यो भवति । तथा उद्भ्रामका नगरादिरक्षका एकाकिनममुं चौरादिरिति कृत्वा नगरादेर्बहिः प्रेरयेयुः । । अधुना स्त्रीद्वारमाहविभिचारिम्मि परिणते निनिंदण समणवसहीतो । पंतावनादगारी उड्डाहो पउसएमादी ||
[भा. २७७०]
वृ- या व्यभिचारी नाम जारस्तस्मिन् परिणते सा स्त्री केनापि कारणेन संयतिवसतिं गता भवेत् । ततः श्रमणवसतेस्तां निर्गच्छन्तीं दृष्ट्वा अगारस्तस्या भर्ता अन्यो वा निजकोऽनिजको वा तस्यामासक्तः प्रान्तापनादि मारणादि कुर्यात् । तथा च सति प्रवचनस्य उड्डाहः प्रान्तापनाद्यभावे तस्य दर्शनस्य वा सकलस्योपरि प्रद्वेष उपजायते । तथा च सति तस्यान्यस्य वा भक्तपानादिव्यवच्छेद इत्यादयो दोषाः ।। वाण वावि डंकस्स से को कुणइ भेसजं । दीहरोगे विवद्धिं च गतो किं सो करिस्सइ ।।
[भा. २७७१]
बृ- व्यालेन सर्पादिना दष्टस्य से तस्य को भेषजं करोति । नैव कश्चिदेकाकित्वात्तथा दीर्घरोगे कृत्याकरणतो विवृद्धिं गतः स पश्चात्किं करिष्यति । नैव किञ्चित्केवलं मरिष्यतीत्यर्थः । । सल्लुद्धरणविसोही मए दोसा बहुस्सुए वावि ।
[भा. २७७२]
सविसेसा अप्पसुए रक्खंति परोप्परं दोवि ।।
वृ-शल्योद्धरणेविशोधिरेकाकिनः शल्योद्धरणाभावस्ततो मृतेऽपि च स शल्ये तस्मिन् दोषास्तथाहिसशल्योयो म्रियतेस दीर्घकालंसंसारमनुवर्तते इति बहुश्रुतं चाप्येकाकिनि मृते दोषास्तथाहि सोप्येकाकी मृतो गृहिणा बलीवर्दाभ्यां मल्लेन राजकुलेन वा निष्काश्यते । तथा वा लोकनिन्दाप्रवृत्ते प्रवचनव्याघातः सविसेसा अप्पसुपत्ति अल्पश्रुते एकाकिनि सविशेषा दोषास्तथाहि बहुश्रुत आलोचनार्हाभावे सिद्धानामन्तिके आलोचयति । अल्प श्रुतस्त्वमुं विधिं न जानातीति सशल्य एव म्रियते । यदि द्वावपि बहु (श्रुताल्प) श्रुतावभिनिर्विगडायां वसतौ परस्परं संभूय वसतस्तदा द्वावपि तौ परस्परंरक्षयतः । अधुना सविसेसा अप्पसु इत्येतद्वयाख्यानयति
[भा. २७७३]
अप्पेव जिनसिद्धे आलोएहि बहुस्सुतो । अगीतो तमजानंतो ससल्लो जातिदुग्गतिं ।।
वृ- अप्येवमेवमपि एकाक्यपीत्यर्थः । बहुश्रुतो जिनेषु अर्हत्सु सिद्धेषु मनसि सम्प्रधारितेष तेषां पुरत आलोचयिष्यते । अगीतोऽबहुश्रुतः पुनस्तं विधिमजानानः सशल्यो मृत्वा याति दुर्गतिमतः सविशेषा अल्पश्रुते । । सम्प्रति 'रक्खति परोप्परं दोवित्ति' व्याख्यानार्थमाह
[भा. २७७४]
सीहोरक्खई तिनिसे तिनिसेहिं विरक्खितो तहा सीहो ।
एवणमनसहिया बिइयमद्धाणमादीसु ।।
वृ- सिंहो रक्षति तिनिशात् तिनिशवृक्षगुहां तिनिशैरपि तिनिशवृक्षगुहयापि सिंहो रक्ष्यते ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International