________________
- २०८
व्यवहार-छेदसूत्रम् -२-६/१५२ वृ-यस्तेषांस्पर्धकःसाधूनांमध्येकोऽपिसाधुर्मेधावी ।सर्वेषांसाधूनामपराधान्हदये धारयितुमलं तेन स्पर्धकसाधव आलोचयन्ति, । तद्यथा-सतेषामपराधपदानि कलापंकृत्वा हृदये संपिण्डयाचार्यसमीपमागत्यालोचयति । तान्याचार्यः श्रुत्वायदापन्नाःप्रायश्चित्तंततोयत्येनाप–प्रायश्चित्तंतमेनमित्थं वाहयेदितिभणित्वाप्रेषयति ।सोऽपिचसाधुस्तेषांतत्कथयतिप्रायश्चित्तंचतेऽपिसाधवस्तद्वहन्ति । पडिच्छए वत्ति अथवा आचार्य आत्मीयान् स्पर्धकान विनिर्गत्य येन प्रदेशेन इतरौ स्पर्धकावागच्छतस्तस्मिन् प्रदेशेऽन्तरा प्रतीक्षमाणस्तिष्ठति । तत्र स्पर्धकसाधव आगच्छन्ति । एको वा मेघावी अत्राप्यालोचनादिकं तथैव अइदूरे इत्यादि यद्यतिदूरे स्थितास्तत्तदा पञ्चमे पञ्चमे दिवसे यदि वा पक्षण पक्षण अथवा मासेन मासेन परतरे वेति परतरेणवा द्व्यर्धमासादिना समागच्छन्ति । आगत्य चाचार्यादिसमीपेशोधिं कुर्वन्ति ।।
मू. (१५३) से गामंसिवा जाव.. रायहाणिसिवाअभिनिव्वगडाए अभिनिदुवाराए अभिनिखमणपवेसणाए नो कप्पइ बहुसुयस्स बब्भागमस्स भिक्खुस्स वत्थए, किमङ्गपुनं अप्पागमस्स अप्पसुयस्स। [भा.२७४१] अगडसुयाणन कप्पइवीसुंमाअइप्पसंगतोसुयवं ।
एगानितो वसेज्जा निकायणंचेवपुरिमाणं ।। वृ- अनन्तरसूत्रे अकृतश्रुतानां न कल्पते विष्वग् वास इति श्रुत्वा मातिप्रसङ्गतः श्रुतवानेकांकी वसेदित्येवमर्थमिदं सूत्र तथा निकाचनं च नियमश्च पूर्वाणामकृतश्रुतानां कृतमनेन सूत्रेण । तथा हि यदि कृतश्रुतस्यापिन कल्पते एकाकिनोवासः किमङ्गपुनरकृतश्रुतस्य तस्य सुतरामेकाकिनोन कल्पते वास इत्येष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्याअथ ग्रामेवा नगरेवा यावद्राजधान्यां वाअभिनिव्वगडायामभिनिद्वारायामभिनिष्क्रमणप्रवेशायामेतेषांत्रयाणामपिपदानांव्याख्यानंपूर्ववत् न कल्पते बहुश्रुतस्य सूत्रापेक्षया एकाकिनो भिक्षोर्वस्तुं किमङ्गपुनरल्पागमस्याल्पश्रुतस्येति सूत्रसंक्षेपार्थः । सम्प्रतिभाष्यविस्तरः[भा.२७४२] अंतोवाबहिं वा अभिनिविगडाएट्ठायमाणस्स |
गीयत्थे मासलहुंगुरुतोमासो अगीतत्थे ।। वृ-अन्तरुपाश्रयस्याभिनिव्विगडायांपृथक्परिक्षेपायांवसतौयथा एकस्यांवलभ्यां विष्वगपवरके बहिरुपाश्रयस्याभिनिर्विगडायामन्यस्मिन् प्रतिश्रये यदि गीतार्थो भिक्षुर्वसति तदा तस्य तत्र तिष्ठतो गीतार्थस्य प्रायश्चित्तंमासलघुअगीतार्थस्य गुरुकोमासः ।साम्प्रतमन्तर्बहिर्वा गृहस्यया अभिनिर्विगडा तस्याःप्रकारानाह[भा.२७४३] अंतो निवेसणस्ससोहीमादीवजाव सग्गामो ।
घरवगडाएसुत्तंएमेवयसेस वगडासु ।। वृ-निवेशनस्यगृहस्यान्तरभिनिर्विगडाअथवानिवेशनाद्वहिरन्यावसतिरभिनिर्विगडातस्यांमुख्यतो द्रष्टव्यम् । एवमेव शेषवगडा निवेशनाद्वहिरभिनिर्विगडाप्रकारेषु वा तच्च गीतार्थानामगीतार्थानां भिक्षूणामेकाकिनांवसतांप्रायश्चित्तंतदेवप्रागुक्तं ।केवलंप्रायश्चित्तंकिन्त्वन्येऽपिचदोषास्तथाचाह - [भा.२७४४] आणादिणो यदोसा विराधना होइसंजमायाए ।
लज्जाभयगोरवधम्मसढरक्खाचउद्धाय ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org