________________
उद्देशक :- ६, मूल - १५२, [भा. २७३५]
तत्रैव वसति ।।
[भा. २७३६ ]
एवमेगेन दिवसेन सोहिं कुणति तिण्हवी । पडिपुच्छगं तु बलवं आह सुत्तमवत्थयं ।।
वृ- एवमेकेन दिवसेनाचार्यस्त्रयाणामपि स्पर्धकानां शोधिं करोति, यसि प्रतिपृच्छां प्रत्येकं पृच्छां सारं कर्तुं गंतुं बलवान् । यद्येवं तहि तइयं रयणिं संवसतित्ति तदिदानीमपार्थकमवकाशा भावात् । सुत्तनिवातो थेरेकलाव काउं तिहेण वा सोहिं । बितियपयं च गिलाणे कलाव काऊण आगमनं ।
[भा. २७३७]
२०७
वृ- आचार्यः प्राह- अधिकृतस्य सूत्रस्य निपातोऽवकाशं स्थविरे, तथाहि यद्याचार्यः स्थविरतया दुर्बलत्वेन वा प्रतिदिवसं त्रिषु स्पर्धकेषु शोधिं कर्तुं न शक्नोति । तत एकैकस्मिन् स्पर्धके तृतीयां रात्रिं वसति तथा चाह- आचार्यस्य प्रतिदिवसमनागमने त्र्यहेण वापराधान् कलां कृत्वा पिण्डयित्वा शोधिमाचार्यस्य समीपे कुर्वन्ति । तथा हि एकसस्मिन् स्पर्धके उपित्वा तत्रपौरुषी दत्वा द्वितीये स्पर्धके समायाति, तत्रैव च वसति, यत्र वसति तत्रत्यास्तत्रत्याः साधवो येऽपराधाऽभवन् ते एकत्र पिण्डयित्वा आचार्यस्य पुरत आलोचयन्ति । आचार्यस्तु शोधिं ददात्यप्रमादार्थं चोपदेशं ग्रयच्छति । अत्रापि द्वितीयपदमाह-द्वितीयपदमपवादं पदं ग्लाने सत्याचार्ये अपराधान् कलापं कृत्वा पिण्डयित्वा इत्यर्थः स्पर्धकाः साधूनामागमनमाचार्यसमीपे । इयमत्र भावना-यद्याचार्यो ग्लानत्वेनातिवृद्धत्वेनाजङ्गमो न शक्नोति तेषां समीपमागन्तुं, तदा इतरे स्पर्द्धकद्वयसाधवो यथा मयूरः स्वपिच्छान् कलापयति, एकत्र पिण्डयति । एवमपराधान् एकत्र पिण्डयित्वा हृदये सम्यगवधार्य गुरुसमीपमागत्यालोचयन्ति । आलोचितेषु च तेषु अपराधेषु यदि प्रायश्चित्तं दातव्यं भवति, तदा प्रायश्चित्तमाचार्यो दत्वा प्रमादाभावार्थमुपदेशं च दत्वा विसर्जयति । एतदेव सविस्तरमाह
[ भा. २७३८ ]
एवं अगडसुयाणं वीसुठियाणं तु तीसुगामेसु ।
लहुया असंथरंते तेसिअनिंताण वा लहुओ ।।
वृ- सर्वेषां यद्याचार्येण समं नास्ति क्षेत्रं यत्र वसतिः संस्तरणं च भवति अथवास्ति वसतिः संस्तरणं न विद्यते, यदि वास्ति संस्तरणं न पूनर्वसतिः । एवमेतैः कारणैस्त्रिषु विष्वक् ग्रामेषु विष्वक् स्थिता अकृतश्रुतास्तेषामसंस्तरणे तथा स्थितानां यद्याचार्यो द्वयोरितरयोः स्पर्धकयोः प्रतिदिवस सारांन करोति तदा प्रायश्चित्तं चत्वारो लघुकाः । स्पर्धकसाधवो यद्याचार्यमनागच्छंतं न गवेषयन्ति तदा तेषामप्यनागच्छतां मासलघुः । [भा. २७३९]
एदिन एक्क्के तिट्ठाणत्थाण दुब्बलो वसति । अहसो अजंगमो च्चिय ताहे इयरे तहिं एंति ।।
Jain Education International
वृ- अथ ग्लानत्वेन वृद्धत्वेन दुर्बलतया न प्रतिदिवसं त्रिषु स्पर्धकेष्बागन्तुं शक्नोति तदा स दुर्बलआचार्यसस्त्रिस्थानं स्थानं स्पर्धकानामेकैकस्मिन् स्पर्धके एकैकं दिवसं वसति । यथा च वसति तथा प्रागेवोक्तम् । अथ स आचार्योऽतिवृद्धत्वेन ग्लानत्वेनाजङ्गमो जातस्तत इतरे स्पर्धकद्वयसाधवस्तत्राचार्यसमीपे आगच्छन्ति तेषामपि विधिर्मूलगाथायामुक्तः । अथवा तत्रान्यः प्रकारस्तमेवाहः एइव पडिच्छ व मेहावि कलावकाउमवराधे । अतिदूरे पुन वइए पक्खे मासे परतरे वा
[भा. २७४०]
For Private & Personal Use Only
www.jainelibrary.org