________________
२०६
व्यवहार-छेदसूत्रम् - २-६ / १५२
तत् आह-संमणुन्नेत्यादि । समनोज्ञानामपि येषां परस्परं प्रतिस्तान् समनोज्ञान्दृढधृतीन् अतरुणान् मध्यमवयसो बहिः प्रतिवृषभानाचार्या विसर्जयन्ति । तदेवं वसत्यलाभे यतनोक्ता । दुल्लभभिक्खे जतिउं, सग्गामुप्भाम पल्लिया सुंच । अतिखेय पोरसिवहे न वावि ठायंति तो वीसुं । ।
[भा. २७३०]
वृ-दुर्लभेभैक्षेयदिस्वग्रामे उद्भ्रामकभिक्षाचारप्रत्यासन्नग्रामे पल्लिकादिसुवसन्ति, तथापि यतित्वापि नास्ति संस्तरणं, अथवा अतिशयेन महता कालक्षेपेण यदि पर्याप्तं कथमपि लभ्यते । पौरुषीवधेन द्वितीयचतुर्थपौरुषीभङ्गेन ततो विष्वक् अन्यक्षेत्रेऽपि गीतार्थाभावेनाकृतश्रुता अपि तिष्ठन्ति । ते च विष्वक् क्षेत्रेषु तथा तिष्ठन्ति यथा आचार्ये स्पर्द्धकेन सह त्रीणि स्पर्धकानि भवन्ति । । उभयस्स अलंभंमिवि गीता सति वीसु ठंति अगडसुया ।
[भा. २७३१]
दुसुतीसु व ठाणेसुं पतिदिवसालोय आयरिओ ।।
वृ- उभयस्य वसते र्भैक्षस्य वाऽलाभे गीतार्थस्याभावेऽकृतश्रुता अपि विष्वक् तिष्ठन्ति । कथमित्याह- द्विषु त्रिषु वा स्थानेष्वाचार्यस्थानेन सहोत्कर्षवस्त्रिषु स्थानेषु इत्यर्थः । तत्र भिक्षाऽलाभे उभयालाभे वा विष्वक् स्थितानां प्रतिदिवसमाचार्यास्तेषामन्तिकं गत्वा तानालोकते, । प्रतिपृच्छादिदानेन तेषां सारं करोतीत्यर्थः । किं कारणमाचार्येण प्रतिदिवसं तेषां समीपे गन्तव्यमत आह[भा. २७३२] सयरा भवंति अनवेक्खणाए जइ भिन्नवायणा लोए ।
पडिपुच्छ सोहिचोयण तम्हा उ गुरु सया वयइ ।।
वृ- भिन्नप्रवहणाः स्वैरिणो भवन्ति । एव तेऽपि स्वैरिणो जायन्ते, तस्मात् प्रतिपृच्छाशोधिशिक्षादिदानाय गुरुः सदा तेषामन्तिकं व्रजति । तस्य पुनराचार्यस्य तेषां समीपं व्रजतस्तैर्यत्कर्तव्यं - [भा. २७३३] तन्हाइयस्य पानं जोग्गाहारं च नेइ पव्वोणि ।
कितिकम्मं च करेंती मा जुन्न रहो व्व सीएज्जा ।।
वृ- येषां समीपमाचार्यो गच्छति, ते आचार्यस्य पव्वोणिं सम्मुखं तृष्णायितस्यातिशेषतृषितस्य योग्यं पानं पानीयं योग्यमाहारं च प्रथमालिकानिमित्तं नयन्ति । कृतिकर्म च विश्रामणां कुर्वन्ति, नान्यथा जीर्णरथ इव स सीदेत् । अथ तस्याचार्यस्य नित्यसहायो न विद्यते तत आह
[भा. २७३४]
असती निच्चसहाये गेहइ पारंपरेण अनोअणे ।
ते चिय अनेहिं समं तं मेलेउं नियत्तंते ।।
वृ- असति अविद्यामाने नित्यसहाये अविस्थतसहाये यः सकलदिवसाचार्येण सह हिण्डते, ततः पारम्पर्येणान्यानन्यान् सहायान् गृह्णाति । तद्यथा-एकेसाधवस्तावन्नयन्तियावत् द्वितीयं स्पर्धकं, ततस्ते तैः समं मेलयित्वा प्रतिनिवर्तन्ते, ततोऽप्यन्ये साधवस्तावन्नयन्ति यावत्तृतीयं स्पर्धकं । ततस्तेऽपि तैः सह मेलयित्वा प्रतिनिवर्तन्ते । तानि च स्पर्धकान्याचार्यस्पर्धकेन सह त्रीणि स्पर्धकानि भवन्ति ।। अथ कथमाचार्य एकदिवसेन त्रयाणामकृतश्रुतस्पर्धकानां शोधिं करोति तत आहएगत्थ वसितो संतो तेसिं दाऊण पोरसिं ।
+
[भा. २७३५]
मज्झण्हे बितियं गंतुं भोत्तुं तत्थावरं वए ।।
वृ- आत्मीये स्पर्धके उषितः सन् आचार्यस्तत्र पौरुर्षी दत्वा मध्याहे द्वितीयं स्पर्धकं गच्छति । तत्र गत्वा भुंक्त्वा शोधिं च कृत्वा, तदनन्तरमपरं तृतीयं स्पर्धकं व्रजति । तत आलोचनादिशोधिं कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org