SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ व्यवहार- छेदसूत्रम् - २ ६/१५१ स्नानदर्शनादिनिमित्तं गमनेच्छाभावात् । तेषांच बहूनामगीतार्थानांया पथि सामाचारी या च समवसरणे प्रविष्टानां तस्याः कथनं अथ कस्मात्ते निर्बन्धेऽपि कृते मुत्कल्यन्ते, तत आह-मा निरुध्यमाना बहिर्भावं व्रजेयुरिति कृत्वा । मू. (१५२ ) से गामंसि वा जाव रायहाणिंसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपवेसणाए नो कप्पइ बहूणंवि अगडसुयाणं एगयओवत्थए, अत्थि याइ ण्हं केइ आयारपकप्पघरे जे तत्तिय रयणिं संवसइ नत्थि या इत्थ केइ छेए वा परिहारे वा; नन्थिया इत्थ केइ आयारपकप्पघरे, जेतत्तिय रयणि संवसइ सव्वेसिंतेसिं तप्पत्तियं छेए वा परिहारे वा । [भा. २७२१] अगा वास नाऊण निवारिय अगीयाणं । सग्गामा वीसुं वसेज अगडा अयं लेसो ।। वृ- अन्यस्मिन् ग्रामे अगीतार्थानां वासं निवारितं ज्ञात्वा मा स्वग्रामे विष्वगपि वासः कल्पते इति मन्यमाना भृता अकृतश्रुताः स्वग्रामे विष्वक् वसेयुरतस्तस्मिन्निषेधार्थभिदं सूत्रमित्ययं सूत्रसम्बन्धलेशः । अथवाऽयमन्यः सम्बन्धः [ भा. २७२२] २०४ अगडसुया वाहिकया समागमो एस होइ दोहंपि । सच्छंद अनिस्सिया वा निस्सियजयणा विहंभणिया || - अनन्तरसूत्रे ऽकृतश्रुता अधिकृता अस्मिन्नपि सूत्रे ते एवाकृतश्रुताः प्रोच्यन्ते, इत्येष द्वयोरपि सूत्रयोः समागमः सम्पर्कः । अथवाऽधस्तनानन्तरसूत्रे स्वच्छन्दतोऽनिश्रितो उक्ताः । अस्मिन् पुनर्गीतार्थनिश्रितानां यतना भणिता, । अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'से गामंसि वा' इत्यादि पूर्ववत् । नवरमभिनिव्वगडाए अभि प्रत्येकं नियतो वगड परिक्षेपो यस्यां सा अभिनिव्वगडा तस्यां पृथक् परिक्षेपायामित्यर्थः । तथा अभि प्रत्येकं नियतं द्वारं यस्याः सा तथा तस्यां तथा अभि प्रत्येकं निष्क्रमणप्रवेशौनिष्क्रमणप्रवेशस्थानं यस्याः सा तथा तस्यां वसतौ बहूनामकृतश्रुतानामेकतो वस्तुमस्ति चात्र कश्चिदाचारप्रकल्पधरो यस्तृतीयां रजनीं गत्वा तैः समं वसति । तर्हि तेषामापन्नः समापन्नो नास्ति कश्चित् च्छेदः परिहारो वा, नास्ति कश्चिदाचारप्रकल्पधरो यस्तृतीयां रजनिं गत्वा तैः समं वसति तर्हि तेषां सर्वेषामपि तत्प्रत्ययमगीतार्थ सह सम्बन्धिनः प्रत्ययं च्छेदः परिहारो वा एष सूत्रसंक्षेपार्थःगामे उवस्सए वा अभिनिव्वगडाए दोस ते चेव । [ भा. २७२३] नवरं पुन नाणत्तं तइ दिवसे गीयसंवसणा ।। वृ- ग्रामे वा एकस्मिन्नुपाश्रये विष्वक् अभिनिवगडायां पृथक् परिक्षेपायामुपलक्षणमेतत् पृथक् द्वारायं पृथक् निष्क्रमणप्रवेशायां । येऽनन्तरसूत्रे मिथ्यात्वादयो दोषा उक्तास्ते एवान्यूनातिरिक्ता द्रष्टव्याः । नवरं पूनर्नानात्वभिदमस्मिन् सूत्रे यदि गीतार्थनिश्रया वसति तर्हि तृतीयदिवसे गीतसंवसनं गीतार्थेन सह संवसनं कर्तव्यमाचार्यस्तृतीयदिवसे तेषां शोधिनिमित्तं गीतार्थमेकं प्रेषयत्येवं च तेषां नास्ति प्रायश्चित्तं । अत्र पर आह [भा. २७२४] एवं पि भवे दोसा दोसु दिवसेसु जे भणिय पुव्विं । कारणियं पुन वसही असती भिक्खोभए जयणा ।। वृ- ननु यदि तृतीयेदिवसे गीतार्थेन सह संवसनमेवमपि ये पूर्वं भणिता मिथ्त्वादयो दोषास्ते द्वयोर्दिवसयो र्भवन्ति । आचार्य आह-सत्यमेतत्; केवलमिदं सूत्रं कारणिकं, कारणवशप्रवृत्तमतो न 1 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy