________________
२०१
उद्देशकः-६, मूल - १५१, [भा. २७०४] खेडंसि वा कव्वडंसि वा इत्यादिपरिग्रहः । राजधान्यां वा एगवगडाए एगो वगडः परिक्षेपो यस्या सा . एकवगडातस्यांतथा एकस्मिन् प्रदेशे निष्क्रमणप्रवेशोयस्याः साएकनिष्क्रमणप्रवेशे तस्यांन कल्पते बहूनामकृतश्रुतानामगीतानामित्यर्थः । एकत एवास्यां वसतौ वस्तुं अस्ति चात्र एतेषां मध्ये आचारप्रकल्पधरस्तर्हिनास्त्यमीषांकश्चिच्छेदः परिहारो वाशब्दादन्यदपिप्रायश्चित्तमथनास्तिकश्चिदत्र एतेषांमध्येआचारप्रकल्पधरस्तर्हिसेतेषामन्तरा तस्मात्स्थानादिप्रतिक्रमणालक्षणाच्छेदः परिहारोवा। [भा.२७०५] एगमिवी असंतेन कप्पती कप्पतीयसंतंमि ।
__ उउबद्धेवासासुयगीयत्थो देसिएचेव ।। वृ- एतेषां बहूनामकृतश्रुतानामेकतो वसतामेकस्मिन्नपि गीतार्थेऽसत्यविद्यमाने ऋतुबद्धे वर्षासु च वस्तुं न कल्पते । यदि वसति तत् ऋतुबद्धे काले प्रायश्चित्तं मासलघु वर्षाकाले चतुर्लघुकं । अथैकोऽप्यस्ति गीतार्थस्तर्हि तस्मिन् ऋतुबद्धे वर्षासु च वस्तुंकल्पते, न तत्र प्रायश्चित्तमिति भावः । किं कारणंगीतार्थेन सह संवसतां न प्रायश्चित्तमत आह-गीतार्थो देशक एव भवति । इयमत्रभावनायथा केचित पुरुषाअटव्यांविप्रनष्टाः,केनचिद्देशकेनदृष्टास्तेमणितामाइतोव्रजन्तोऽटवींप्रविशताहं भवतो निस्तारयामि, । ततस्तेन ऋजुकेन पथा नगरं प्रापिता, एवं गीतार्थोऽपि मोक्षपथविप्रनष्टानां मोक्षपथप्रदर्शक इतितेन सहसंवसतांसतांकालद्वयेऽपिनास्तिप्रायश्चित्तमिति ।। [भा.२७०६] किह पुन होजबहुनामगडसुयाणंतुएगतोवासो ।
होजा हिकक्खडंमिखेत्तेअरसादिचइयाणं ।। वृ-कथं केन कारणेन पुनर्बहूनामकृतश्रुतानामेकत्र वासो भवेत्, । सूरिराह-कर्कश क्षेत्रे अरसादित्याजितानां भवेदेकत्र वासः । तथाहि-ते साधवो महति गच्छे वर्तमाना नगरे रुक्षेरसविरसादिभिराहारैनिर्भिसिताः सम्प्रधारयन्तिकियच्चिरंवयंरुक्षाहारैर्योगसंस्तरणकर्तुशक्नुमस्तस्माद्गच्छाम एवं चिन्तयित्वा गच्छादपक्रामन्ति । एवमेतेषामकृतश्रुतानांबहूनामेकत्रवासः[भा.२७०७] चइयाणयसामत्थंसंघयणजुयाणमाउलाणंपि।
उउवासे लहुलहुगा सुत्तमगीयाणमानादी ।। वृ- अरसविरसादिभिराहारैस्त्याजितानामाकुलानां संहननयुतानामपि अपिशब्दो भिन्नक्रमत्वादत्र योजितएवंसामत्थंपर्यालोचनं भवति । यथाकियन्तंकालं वयंरुक्षाहाराः स्थास्यामस्तस्मादपक्रमामो गच्छादिति, एवं चिन्तयित्वा यदिऋतुबद्धे कालेवसन्तितदा प्रायश्चित्तंमासलघुवर्षाकालेचतुर्लघुकं । एतेनागीतार्थानांविषयेऽधिकृतंसूत्रन केवलमधिकृतंप्रायश्चित्तंकिन्त्वाज्ञादयश्चतानेव मिथ्यात्वादीन दोषान्द्वारगाथयासंजिधृक्षुराह[भा.२७०८] मिच्छत्तसोहिसागारियाइगेलन्ने अहव कालगए।
अद्धाणउमसंभम भएयरुद्धेय उसरिए ।। वृ-तेषामगीतार्थानांमतिभेदादिना मिथ्यात्वंस्यात्, तथाशोधिस्तै ज्ञायते, तथास सागारिकायां वसतौयेदोषाः परिहार्यास्तेषामपरिज्ञानंअथवा स्लानत्वेअथवा कालगतेअध्वनिमार्गेअवमे अवमौदर्ये अग्न्यादिसंभ्रमे बोधिकम्लेच्छस्तेन भये अकालवर्षेण रुद्ध तथा अपसृते पथि गच्छतां कस्मिंश्चित् मन्दगतित्वास्फिटितेयायतनातांनजानन्ति । एषद्वारगाथासंक्षेपार्थः । ।साम्प्रतमेनामेव विवरीषुः[भा.२७०९] मतिभेया १ पुव्वोग्गह २ संसग्गीएय ३ अभिनिवेसेनं ४ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org