________________
१९६
[भा. २६७६] खंतादिगुणोवेओ पहाणनाणतवसंजमावसहो । माइसंतगुरुणावि कत्थणं संसणातिसये ।।
वृ- गंभीरोऽपरश्रावी, मार्दवितो मार्दवोपेतस्तथाभ्युपगतस्य शिष्यस्य प्रातीच्छिकस्य वत्सलो यथोचितवात्सल्यकारी, तथा शिवोऽनुपद्रवस्तथा सोमः शांताकृतिः तथा विस्तीर्णकुलोत्पन्नो दाता कृतज्ञः श्रुतवान् तथा क्षान्त्यादिगुणोपेतः ज्ञानप्रधानतपः संयमानामावसथो गृहं एवमादीनां सतां गुरुणां गुणानां विकथनं श्लाघनमेव चतुर्थः प्रशंसनातिशयः । अधुना प्रशंसनस्य फलमाहसंतगुणकित्तणया अवणवादीन चेव पडिघातो । अविहोज संसणं पुच्छाभिगमे दुविहं लाभो ।।
[भा. २६७७]
वृ- सद्गुणोत्कीर्तनायां महती निर्जरा भवति । तथा सद्गुणकीर्तनाया अवर्णवादिनां प्रतिघातः कृतो भवति, अपि भवेदयं महान् गुणो गुणो गुणवन्तमाचार्य श्रुत्वा बहूनां राजेश्चरतलवरप्रभृतीनां संशयिनां पृच्छार्थमभिगमो भवति । पृच्छानिमित्तमाचार्यसमीपमागच्छन्ति आगताश्च धर्मं श्रुत्वा अगारधर्ममनगारधर्मं वा प्रतिपद्यन्ते इति द्विविधो लाभः पञ्चमातिशयप्रतिपादनार्थमाह
[भा. २६७८ ]
करचरण नयन दसणाइ धावणं पंचमो उ अतिसेसो । आयरियस उ सययं, कायव्वो होति नियमेन ।।
वृ- करचरणनयनदशनादि प्रक्षालनं पञ्चमोऽतिशयः । सततमाचार्यस्य नियमेन भवति कर्तव्यः । अत्र पर आह[भा. २६७९]
व्यवहार- -छेदसूत्रम् - २ - ६ / १४९
मुहनयनदंतपायादि धोवणे को गुणोत्ति ते बुद्धी । अग्गि मतिवाणिपडुया तो होइ अनोतप्पया चेव ।।
बृ-मुखनयनदंतपादादिधोवने को गुण इति एषा ते बुद्धिः स्यात् । अत्रोच्यते मुखदन्तादिप्रक्षालनेनिपटुता जाठराग्निप्राबल्यं, मतपिटुतावाक्पटुता च नयनपादादि प्रक्षालने अनोत्तप्पया अलज्जनीयशरीरता भवति । एष गुणो मुखादिप्रक्षालेन । एते पञ्चातिशयाः । पञ्च उपलक्षणमन्यदपि यथायोगमाचार्यस्य कर्तव्यम् । । तथा चाह
[भा. २६८० ]
असढस्स जेन जोगाण संधणं जह उ होइ थेरस्स । तं तं करेति तस्स उ जह से जोगा न हायंति ।।
वृ-यथास्थविरस्याशठस्य सतोयेन येन क्रियमाणेन योगानां सन्धानं भवति तत्तस्याचार्यस्य साधवः कुर्वन्ति । तथा से तस्याचार्यस्य योगा न हीयन्ते न हानिमुपगच्छन्ति ।। एए पुन अतिसेसे उवजीवेयावि कोवि दढदेहो । निदरिसणं एत्थ भवे अज्जसमुद्दा य मंगूअ ।।
[भा. २६८१ ]
वृ- एतान् पुनरतिशयान् कोऽप्याचार्यो दृढदेहः सन् नोपजीवति यस्तु दृढदेहः सोऽशठो भूत्वा उपजीवति न तु तैरतिशयैर्गत्रं करोति हर्षं वा मनसि मन्यते, त्र निदर्शनं भवन्त्यार्यसमुद्रा मंग्वाचार्याश्च । [भा. २६८२ ] अञ्जसमुद्दा दुब्बलकिति (त) कम्मा तिन्नितस्स कीरंति ।
सुतत्थ पोरिसि समुट्ठियाण तइयं तु चरमाए ।।
वृ- आर्यसमुद्राः सूरयो दुर्बलाः दुर्बलशरीरास्ततस्तेऽतिशयानुपजीवितवन्तोऽनुपजीवने योगसन्धानकरणाशक्तेस्तथा च तस्य प्रतिदिवसं त्रीणि कृतकर्माणिविक्षामणारुपाणि क्रियन्ते । तद्यथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International