________________
उद्देशक : - ६, मूल- १४९, [भा. २६५७ ]
[भा. २६५७ ]
पायसमत्ते काले अज्झयणुद्देस अंगसुयक्खंधे । एहिं कारणेहिं अब्भुठाणं तु अनुयोगो ।।
वृ- प्रकृते सम्पाते तथा काले समाप्तेऽध्ययनोद्देशांगश्रुतस्कन्धेषु वा समाप्तेषु यदि प्राघूर्णकाद्यागमनं भवति तदेतैः कारणैरभ्युत्थानमनुयोगो भवति । तत्र कालोऽध्ययनादिकं च प्रतीतं न प्रकृतप्रतिपादनार्थमाह
[भा. २६५८ ]
कप्पंमि दोणि पगया पलंबसुत्तं च मासकप्पे, य । दो चेव यववहारे पढमे दसमे य जे भणिया ।।
१९३
वृ - कल्पे कल्पाध्ययने द्वे प्रकृते । तद्यथा- प्रलम्बसूत्रं मासकल्पश्च । मासकल्पसूत्रं तु व्यवहारे द्वे प्रकृते ये भणिते प्रथमे दशमे चोद्देशके । तत्र प्रथमे आरोपणासूत्रं दशमे पञ्चविधव्यवहारसूत्रम् । न केवलमेतदेव प्रकृतं किन्त्वन्यदपि तथा चाह
[भा. २६५९ ]
पेढियातो य सव्वातो चूलियातो तहेव य । नित्तीकप्पनामस्स ववहारस्स तहेव य ।।
वृ- सर्वाः प्रकल्पकल्पादिगताः पीठिकास्तथा सर्वाश्चलिकास्तथा कल्पनाम्नो व्यवहारस्य च तथा चैवेति वचनादन्येषां च दशवैकालिकप्रभृतीनां च निर्युक्तयः प्रकृतानि । अत्रैवादेशान्तरमाहअनोवि य आएसो, जो रायनिंतो य तत्थ सोयव्वे ।
[भा. २६६०]
अनुयोगधम्मयाए किइकम्मं तस्स कायव्वं ।।
वृ- अन्योऽपि चादेशो मतान्तरं तत्र श्रोतव्ये यो रानिको रत्नाधिकोऽनुभाषक इत्यर्थः । तस्य नन्द्यामुच्चारितायामनुयोगधर्मतया कृतिकर्म वन्दनं कर्तव्यं, । तथा
[भा. २६६१]
Jain Education International
केवलिमादी चोद्दसदसनवपुव्वी य उठणिज्जोउ ।
जे तिहि ऊनतरगा समाणे अगुरुं न उठति ।।
वृ- अर्थमपि कथयता समागच्छन् केवली अभ्युत्थातव्यः । आदिशब्दान्मनः पर्यवज्ञानी अवधिज्ञानी च परिगृह्यते, तथा ये तेभ्यो नवपूर्वधरादिभ्य ऊनतरास्तैः पूर्वधरादिरभ्युत्थानीयः, तथाहि कथको यदि कालिक श्रुतधारी तर्हि तेनार्थमपि कथयता नवपूर्वीदशपूर्वी चतुर्दशपूर्वी वाभ्युत्थातव्यो नवपूर्विणा दशपूर्वी । दशपूर्विणा चतुर्दशपूर्वी इति । तथा यदि समगच्छन् समानः समानश्रुतोऽगुरुश्च तदा तं नाभ्युत्तिष्ठति । तदेवं प्रवचने निर्जरा चेति द्वारद्वयं गतमिदानीं सापेक्षद्वारमाहसावेक्खे निरवेक्खे गच्छे दिठतो गामसगडेणं । राउलकज्जनिउत्तं जहा गामेणं कयं सगडं ॥ अस्सामिबुद्धियाए पडियं सडियं व निखक्खत्ति । रन्नाणत्ते दंडो सयं व सीयंति कजेसु ।।
[भा. २६६२]
[भा. २६६३]
वृ- आचार्यस्य शिष्यैः प्रतीच्छिकैश्चसर्वं कर्तव्यं, तेच तथा कुर्वन्तः सापेक्षा उच्यन्ते, येतुन कुर्वन्ति, ते निरपेक्षास्तत्र सापेक्षे निरपेक्षे च गच्छे दृष्टान्तो ग्रामशकटेन, । तद्यथा - एकस्मिन् ग्रामे ग्रामेण ग्रामेयकैः पुरुषैः राजकुलकार्यनियुक्तं शकटमेकं कृतं । ततो यत्ते राजकुलेनाज्ञाप्यन्ते धान्यं घृतधटादि वा नेतव्यं आनेतव्यं वा तस्मिन् शकटे आरोप्यानयन्ति नयन्ति वा, तथा नास्य कश्चित्स्वामीत्यस्वामि
22 13
For Private & Personal Use Only
www.jainelibrary.org