________________
उद्देशक : - ६, मूल - १४९, [भा. २६४७]
१९१
विश्रोतसिका संयमस्थानप्लावनमिति भावः, तस्मादभ्युत्थानकुर्वन् प्रयतः शृणुयात् । प्रयतो नाम कृताञ्जलिप्रग्रहो दृष्ट्वा सूरिमुखारविन्दमवेक्षमाणो बुध्युयुक्तस्तथाभ्युत्थाने क्रियमाणे उपनयस्य विषये व्याकुलता, उपनयः कस्याप्यर्थेन क्रियते अन्यथा वा क्रियेत येन उपनयग्रहणमुपलक्षणं तेन यत् ग्रहणं ज्ञातं तत् व्याकुलनात् भ्रश्यति पृच्छा वा कर्तुमारब्धा विस्मृतिमुपयाति, कालो व्याख्यानस्य त्रुट्यतीति तथा निरन्तरमविच्छेदेन भाषमाणस्य शृण्वतो महानाक्षेपस्तीव्रशुपरिणामरूपो जायते । अभ्युत्थाने तद्वयाघातस्तद्यथा च सति शुभपरिणामाभावतो येऽवध्यादिलाभः संभाव्यते तस्य विनाशोऽत्रार्थे चाहरणं ज्ञातं वक्तव्यं । तथा आरोपणायाः प्रायश्चित्तस्य प्ररूपणे क्रियमाणेऽभ्युत्थाने व्याघातो भवति, व्याघाताच्च सम्यगवग्रहो ग्रहणं न भवति । न खलु व्याक्षिप्तोऽवग्रहीतुं शक्नोति किं त्वव्याक्षिप्त इति प्रतीतमेतत् । तथाभ्युत्थाने क्रियमाणे व्याकुलता ततः सम्यक् श्रुतोपयोगो न भवति । तदभावाच्च ज्ञानावरणीयस्य कर्मणो न निर्जरा । एतैः कारणैरभ्युत्थानं प्रतिकुष्टं । साम्प्रतमेतदेव गाथाद्वयं विवरीषुः प्रथमतः काउस्सग्गे विक्खेवया य इति भावयति
?
[भा. २६४८ ]
उच्चारिया नंदीए विक्खेवे गुरुतो भवे ।
अप्पसत्थे पसत्थे च दिट्टंतो हत्थिलावका ।।
वृ- अनुयोगारंभार्थं कायोत्सर्गं कृते नन्द्यां ज्ञानपञ्चकरूपायामुच्चारितायामभ्युत्थानेनान्येन वा प्रकारेण यो व्याक्षेपं करोति, तस्य प्रायश्चित्तं गुरुको मासः । तस्माद्वयाक्षेप न कर्तव्यः । अत्राप्रशस्ते व्याक्षेपकरणे प्रशस्ते च व्याक्षेपाकरणे दृष्टान्तो हस्तिलावकाः हस्ती च शालीनां लावकाश्च हस्तिलावकास्तत्राप्रशस्ते प्रतिपादयति
[भा. २६४९]
जह सालिं लुणावेंतो कोई अत्थारिएहिंउ । सेयं हत्थिं तु दावेइ धाविया तेय मग्गओ ।। न लुओ अह साली उवेक्खेवेण तेन उ । वक्खेवेयराणं तु पोरिसी एव भज्जइ । ।
[भा. २६५० ]
- यथा कोऽपि कुटुम्बी निजे क्षेत्रे अत्थारिएहिं तु ये मूल्यप्रदानेन शालिलवनाय कर्मकराः क्षेत्रे क्षिप्यन्ते ते अस्तारिकास्तैर्लावयन् कथमपि सप्ताङ्गप्रतिष्ठितं श्वेतमारण्यहस्तिनमागतं दृष्ट्रा दर्शयति । तद्दर्शिते च ते हस्तिनो मार्गतः पृष्टो धाविताः आगतैरपि हस्तिनो रूपेणाक्षिप्तैर्हस्तिरूपं वर्णयद्भिः तेन व्याक्षेपेणाथ शालिर्नलूना एवमिहापि अभ्युत्थानेन व्याक्षेपेरतानां पौरुषीभङ्गोभवति । व्याख्यानं पुनर्न किमपि याति, तस्माद्वयाक्षेपो न विधेयः । प्रशस्ते व्याक्षेपाकरणे दृष्टान्तः स्वयं भावनीयः स चैवम्एकः कौटुम्बिकः शालिक्षेत्रं लावयति । तस्य सत्कया दास्या शालिलुनंत्या सप्ताङ्गप्रतिष्ठितः श्वेतोवनहस्ती चरन् दृष्टो, दास्या ज्ञातंयदिशालिलावकानां कथयिष्यामि ततोहस्तिनं दृष्ट्रा हस्तिनो रूपेणाक्षिप्ता हस्तिनो रूपं वर्णयन्त आसिष्यन्ते एष च हस्ती दिनेऽस्मिन्नवकाशे दृश्यते. ततः शालिर्नलविष्यते यदा तु शालिः परिपूर्णो लूनो भवेत् तदा सा दासी स्वामिनः शालिलावकानां चाकथयत् । ततस्तैरुक्तं किंतदा नाख्यातं दासी प्राह शालिलक्तिव्यव्याघातो भविष्यतीति हेतोस्तत एवमुक्ते कौटुम्बिकः परितुष्टः, तेन च परितुष्टेन मस्तकप्रक्षालनतो दासी अदासकृता । एवमिहापि व्याक्षेपोकरणीयस्तथा च सति भगवदाज्ञापरिपालनतः कर्मक्षयेण त्रिलोकमस्तकस्थो भवति सम्प्रति विकथादिपदव्याख्यानार्थमाहविकथा चउव्विहा वुत्ता, इंदिएहिं विसोत्तिया ।
[भा. २६५१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org