________________
उद्देशक :- ६, मूल - १४९, [ भा. २६२६]
शिष्यः प्राह अस्य कीद्दशी निर्जरा भवति ? आचार्यः प्राह सूत्रे अर्थे च यथोत्तरं बलिका । सुत्तावासगमादी चोद्दसपुवीण तह जिनानं च । भावे सुद्धमसुद्धे सुत्तत्थे मंडली चेव ।।
[भा. २६२७]
वृ-सूत्रमावश्यकादि यावच्चतुर्दशपूर्वाणि, एतद्धराणां यथोत्तरं महत्तरा निर्जरा एवमर्थेपि भावनीयं, तथा जिनानामप्यवधिजिनप्रभृतीनां यथोक्तं बलिका निर्जरा इयमत्रभावना - एक आवश्यकसूत्रधरस्य वैयावृत्यं करोति । अपरो दशवैकालिकश्रुतधरवैयावृत्यकरस्तस्यावश्यकसूत्रधरवैयावृत्यकरान् महती निर्जरा । एवमधस्तनाधस्तन श्रुतधरवैयावृत्त्यकरादुपर्युपरितर श्रुतधरवैयावृत्त्यकरो यथोत्तरं महानिर्जरस्तावदवसेयो यावत्रयोदशपूर्वधरवैयावृत्यकराच्चतुर्दशपूर्वधरवैयावृत्त्यकरो महानिर्जरः । एवमर्थेऽपि भावनीयम् । तदभयचिन्तायां सूत्रवैयावृत्त्यकरादर्थवैयावृत्त्यकरो महर्धिको नवरं निशीथकल्पव्यवहारार्थधराणां वैयावृत्यकरात् कालिकश्रुतवैयावृत्त्यकरो महानिर्जरः । तथा श्रुतज्ञानिवैयावृत्त्यकरः तथा भावः परिणामस्तस्मिन् शुद्धेऽशुद्धे च तदनुसारेण निर्जरा प्रवर्तते । तथा सूत्रार्थे युगपच्चिन्त्यमाने यथोत्तरं बलिका तथा मण्डलीकसूत्रार्थवधिकृत्य विचारणीया इहाचार्यः प्रस्तुतमधिकृत्य वैयावृत्त्यकरणे महती निर्जरा । तामेवाह
[भा. २६२८ ]
१८७
पावयणी खलु जम्हा, आयरितो तेन तस्स कुणमाणो । महतीए निज्जराएं वट्टति साहू दसविहंमि ।।
वृ- प्रावचनी प्रावचनिकः खलु यस्मादाचार्यस्तेन तस्य वैयावृत्त्यं कुर्वन् साधुर्महत्यां निर्जरायां वर्तते । एवं दशविधेऽपि वैयावृत्त्ये महानिर्जराकत्वं भावनीयं, सम्प्रति यदुक्तं भावे शुद्धेऽशुद्धे च तदनु सारतो निजरा भवतीति । तत्र शुद्धाभावो व्यवहारतः शुद्धवस्तुप्रभावाद्मवतीति प्रतिपिपादयिषुराहजारिसगं जं वत्थं, सुयं च तिण्हं व ओहिमादीणं ।
[भा. २६२९]
तारिसतो च्चियभावो उपज्जति वत्थुतो जम्हा ।।
वृ- यादृशं यद्वस्तु प्रतिमादिकं यस्य यावच्च श्रुतं त्रयाणां चावध्यादीनां स्वस्थाने ये विशेषास्तस्माद्वस्तुनः श्रुताद्विशेषाद्वा तादृशान् भावः परिणामो व्यवहारतः तादृश उत्पद्यते तदनुसारेण च निर्जरा, ततः पूर्वं श्रुतचिन्तायां अर्थचिन्तायां वा तथा जिनानां च यथोत्तरं वलिका निर्जरोक्ता तथा चैतमेव व्यवहारनयं प्रतिपिपादयिषुराह
[भा. २६३० ]
गुणभूइठे दव्वंमि जेन मत्ताहियत्तणंभावे । इति वत्थुतो इच्छति ववहारो निज्जरं विउलं ।।
वृ-येन यतो गुणभूयिष्ठं द्रव्यं ततस्तस्मिन् येन कारणेन मात्राधिकत्वं भावे परिणामे भवतीति अस्मात् कारणात् वस्तुनः प्रतिमाश्रुतादेर्यथोत्तरं गुणभूयिष्टात् विपुलां निर्जरामिच्छति व्यवहारो व्यवहारनयः । एतदेव स्पष्टतरं भावयति
[भा. २६३१]
लक्खणजुत्ता पडिमा पासादी या समत्तलंकारा ।
पल्हायति जह वयणं तह निज्जरमो वियाणाहि ।।
- या जिनप्रतिमा लक्षणयुक्ताः प्रसादी मनः प्रसादकरणं समस्तालङ्कारा तां पश्यतो यथैव मनः प्रह्लादते तथा निर्जरां विजानीहि । यद्यधिकं मनः प्रल्हत्तिस्ततो महती निर्जरा, मन्दमनः प्रल्हत्तौ तु मंदेतिभावः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org