________________
१८६
व्यवहार-छेदसूत्रम्-२-६/१४९ चत्वारोगुरुकाः; । यच्चयत्रवाअनागाढपरितापनादि साधवःप्राप्नुवन्तितन्निष्पन्नमपितस्य प्रायश्चित्तं, तस्मात्सर्वं प्रयत्नेनाध्वादिष्वसंस्तरणेभिक्षाटनं कर्तव्यम् ।साम्प्रतमसंस्तरणयतनामाह[भा.२६२२] असती पडिलोमंसगामे गमणदाणसड्डेसु ।
पेसेति बितियदिवसे आवजइमासियं गुरुयं ।। वृ- असति अवमौदर्यादिना गच्छसंस्तरणाभावे प्रतिलोमं गणावच्छेदकादारभ्य प्रतिकूल गमनमवसातव्यं । तद्यथा-प्रतिवृषभादिरसंस्तरणे गणावच्छेदकोऽपि प्रतिवृषभादिभिः सह हिंण्डते तथाप्यसंस्तरणेस्थविरोपितथाप्यसंस्तरणेप्रवर्तकोपितथाप्यसंस्तरणेउपाध्यायोपितथाचेन्नसंस्तरति तदा स्वग्रामे दानश्रद्धेषु कुलेष्वाचार्यस्य गमनं भवति, तथापि चेदसंस्तरणं तत आचार्यो अन्यान्यपि गृहाणि, तथा केनापि साधुना कस्मिंश्चकुले ग्लानप्रायोग्यं किमपिद्रव्यं याचितं, परंन लब्धमथचतत् द्रव्यं तस्मिन् गृहे प्रभूतमस्ति अन्यत्र च न विद्यते, तत्र यदि द्वितीये दिवसे तस्मिन् कुले येन न लब्धं तमेवाचार्यः प्रेषयति ततो गुरुकं मासिकं प्रायश्चित्तमापद्यते तस्मात् तस्मिन् कुले प्रतिलोमं प्रेषयितव्यस्तद्यथा-प्रथमं गणावच्छेदकः प्रेष्यस्तेनालब्धे स्थविरस्तेनाप्यलब्धे प्रवर्तकस्तेनाप्यलब्ध उपाध्यायस्तेनाप्यलब्धेस्वयमाचार्यो व्रजति । यदि वा स गृहप्रभुर्यस्य गौरवं करोति स प्रेषयितव्यः । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो गाथापूर्वार्धभावयति[भा.२६२३] गणावच्छेदओ पुव्वं ठवणकुलेसुंच हिंडइसगामे ।
एवं थेर पवित्ती अभिसेय गुरुयपडिलोमं । वृ-पूर्वंगणावच्छेदकः स्वग्रामे स्थापनाकुलेषुहिण्डते । एवं गणावच्छेदादारभ्यप्रतिलोमंवक्तव्यं, तद्यथा-असंस्तरणे स्थविरोऽपि हिण्डते, तथाप्यसंस्तरणे प्रवर्त्यपि, तथाप्यसंस्तरणे अभिषेक उपाध्यायस्तथापिसंस्तरणाभावे गुरुरपि । अधुना पेसेति बितियदिसे इत्यादिभावयति[भा.२५२४] उभासिय पडिसिद्धतंचेव तत्थ पठवेज्जाउ ।
पडिलोमंगणिमादी गोरवंजत्थ वाकुणति ।। वृ-केनापिसाधुना ग्लानप्रायोग्यं किमपिद्रव्यं कस्मिंश्चित्कुले अवभाषितंयाचितमित्यर्थः, तच्च गृहे प्रभुणा प्रतिषिद्धमन्यत्रतत्द्रव्यं नास्ति, किन्तुतस्मिन्नेव गृहे । ततो द्वितीयदिवसे तत्रकुले नतमेव प्रेषयेत् । किन्तु प्रतिलोमंगण्यादिंगणावच्छेदप्रभृतिकं यथोक्तंप्राक् । यत्र वा गृहप्रभुर्गौरवं करोतितं वाप्रेषयेत। [भा.२६२५] तित्थगरत्तिसमत्तंअहुणा पावयण निज्जरा चेव ।
वच्चंतिदोविसमगंदुवालसंगंपवयणं ।। वृ- तीर्थकर इति द्वारं समाप्तम् । अधुना प्रवचनं निर्जरा चेति द्वे अपि द्वारे समकमेककालं व्रजतस्तत्र प्रवचनं नाम द्वादशाङ्गगणिपिटकम् । [भा.२६२६] तंतुअहिजंताणं वेयावच्चे उनिजरातेसिं । .
कस्सभवे केरिसिया सुत्तत्थे जहोत्तरंबलिया ।। वृ- तत्तु द्वादशाङ्गं गणिपिटकमधीयानानां वैयावृत्त्ये क्रियमाणे तेषां वैयावृत्त्यकराणां महती निर्जरा भवति, उक्तं च-आयरियं वेयावच्चं करेमाणे महानिज्जरे महापजवसाने भवति, इत्यादि अत्रमहानिर्जरस्तदावरणीयस्य कर्मणः क्षयकरणात्महापर्यवसानः पुनरन्यनवकर्मबंधाभावात् । अत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org