________________
. १७६
गोचरचर्या न हिंडते ।। [भा. २५६६ ]
व्यवहार-छेदसूत्रम् - २ - ६ / १४९
संखादीया कोडी सुराण निच्चं जिणे उवासंति । संसयवागरणाणि य मणसा वयसा च पुच्छंते ।।
वृ-संख्यातीताः सुराणां कोट्यो नित्यं सर्वकालं जिनान् तीर्थकृत उपासते । तथा सततं वचसा च पृच्छति सुरादिके मनसा वचसा च संशयव्याकरणानि करोति । ततो भिक्षां न हिण्डन्ते । [भा.२५६७] उप्पननाणा जह नो अडंती चोत्तीसबुद्धातिसया जिनिंदा ।
एवं गणी अट्ठगुणोववेतो सत्था व नो हिंडइ इड्डिमं तु ।।
वृ- यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशत् बुद्धातिशयाः सर्वज्ञातिशया देहसौगन्धादयो येषां ते यथा भिक्षां न हिण्डंते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान् न हिण्डते ।।
[ भा. २५६८ ] गुरू हिंडणं गुरुगावसमे लहुयाऽनिवारयतरस । गीतागीते गुरूलहु आणातया बहुदोसा ॥
वृ- आचार्य भिक्षामहामीति व्यवसितं यदि वृषभो न निवारयति तथा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लधुकाः । अथ वृषभेवा निवारितोऽपिन तिष्ठति तर्हि वृषभः शुद्ध आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः तथा गीतार्थी भिक्षुश्चेन्न गमने प्रत्येकं चतुर्गुरू आज्ञादयश्च दोषा इमे च वक्ष्यमाणा बहवो दोषास्तानेवाह
[भा. २५६९]
वाते पत्ते गालो कायकिलेसे अचिंतया मेड्डी । अकारगे वाले गणचिंता वा इड्डिणो ।।
वृ- भिक्षामटतो वातो वातप्रकोपो भवति । तथा अत्युष्णरितापनात् पित्तमुद्रिक्तीभवति तथा गणस्य गच्छस्य भिक्षाटन परिश्रमत आलोकः कर्तव्यो न भवति, तथा भिक्षाटने कायक्लेशो भवति तस्माच्च सूत्रार्थपरिहानिस्तथा सूत्रार्थयोरचिन्ता भवति । तथा मेढीभूत आचार्यस्तस्मिन् भिक्षामटति शिष्याणामात्मद्वारभावतः प्राघूर्णकादीनां वात्सल्यकरणाभावः, तथा अकारकं चेत् द्रव्य लभते तस्यभोजने ग्लानत्वमभोजने परिस्थापनिकादोषः । तथा भिमटतो व्यालश्चादिरुपतिष्ठति तंत्र चात्मविराधना तथा भिक्षाटने दोषा एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुराहभारेण वेयणाए हिंडते उच्चनीयसासो वा ।
[ भा. २५७० ]
बाहुकडिवायगहणं विसमाकारेण सूलं वा ।।
वृ- भारेण भक्तभृतभाजनभरेण वेदना भवति । तथा कोऽपि ग्रामो गिरौ निविष्टो भवेत् । तत्र च . कानिचित् गृहाण्युच्चस्थाने कानिचित् नीचस्थाने तानि भारेण वेदनायां सत्यां हिण्डमानस्य श्वासो भवति । तथा बाहोः कटेश्च वातेन ग्रहणं भवति, तथा ग्रामे विषमाकारेण व्यवस्थिते यत्र तत्र वा तिर्यक् शरीरं कृत्वा गच्छतः शूलं वा भवेत् । । [ भा. २५७१]
Jain Education International
अच्चण्हतावितोन्नखद्धदवावियणे च्छडुणाईया ।
अप्पियणे असमाही गेलन्ने सुत्तभंगादी ।।
वृ- तथा अत्युण्षेन परिपितः सन् खद्धं प्रचुखवं पानीयमतितृषित आददीतः । तथा समुद्दिष्टोऽपि 'तथा परितापभावतः पुनः पुनः पानीयमामपिबेत् । तथा चाहारः पानीयेन प्लावितः सन् न जीर्येत् ।
For Private & Personal Use Only
www.jainelibrary.org