________________
उद्देशक:-६, मूल - १४९, [भा. २५४९]
१७३ क्षुल्लकः सतत्कायिकीमानंप्रच्छन्नं वस्त्रान्तरितंप्रणयतिसमर्पयति । तत्रकायिकीमाचार्यो व्युत्सृजति। एतच्च यदि पृच्छयतेतीविनयः कृतोभवतितस्मादुपायेन पृच्छामीतिविचिन्त्येदं पृच्छति[भा.२५५०] विनओ उत्तरिओत्तियवलितोगंगाकतो मुहीवहति ।
पुव्वमुही अचलंतोभणति निवं आगितिजुत्तोवि ।। वृ- राजा सूरिमापृच्छति-भगवन् । किं लौकिको विनयो बलीयान् अथ लोकोत्तरिकः । आचार्येणोक्तमयमर्थः परीक्ष्यतां परमेवं ज्ञायते । लोकोत्तरिको विनयो बलीयान् । तत्र परीक्षा कर्तुमारब्धा । आचार्येणोक्तं यस्तव दृष्टप्रत्ययोऽयं चाकृत्या त्वं जानासिन एष विनयभ्रंशी तं प्रेषय, यथा कुतोमुखी गंगा वहतीति ज्ञात्वा निवेदय । ततो राजा य आकृतिमान् यश्च द्दष्टप्रत्ययस्तं प्रेषयति व्रज कुतोमुखी गङ्गा वहति । सोऽचलन् तत्रैव स्थितो नृपं भणति-यथा पूर्वाभिमुखी गङ्गा वहति लोकोऽप्यन्य एतत् जानाति । तत आचार्यो ब्रूते । मम शिष्यानां मध्ये यं त्वं विषमकरचरणनाशादिभिर्विषमंजानासि । उक्तंच -
विषमसमैर्विषमसमा विषमैर्विषमाः समैः समाचाराः ।
करचरणवदननाशाकर्णोष्ठनिरीक्षणैः पुरुषाः ।। विषमत्वाच्च विषम एव विनयभ्रंशंकरिष्यतीतितंप्रेषयः ।। [भा.२५५१] रना पयंसितो एसअविनीयदसणो समणो ।
पञ्चागय उस्सगं, काउंआलोयएगुरुणो ।। वृ-एवमाचार्येणोक्ते राज्ञायो विषमकरचरणादिनाअविनीतदर्शनः श्रमणःसप्रदर्शितएषः व्रजतु कया दिशा गङ्गा वहतीति आचार्येण स प्रेषितः स आचार्यानापृच्छय तत्र गत्वा ततः प्रत्यागत्य ऐर्यापथिक्या कायोत्सर्गंकृत्वा गुरोः पुरत आलोचयति । कथमित्याह[भा.२५५२] आदिच्चदिसालोयणतरंगतणमाइयाय पुव्वमुही ।
माहोज दिसामोहो पुट्ठोविजणो तहेवाह ।। वृ-भगवन् युष्मत्पादानापृच्छयाहं गङ्गातटं गतस्तत्रच गत्वा सूर्यं निर्ध्यातवानु यतः आदित्या, दिविभागः सम्यक् ज्ञायते । एवमादित्यदिगालोचनं कृतं । तथा तरंगैस्तृणादीनि पूर्वाभिमुखाण्युह्यमानानि, तत्र कदाचिद् दिग्मोहोऽपि स्यात्ततो मा भूद्दिग्मोह इत्यन्योऽपि जनस्त्रिःसंख्याकः पृष्टः सोऽपि तथैवाह । यथा पूर्वाभिमुखी गंगा वहतीति । एतच्च राज्ञा प्रत्ययिकप्रच्छन्नपुरुषैः परिभावोऽपि,तंतैरपि तथैवकथितं । ततोराजाप्राह[भा.२५५३] वहबंधच्छेयमारणनिविव्सयधणवहारलोगम्मि ।
भवदंडो उत्तरितो उच्छहमानस्सतोबलितो ।। वृ- लोके योऽस्माकमाज्ञां भनक्ति तस्य वधं लकुटादिप्रहारैस्ताडनं, बन्धं निगडादिभिश्छेदं कर्णच्छेदादिकं केषांचित् मारणविनाशनमपरेषां निर्विषयकरणमन्येषां धनापहारं कुर्मः । तथा केचिदस्माकमाज्ञां भञ्जन्ति, लोकोत्तरेषु पुनराज्ञां भञ्जतामेतानि भयानि [न] सन्ति तथापि परेण प्रयत्नेन लोकोत्तरिका आज्ञां कुर्वन्ति । तत्किं कारणमाचार्यमाह-भवदण्डो इत्यादि । पश्चा) यस्तीर्थकरगणधरादीनामाज्ञांभनक्ति तस्य परभवे हस्तच्छेदनादीनि भवंति । एष लोकोत्तरेभवदण्डः अस्माभीतस्य साधोरुत्सहमानस्य स्वशक्त्यनिगृहस्यनिगृहनेनोद्यमं कुर्वतो विनयो बलीयान् । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org