________________
१७०
व्यवहार-छेदसूत्रम्-२-६/१४९ किन्तुवसतिंप्रविश्यात्मीय अवकाशे यतनयात्मनः पादौ प्रमार्जयेत् । प्रथमोऽतिशयोगतः । [भा.२५३८] बहिगमने चउगुरुगाआणादी वाणिएय मिच्छत्तं ।
पडियरणमनाभोगेखरिमुहमरुए तिरिक्खादी ।। वृ- आचार्यो यदि विचारभूमिं बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुका आज्ञादयश्च दोषाः, । तथा वाणिएय मिच्छत्तमिति वणिजि अभ्युत्थानं पूर्वं कृतं भवति पश्चादकुर्वति केषांचिन्मिथ्यात्वमुपजायते ।इयमत्रभावना आचार्यंसंज्ञाभूमिंव्रजन्तंततः प्रत्यागच्छन्तंच दृष्ट्रावणिजो निजनिजापणे स्थिता अभ्युत्थानं कृतवन्तस्तं च तथा वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वाकेचिदन्ये मन्यन्ते गुणवानेष आचार्योयेनवणिज्जएवमनेमभ्युपतिष्ठन्ति । तस्मादस्माकमपिपूज्य इतितेऽपिपूजयन्तियदात्वाचार्यः कदाचित् द्वौ वारौ संज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यम् । ते चालस्यं मन्यमाना अभ्युत्थातव्यं भविष्यतीति कृत्वा आचार्यं दृष्ट्वाऽन्यतो मुखं कुर्वन्ति । तांश्च तथा कुर्वतो दृष्ट्रा अन्ये चिन्तयन्ति । नूनमेषप्रमादी जातोज्ञातोऽपिगुणवानपियदीदृशः पततितहिन किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्यं लोकेन पूज्यमानं दृष्ट्रा मरुके बाह्यणस्य मारणबुद्धया प्रतिचरणं भवति । ततः संज्ञाभूमिं गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् ।अनाभोगेनवावनगहने प्रविष्टे तिर्यगादौचगर्दब्यादौकुलटादौ च प्रविष्टायामात्मपरोभयसमुत्थां दोषा एष गाथासंक्षेपार्थः ।।सम्प्रति वाणिएय मिच्छत्तमित्येतद्विभावंयिषुराह[भा.२५३९] सुयवंतंमिपरिवारवंचवणियंतरावनुट्ठाणे ।
टुट्ठाणनग्गिमंमि यहाणी य परमुहावणा ।। वृ-संज्ञाभूमिव्रजतिततः प्रत्यागच्छतिवा तस्मिचार्ये श्रुतवानेष परिवारवांश्चेतिमन्यमाना अन्तरा निजनिजापणेषु स्थितावणिजोऽभ्युत्थानं कृतवन्तः । तेषांचोत्थाने लोकसयचभूयान्बहुमान आसीत्। कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिं व्रजेत् ततो द्विस्थाननिर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं ततस्ते आलस्यं मन्यमाना अभ्त्थानस्य हानि कुर्वन्ति । ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यंभविष्यतीति कृत्वा तमाचार्य दृष्टा परमुखाभवन्ति । अन्यतोमुखंकुर्वन्तीति भावः । अथवाअवर्णः स्यात्तथाहिद्वौवारौ संज्ञाभूमिव्रजन्तमाचार्यं दृष्ट्रातेवदन्ति । नूनमेषआचार्यो द्वौ त्रीन्वारान् समुद्दिशतितेन द्वौ वारौ संज्ञाभूमिंयाति ।।। [भा.२५४०] गुणवंतुजतो वणियापूयं तन्नेव सन्नया तंमि ।
- पडियत्ति अनुठाणेदुविहनियत्ती अभिमुहाणं ।। वृ-वणिजांबहुमानेनाभ्युत्थानंदृष्टा केचिदन्येचिन्तयन्ति ।गुणवानाचार्योयतोवणिजः पूजयन्ति। एवं चिन्तयित्वा तेऽप्यन्ये तस्मिन्नाचार्ये सन्नता भवन्ति । वारद्वयं संज्ञाभूमिगमने वणिजामनुत्थाने ते चिन्तयन्ति ।नूनमेषआचार्यः पतितः । कथमन्यथावणिजः पूर्वमभ्युत्थानंकृतवन्तोनेदानींकुर्वन्ति, तथा च सति तेषामभिमुखाणां द्विविधा निवृत्तिस्तथा ये श्रावकत्वं गृहीतुकामा ये च तस्य समीपे प्रव्रजितुकामास्ते चिन्तयंति ।यद्येषोपि प्रधानो ज्ञात्वा कुशीलत्वं प्रतिपद्यते तर्हि नूनं सर्वं जिनवचनमसारमितिमन्यमानाः श्रावकत्वात्व्रतग्रहणाद्वाप्रतिनिवर्तन्ते मिथ्यात्वंगच्छन्ति ।सम्प्रति पडियरणमणाभोगे इत्यादिव्याख्यानमाह
[भा.२५४१] आउट्टोत्तिवलोगेपडियरिउच्छिन्नेमारुए मरुगो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org